🪷 बालकाण्ड · Sarga 54
Bāla-Kāṇḍa · The Book of Childhood · Sarga 54 · 23 ślokas
🪷 Devanāgarī Ślokas
कामधेनुम् वसिष्ठो अपि यदा न त्यजते मुनिः ।तदा अस्य शबलाम् राम विश्वामित्रो अन्वकर्षत ॥१-५४-१॥
नीयमाना तु शबला राम राज्ञा महात्मना ।दुःखिता चिन्तयामास रुदंती शोक कर्शिता ॥१-५४-२॥
परित्यक्ता वसिष्ठेन किम् अहम् सुमहात्मना ।या अहम् राज भृतैः दीना ह्रियेयम् भृश दुःखिता ॥१-५४-३॥
किम् मया अपकृतम् तस्य महर्षेः भावित आत्मनः ।यन् माम् अनागसम् भक्ताम् इष्टाम् त्यजति धार्मिकः ॥१-५४-४॥
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः ।जगाम वेगेन तदा वसिष्ठम् परम ओजसम् ॥१-५४-५॥
निर्धूय ताम् तदा भृत्यान् शतशः शत्रुसूदन ।जगाम अनिल वेगेन पाद मूलम् महात्मनः ॥१-५४-६॥
शबला सा रुदन्ती च क्रोशन्ती च इदम् अब्रवीत् ।वसिष्ठस्य अग्रतः स्थित्वा मेघ निःस्वना ॥१-५४-७॥
भगवन् किम् परित्यक्ता त्वया अहम् ब्रह्मणः सुत ।यस्मात् राज भटा माम् हि नयन्ते त्वत् सकाशतः ॥१-५४-८॥
एवम् उक्तः तु ब्रह्मर्षिर् इदम् वचनम् अब्रवीत् ।शोक संतप्त हृदयाम् स्व सारम् इव दुःखिताम् ॥१-५४-९॥
न त्वाम् त्यजामि शबले न अपि मे अपकृतम् त्वया ।एष त्वाम् नयते राजा बलात् मत्तः महाबलः ॥१-५४-१०॥
न हि तुल्यम् बलम् मह्यम् राजा तु अद्य विशेषतः ।बली राजा क्षत्रियः च पृथिव्याः पतिः एव च ॥१-५४-११॥
इयम् अक्षौहिणी पूर्णा गज वाजि रथ आकुला ।हस्ति ध्वज समाकीर्णा तेन असौ बलवत्तरः ॥१-५४-१२॥
एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।वचनम् वचनज्ञा सा ब्रह्मर्षिम् अतुल प्रभम् ॥१-५४-१३॥
न बलम् क्षत्रियस्य आहुः ब्राह्मणो बलवत्तरः ।ब्रह्मन् ब्रह्म बलम् दिव्यम् क्षत्रात् तु बलवत्तरम् ॥१-५४-१४॥
अप्रमेय बलम् तुभ्यम् न त्वया बलवत्तरः ।विश्वामित्रो महावीर्यः तेजः तव दुरासदम् ॥१-५४-१५॥
नियुङ्क्ष्व माम् महातेजः त्वत् ब्रह्म बल संभृताम् ।तस्य दर्पम् बलम् यत्नम् नाशयामि दुरात्मनः ॥१-५४-१६॥
इति उक्तः तु तया राम वसिष्ठः सुमहायशाः ।सृजस्व इति तदा उवाच बलम् पर बल अर्दनम् ॥१-५४-१७॥
तस्य तत् वचनम् श्रुत्वा सुरभिः सा असृजत् तदा ।तस्या हुंभा रव उत्सृष्टाः पह्लवाः शतशो नृप ॥१-५४-१८॥
नाशयन्ति बलम् सर्वम् विश्वामित्रस्य पश्यतः ।स राजा परम क्रुद्धः क्रोध विस्फारित ईक्षणः ॥१-५४-१९॥
पह्लवान् नाशयामास शस्त्रैः उच्चावचैः अपि ।विश्वामित्र अर्दितान् दृष्ट्वा पह्लवान् शतशः तदा ॥१-५४-२०॥
भूय एव असृजत् घोरान् शकान् यवन मिश्रितान् ।तैः आसीत् संवृता भूमिः शकैः यवन मिश्रितैः ॥१-५४-२१॥
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसन्निभैः ।यद्वा -प्रभावद्भिः महावीर्यैः हेम किंजल्क संनिभैः ।दीर्घासिपट्टिशधरैर्हेमवर्णाम्बराअवृतैः।यद्वा -दीर्घ असि पट्टिश धरैः हेम वर्ण अंबर आवृतैः ॥१-५४-२२॥
निर्दग्धम् तत् बलम् सर्वम् प्रदीप्तैः इव पावकैः ।ततो अस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।तैः तैः यवन कांभोजा बर्बराः च अकुली कृताः ॥१-५४-२३॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 53
- Next: Bāla-Kāṇḍa Sarga 55 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷