🪷 बालकाण्ड · Sarga 56

Bāla-Kāṇḍa · The Book of Childhood · Sarga 56 · 24 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.56local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.56.1
एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः ।आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठ इति च अब्रवीत् ॥१-५६-१॥
Vālmīki 1.56.2
ब्रह्मदण्डम् समुद्यम्य काल दण्डम् इव अपरम् ।वसिष्ठो भगवान् क्रोधात् इदम् वचनम् अब्रवीत् ॥१-५६-२॥
Vālmīki 1.56.3
क्षत्र बन्धो स्थितो अस्मि एष यद् बलम् तद् विदर्शय ।नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज ॥१-५६-३॥
Vālmīki 1.56.4
क्व च ते क्षत्रिय बलम् क्व च ब्रह्म बलम् महत् ।पश्य ब्रह्म बलम् दिव्यम् मम क्षत्रिय पांसन ॥१-५६-४॥
Vālmīki 1.56.5
तस्य अस्त्रम् गाधि पुत्रस्य घोरम् आग्नेयम् उत्तमम् ।ब्रह्म दण्डेन तत् शांतम् अग्नेः वेग इव अंभसा ॥१-५६-५॥
Vālmīki 1.56.6
वारुणम् चैव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा ।ऐषीकम् च अपि चिक्षेप रुषितो गाधि नंदनः ॥१-५६-६॥
Vālmīki 1.56.7
मानवम् मोहनम् चैव गांधर्वम् स्वापनम् तथा ।जृंभणम् मदानम् चैव संतापन विलापने ॥१-५६-७॥
Vālmīki 1.56.8
शोषणम् दारणम् चैव वज्रम् अस्त्रम् सुदुर्जयम् ।ब्रह्म पाशम् काल पाशम् वारुणम् पाशम् एव च ॥१-५६-८॥
Vālmīki 1.56.9
पिनाकम् अस्त्रम् च दयितम् शुष्क आर्द्रे अशनी तथा ।दण्ड अस्त्रम् अथ पैशाचम् क्रौन्चम् अस्त्रम् तथैव च ॥१-५६-९॥
Vālmīki 1.56.10
धर्म चक्रम् काल चक्रम् विष्णु चक्रम् तथैव च ।वायव्यम् मथनम् चैव अस्त्रम् हय शिरः तथा ॥१-५६-१०॥
Vālmīki 1.56.11
शक्ति द्वयम् च चिक्षेप कंकालम् मुसलम् तथा ।वैद्याधरम् महाअस्त्रम् च कालास्त्रम् अथ दारुणम् ॥१-५६-११॥
Vālmīki 1.56.12
त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कंकणम् ।एतानि अस्त्राणि चिक्षेप सर्वाणि रघु नंदन ॥१-५६-१२॥
Vālmīki 1.56.13
वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् ।तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥१-५६-१३॥
Vālmīki 1.56.14
तेषु शांतेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधि नंदनः ।तत् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि पुरोगमाः ॥१-५६-१४॥
Vālmīki 1.56.15
देव ऋषयः च संभ्रांता गंधर्वाः स महा उरगाः ।त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते ॥१-५६-१५॥
Vālmīki 1.56.16
तत् अपि अस्त्रम् महाघोरम् ब्राह्मम् ब्राह्मेण तेजसा ।वसिष्ठो ग्रसते सर्वम् ब्रह्म दण्डेन राघव ॥१-५६-१६॥
Vālmīki 1.56.17
ब्रह्म अस्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः ।त्रैलोक्य मोहनम् रौद्रम् रूपम् आसीत् सुदारुणम् ॥१-५६-१७॥
Vālmīki 1.56.18
रोम कूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।मरीच्य इव निष्पेतुः अग्नेः धूम आकुल अर्चिषः ॥१-५६-१८॥
Vālmīki 1.56.19
प्राज्वलत् ब्रह्म दण्डः च वसिष्ठस्य कर उद्यतः ।विधूम इव काल अग्निः यम दण्ड इव अपरः ॥१-५६-१९॥
Vālmīki 1.56.20
ततो अस्तुवन् मुनि गणा वसिष्ठम् जपताम् वरम् ।अमोघम् ते बलम् ब्रह्मन् तेजो धारय तेजसा ॥१-५६-२०॥
Vālmīki 1.56.21
निगृहीतः त्वया ब्रह्मन् विश्वामित्रो महातपाः ।प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत व्यथाः ॥१-५६-२१॥
Vālmīki 1.56.22
एवम् उक्तो महातेजाः शमम् चक्रे महातपाः ।विश्वामित्रो अपि निकृतो विनिःश्वस्य इदम् अब्रवीत् ॥१-५६-२२॥
Vālmīki 1.56.23
धिक् बलम् क्षत्रिय बलम् ब्रह्म तेजो बलम् बलम् ।एकेन ब्रह्म दण्डेन सर्व अस्त्राणि हतानि मे ॥१-५६-२३॥
Vālmīki 1.56.24
तत् एतत् समवेक्ष्य अहम् प्रसन्न इन्द्रिय मानसः ।तपो महत् समास्थास्ये यत् वै ब्रह्मत्व कारणम् ॥१-५६-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷