🪷 बालकाण्ड · Sarga 52
Bāla-Kāṇḍa · The Book of Childhood · Sarga 52 · 23 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तम् दृष्ट्वा परम प्रीतो विश्वामित्रो महाबलः ।प्रणतो विनयात् वीरो वसिष्ठम् जपताम् वरम् ॥१-५२-१॥
स्वागतम् तव च इति उक्तो वसिष्ठेन महात्मना ।आसनम् च अस्य भगवान् वसिष्ठो व्यादिदेश ह ॥१-५२-२॥
उपविष्टाय च तदा विश्वामित्राय धीमते ।यथा न्यायम् मुनि वरः फल मूलम् उपाहरत् ॥१-५२-३॥
प्रतिगृह्य तु ताम् पूजाम् वसिष्ठात् राज सत्तमः ।तपो अग्नि होत्र शिष्येषु कुशलम् पर्यपृच्छत ॥१-५२-४॥
विश्वामित्रो महातेजा वनस्पति गणे तथा ।सर्वत्र कुशलम् च आह वसिष्ठो राज सत्तमम् ॥१-५२-५॥
सुख उपविष्टम् राजानम् विश्वामित्रम् महातपाः ।पप्रच्छ जपताम् श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥१-५२-६॥
कच्चित् ते कुशलम् राजन् कच्चित् धर्मेण रंजयन् ।प्रजाः पालयसे राजन् राज वृत्तेन धार्मिक ॥१-५२-७॥
कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने ।कच्चित् ते विजिताः सर्वे रिपवो रिपु सूदन ॥१-५२-८॥
कच्चित् बले च कोशे च मित्रेषु च परंतप ।कुशलम् ते नर व्याघ्र पुत्र पौत्रे तथा अनघ ॥१-५२-९॥
सर्वत्र कुशलम् राजा वसिष्ठम् प्रत्युदाहरत् ।विश्वामित्रो महातेजा वसिष्ठम् विनय अन्वितम् ॥१-५२-१०॥
कृत्वा तौ सुचिरम् कालम् धर्मिष्ठौ ताः कथाः तदा ।मुदा परमया युक्तौ प्रीयेताम् तौ परस्परम् ॥१-५२-११॥
ततो वसिष्ठो भगवान् कथा अन्ते रघुनंदन ।विश्वामित्रम् इदम् वाक्यम् उवाच प्रहसन् इव ॥१-५२-१२॥
आतिथ्यम् कर्तुम् इच्छामि बलस्य अस्य महाबल ।तव च एव अप्रमेयस्य यथा अर्हम् संप्रतीच्छ मे ॥१-५२-१३॥
सत्क्रियाम् तु भवान् एताम् प्रतीच्छतु मया कृताम् ।राजन् त्वम् अतिथि श्रेष्ठः पूजनीयः प्रयत्नतः ॥१-५२-१४॥
एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः ।कृतम् इति अब्रवीत् राजा पूजा वाक्येन मे त्वया ॥१-५२-१५॥
फल मूलेन भगवन् विद्यते यत् तव आश्रमे ।पाद्येन आचमनीयेन भगवद् दर्शनेन च ॥१-५२-१६॥
सर्वथा च महाप्राज्ञ पूजा अर्हेण सुपूजितः ।नमस्ते अस्तु गमिष्यामि मैत्रेण ईक्षस्व चक्षुषा ॥१-५२-१७॥
एवम् ब्रुवन्तम् राजानम् वसिष्ठः पुनः एव हि ।न्यमंत्रयत धर्मात्मा पुनः पुनः उदार धीः ॥१-५२-१८॥
बाढम् इति एव गाधेयो वसिष्ठम् प्रत्युवाच ह ।यथा प्रियम् भगवतः तथा अस्तु मुनि सत्तम ॥१-५२-१९॥
एवम् उक्तः तथा तेन वसिष्ठो जपताम् वरः ।आजुहाव ततः प्रीतः कल्माषीम् धूत कल्मषः ॥१-५२-२०॥
एहि एहि शबले क्षिप्रम् शृणु च अपि वचो मम ।सबलस्य अस्य राजर्षेः कर्तुम् व्यवसितो अस्मि अहम् ।भोजनेन महा अर्हेण सत्कारम् संविधत्स्व मे ॥१-५२-२१॥
यस्य यस्य यथा कामम् षड् रसेषु अभिपूजितम् ।तत् सर्वम् काम धुक् दिव्ये अभिवर्ष कृते मम ॥१-५२-२२॥
रसेन अन्नेन पानेन लेह्य चोष्येण संयुतम् ।अन्नानाम् निचयम् सर्वम् सृजस्व शबले त्वर ॥१-५२-२३॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 51
- Next: Bāla-Kāṇḍa Sarga 53 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷