🪷 बालकाण्ड · Sarga 53

Bāla-Kāṇḍa · The Book of Childhood · Sarga 53 · 25 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.53.1
एवम् उक्ता वसिष्ठेन शबला शत्रु सूदन ।विदधे कामधुक् कामान् यस्य यस्य ईप्सितम् यथा ॥१-५३-१॥
Vālmīki 1.53.2
इक्षून् मधून् तथा लाजान् मैरेयान् च वर आसवान् ।पानानि च महाअर्हाणि भक्ष्यान् च उच्च अवचान् तथा ॥१-५३-२॥
Vālmīki 1.53.3
उष्ण आढ्यस्य ओदनस्य अपि राशयः पर्वतोपमाः ।मृष्ट अन्नानि च सूपाः च दधि कुल्याः तथैव च ॥१-५३-३॥
Vālmīki 1.53.4
नाना स्वादु रसानाम् च खाण्डवनाम् - षाडबानाम् - तथैव च ।भाजनानि -भोजनानि - सुपूर्णानि गौडानि च सहस्रशः ॥१-५३-४॥
Vālmīki 1.53.5
सर्वम् आसीत् सुसंतुष्टम् हृष्ट पुष्ट जन आयुतम् ।विश्वामित्र बलम् राम वसिष्ठेन सुतर्पितम् ॥१-५३-५॥
Vālmīki 1.53.6
विश्वामित्रो अपि राजर्षिः हृष्ट पुष्टः तदा अभवत् ।स अन्तः पुर वरो राजा स ब्राह्मण पुरोहितः ॥१-५३-६॥
Vālmīki 1.53.7
स अमात्यो मंत्रि सहितः स भृत्यः पूजितः तदा ।युक्तः परम हर्षेण वसिष्ठम् इदम् अब्रवीत् ॥१-५३-७॥
Vālmīki 1.53.8
पूजितो अहम् त्वया ब्रह्मन् पूज अर्हेण सुसत्कृतः ।श्रूयताम् अभिधास्यामि वाक्यम् वाक्य विशारद ॥१-५३-८॥
Vālmīki 1.53.9
गवाम् शत सहस्रेण दीयताम् शबला मम ।रत्नम् हि भगवन् एतत् रत्न हारी च पार्थिवः ॥१-५३-९॥
Vālmīki 1.53.10
तस्मात् मे शबलाम् देहि मम एषा धर्मतो द्विज ।एवम् उक्तः तु भगवान् वसिष्ठो मुनि सत्तमः ॥१-५३-१०॥
Vālmīki 1.53.11
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।न अहम् शत सहस्रेण न अपि कोटि शतैः गवाम् ॥१-५३-११॥
Vālmīki 1.53.12
राजन् दास्यामि शबलाम् राशिभी रजतस्य वा ।न परित्यागम् अर्हा इयम् मत् सकाशात् अरिन्दम ॥१-५३-१२॥
Vālmīki 1.53.13
शाश्वती शबला मह्यम् कीर्तिर् आत्मवतो यथा ।अस्याम् हव्यम् च कव्यम् च प्राण यात्रा तथैव च ॥१-५३-१३॥
Vālmīki 1.53.14
आयत्तम् अग्नि होत्रम् च बलिः होमः तथैव च ।स्वाहा कार वषट् कारौ विद्याः च विविधाः तथा ॥१-५३-१४॥
Vālmīki 1.53.15
आयत्तम् अत्र राज ऋषे सर्वम् एतन् न संशयः ।सर्वस्वम् एतत् सत्येन मम तुष्टि करी तथा ॥१-५३-१५॥
Vālmīki 1.53.16
कारणैः बहुभी राजन् न दास्ये शबलाम् तव ।वसिष्ठेन एवम् उक्तः तु विश्वामित्रो अब्रवीत् तदा ॥१-५३-१६॥
Vālmīki 1.53.17
संरब्धतरम् अत्यर्थम् वाक्यम् वाक्य विशारदः ।हैरण्य कक्ष्या ग्रैवेयान् सुवर्ण अंकुश भूषितान् ॥१-५३-१७॥
Vālmīki 1.53.18
ददामि कुंजराणाम् ते सहस्राणि चतुर् दश ।हैरण्यानाम् रथानाम् च श्वेत अश्वानाम् चतुर् युजाम् ॥१-५३-१८॥
Vālmīki 1.53.19
ददामि ते शतानि अष्टौ किन्किणीक विभूषितान् ।हयानाम् देश जातानाम् कुल जानाम् महौजसाम् ।सहस्रम् एकम् दश च ददामि तव सुव्रत ॥१-५३-१९॥
Vālmīki 1.53.20
नाना वर्ण विभक्तानाम् वयःस्थानाम् तथैव च ।ददामि एकाम् गवाम् कोटिम् शबला दीयताम् मम ॥१-५३-२०॥
Vālmīki 1.53.21
यावत् इच्छसि रत्नानि हिरण्यम् वा द्विजोत्तम ।तावत् ददामि ते सर्वम् दीयताम् शबला मम ॥१-५३-२१॥
Vālmīki 1.53.22
एवम् उक्तः तु भगवान् विश्वामित्रेण धीमता ।न दास्यामि इति शबलाम् प्राह राजन् कथंचन ॥१-५३-२२॥
Vālmīki 1.53.23
एतदेव हि मे रत्नम् एतदेव हि मे धनम् ।एतदेव हि सर्वस्वम् एतदेव हि जीवितम् ॥१-५३-२३॥
Vālmīki 1.53.24
दर्शः च पौर्ण मासः च यज्ञाः चैव आप्त दक्षिणाः ।एतदेव हि मे राजन् विविधाः च क्रियाः तथा ॥१-५३-२४॥
Vālmīki 1.53.25
अतो मूलाः क्रियाः सर्वा मम राजन् न संशयः ।बहूना किम् प्रलापेन न दास्ये काम दोहिनीम् ॥१-५३-२५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷