🪷 बालकाण्ड · Sarga 57

Bāla-Kāṇḍa · The Book of Childhood · Sarga 57 · 24 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 1.57.1
ततः त्रिशंकोः वचनम् श्रुत्वा क्रोध समन्वितम् ।ऋषि पुत्र शतम् राम राजानम् इदम् अब्रवीत् ॥१-५७-१॥
Vālmīki 1.57.2
प्रत्याख्यातो असि दुर्बुद्धे गुरुणा सत्य वादिना ।तम् कथम् समतिक्रम्य शाखा अन्तरम् उपेयिवान् ॥१-५७-२॥
Vālmīki 1.57.3
इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।न च अतिक्रमितुम् शक्यम् वचनम् सत्य वादिनः ॥१-५७-३॥
Vālmīki 1.57.4
अशक्यम् इति स उवाच वसिष्ठो भगवान् ऋषिः ।तम् वयम् वै समाहर्तुम् क्रतुम् शक्ताः कथंचन ॥१-५७-४॥
Vālmīki 1.57.5
बालिशः त्वम् नर श्रेष्ठ गम्यताम् स्व पुरम् पुनः ।याजने भगवान् शक्तः त्रैलोक्यस्य अपि पार्थिव ॥१-५७-५॥
Vālmīki 1.57.6
अवमानम् कथम् कर्तुम् तस्य शक्षायामहे वयम् ।तेषाम् तद् वचनम् श्रुत्वा क्रोध पर्याकुल अक्षरम् ॥१-५७-६॥
Vālmīki 1.57.7
स राजा पुनः एव एतान् इदम् वचनम् अब्रवीत् ।प्रत्याख्यातो भगवता गुरु पुत्रैः तथैव हि ॥१-५७-७॥
Vālmīki 1.57.8
अन्याम् गतिम् गमिष्यामि स्वस्ति वो अस्तु तपो धनाः ।ऋषि पुत्राः तु तत् श्रुत्वा वाक्यम् घोर अभिसंहितम् ॥१-५७-८॥
Vālmīki 1.57.9
शेपुः परम संक्रुद्धाः चण्डालत्वम् गमिष्यसि ।इति उक्त्वा ते महात्मानो विविशुः स्वम् स्वम् आश्रमम् ॥१-५७-९॥
Vālmīki 1.57.10
अथ रात्र्याम् व्यतीतायाम् राजा चण्डालताम् गतः ।नील वस्त्र धरो नीलः परुषो ध्वस्त मूर्धजः ॥१-५७-१०॥
Vālmīki 1.57.11
चित्य माल्य अनुलेपः च आयस आभरणो अभवत् ।तम् दृष्ट्वा मंत्रिणः सर्वे त्यज्य चण्डाल रूपिणम् ॥१-५७-११॥
Vālmīki 1.57.12
प्राद्रवन् सहिता राम पौरा ये अस्य अनुगामिनः ।एको हि राजा काकुत्स्थ जगाम परम आत्मवान् ॥१-५७-१२॥
Vālmīki 1.57.13
दह्यमानो दिवा रात्रम् विश्वामित्रम् तपो धनम् ।विश्वामित्रः तु तम् दृष्ट्वा राजानम् विफली कृतम् ॥१-५७-१३॥
Vālmīki 1.57.14
चण्डाल रूपिणम् राम मुनिः कारुण्यम् आगतः ।कारुण्यात् स महातेजा वाक्यम् परम धार्मिकः ॥१-५७-१४॥
Vālmīki 1.57.15
इदम् जगाद भद्रम् ते राजानम् घोर दर्शनम् ।किम् आगमन कार्यम् ते राजपुत्र महाबल ॥१-५७-१५॥
Vālmīki 1.57.16
अयोध्या अधिपते वीर शापात् चण्डालताम् गतः ।अथ तत् वाक्यम् आकर्ण्य राजा चण्डालताम् गतः ॥१-५७-१६॥
Vālmīki 1.57.17
अब्रवीत् प्रांजलिः वाक्यम् वाक्यज्ञो वाक्य कोविदम् ।प्रत्याख्यातो अस्मि गुरुणा गुरु पुत्रैः तथा एव च ॥१-५७-१७॥
Vālmīki 1.57.18
अनवाप्य एव तम् कामम् मया प्राप्तो विपर्ययः ।स शरीरो दिवम् यायामि इति मे सौम्य दर्शन ॥१-५७-१८॥
Vālmīki 1.57.19
मया च इष्टम् क्रतु शतम् तत् च न अवाप्यते फलम् ।अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ॥१-५७-१९॥
Vālmīki 1.57.20
कृच्छ्रेषु अपि गतः सौम्य क्षत्र धर्मेण ते शपे ।यज्ञैः बहु विधैः इष्टम् प्रजा धर्मेण पालिताः ॥१-५७-२०॥
Vālmīki 1.57.21
गुरवः च महात्मानः शील वृत्तेन तोषिताः ।धर्मे प्रयतमानस्य यज्ञम् च आहर्तुम् इच्छतः ॥१-५७-२१॥
Vālmīki 1.57.22
परितोषम् न गच्छन्ति गुरवो मुनिपुंगव ।दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम् ॥१-५७-२२॥
Vālmīki 1.57.23
दैवेन आक्रम्यते सर्वम् दैवम् हि परमा गतिः ।तस्य मे परम आर्तस्य प्रसादम् अभिकांक्षतः ।कर्तुम् अर्हसि भद्रम् ते दैव उपहत कर्मणः ॥१-५७-२३॥
Vālmīki 1.57.24
न अन्याम् गतिम् गमिष्यामि न अन्यः शरणम् अस्ति मे ।दैवम् पुरुष कारेण निवर्तयितुम् अर्हसि ॥१-५७-२४॥

Navigation

Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷