🪷 बालकाण्ड · Sarga 55
Bāla-Kāṇḍa · The Book of Childhood · Sarga 55 · 28 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.55local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः तान् आकुलान् दृष्ट्वा विश्वामित्र अस्त्र मोहितान् ।वसिष्ठः चोदयामास काम धुक् सृज योगतः ॥१-५५-१॥
तस्या हुंकारतो जाताः कांबोजा रवि सन्निभाः ।ऊधसः तु अथ संजाताः पह्लवाः शस्त्र पाणयः ॥१-५५-२॥
योनि देशात् च यवनः शकृ देशात् शकाः तथा ।रोम कूपेषु म्लेच्छाः च हारीताः स किरातकाः ॥१-५५-३॥
तैः तत् निषूदितम् सैन्यम् विश्वमित्रस्य तत् क्षणात् ।स पदाति गजम् स अश्वम् स रथम् रघुनंदन ॥१-५५-४॥
दृष्ट्वा निषूदितम् सैन्यम् वसिष्ठेन महात्मना ।विश्वामित्र सुतानाम् तु शतम् नाना विध आयुधम् ॥१-५५-५॥
अभ्यधावत् सुसंक्रुद्धम् वसिष्ठम् जपताम् वरम् ।हुम् कारेण एव तान् सर्वान् निर्ददाह महान् ऋषिः ॥१-५५-६॥
ते स अश्व रथ पादाता वसिष्ठेन महात्मना ।भस्मी कृता मुहूर्तेन विश्वामित्र सुताः तदा ॥१-५५-७॥
दृष्ट्वा विनाशितान् पुत्रान् बलम् च सुमहा यशाः ।स व्रीडः चिंतया आविष्टो विश्वामित्रो अभवत् तदा ॥१-५५-८॥
समुद्र इव निर्वेगो भग्न दंष्ट्र इव उरगः ।उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥१-५५-९॥
हत पुत्र बलो दीनो लून पक्ष इव द्विजः ।हत सर्व बल उत्साहो निर्वेदम् समपद्यत ॥१-५५-१०॥
स पुत्रम् एकम् राज्याय पालय इति नियुज्य च ।पृथिवीम् क्षत्र धर्मेण वनम् एव अन्वपद्यत ॥१-५५-११॥
स गत्वा हिमवत् पार्श्वम् किंनर उरग सेवितम् ।महादेव प्रसाद अर्थम् तपः तेपे महातपाः ॥१-५५-१२॥
केनचित् तु अथ कालेन देवेशो वृषभ ध्वजः ।दर्शयामास वरदो विश्वामित्रम् महामुनिम् ॥१-५५-१३॥
किम् अर्थम् तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् ।वरदो अस्मि वरो यः ते कांक्षितः सो अभिधीयताम् ॥१-५५-१४॥
एवम् उक्तः तु देवेन विश्वामित्रो महातपाः ।प्रणिपत्य महादेवम् विश्वामित्रो अब्रवीत् इदम् ॥१-५५-१५॥
यदि तुष्टो महादेव धनुर् वेदो मम अनघ ।सा अंग उप अंग उपनिषदः स रहस्यः प्रदीयताम् ॥१-५५-१६॥
यानि देवेषु च अस्त्राणि दानवेषु महर्षिषु ।गंधर्व यक्ष रक्षस्सु प्रतिभांतु मम अनघ ॥१-५५-१७॥
तव प्रसादात् भवतु देवदेव मम ईप्सितम् ।एवम् अस्तु इति देवेशो वाक्यम् उक्त्वा गतः तदा ॥१-५५-१८॥
प्राप्य च अस्त्राणि देवेशात् विश्वामित्रो महाबलः ।दर्पेण महता युक्तो दर्पपूर्णो अभवत् तदा ॥१-५५-१९॥
विवर्धमानो वीर्येण समुद्र इव पर्वणि ।हतम् मेने तदा राम वसिष्ठम् ऋषि सत्तमम् ॥१-५५-२०॥
ततो गत्वा आश्रमपदम् मुमोच अस्त्राणि पार्थिवः ।यैः तत् तपो वनम् सर्वम् निर्दग्धम् च अस्त्र तेजसा ॥१-५५-२१॥
उदीर्यमाणम् अस्त्रम् तत् विश्वामित्रस्य धीमतः ।दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥१-५५-२२॥
वसिष्ठस्य च ये शिष्याः ये च वै मृग पक्षिणः ।विद्रवन्ति भयात् भीता नाना दिक्भ्यः सहस्रशः ॥१-५५-२३॥
वसिष्ठस्य आश्रमपदम् शून्यम् आसीत् महात्मनः ।मुहूर्तम् इव निःशब्दम् आसीत् ईरिण संनिभम् ॥१-५५-२४॥
वदतो वै वसिष्ठस्य मा भै इति मुहुर्मुहुः ।नाशयामि अद्य गाधेयम् नीहारम् इव भास्करः ॥१-५५-२५॥
एवम् उक्त्वा महातेजा वसिष्ठो जपताम् वरः ।विश्वामित्रम् तदा वाक्यम् स रोषम् इदम् अब्रवीत् ॥१-५५-२६॥
आश्रमम् चिर संवृद्धम् यत् विनाशितवान् असि ।दुराचारो हि यत् मूढ तस्मात् त्वम् न भविष्यसि ॥१-५५-२७॥
इति उक्त्वा परम क्रुद्धो दण्डम् उद्यम्य सत्वरः ।विधूम इव काल अग्निः यम दण्डम् इव अपरम् ॥१-५५-२८॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 54
- Next: Bāla-Kāṇḍa Sarga 56 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷