🪷 बालकाण्ड · Sarga 51

Bāla-Kāṇḍa · The Book of Childhood · Sarga 51 · 28 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 1.51.1
तस्य तत् वचनम् श्रुत्वा विश्वामित्रस्य धीमतः ।हृष्ट रोमा महातेजाः शताअनन्दो महातपाः ॥१-५१-१॥
Vālmīki 1.51.2
गौतमस्य सुतो ज्येष्ठः तपसा द्योतित प्रभः ।राम संदर्शनात् एव परम् विस्मयम् आगतः ॥१-५१-२॥
Vālmīki 1.51.3
एतौ निषण्णौ संप्रेक्ष्य सुख आसीनौ नृपात्मजौ ।शताअनंदो मुनिश्रेष्ठम् विश्वामित्रम् अथ अब्रवीत् ॥१-५१-३॥
Vālmīki 1.51.4
अपि ते मुनि शार्दूल मम माता यशस्विनी ।दर्शिता राज पुत्राय तपो दीर्घम् उपागता ॥१-५१-४॥
Vālmīki 1.51.5
अपि रामे महातेजो मम माता यशस्विनी ।वन्यैः उपाहरत् पूजाम् पूजा अर्हे सर्व देहिनाम् ॥१-५१-५॥
Vālmīki 1.51.6
अपि रामाय कथितम् यथा वृत्तम् पुरातनम् ।मम मातुः महातेजो दैवेन दुरनुष्ठितम् ॥१-५१-६॥
Vālmīki 1.51.7
अपि कौशिक भद्रम् ते गुरुणा मम संगता ।माता मम मुनिश्रेष्ठ राम संदर्शनात् इतः ॥१-५१-७॥
Vālmīki 1.51.8
अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।इह आगतो महातेजाः पूजाम् प्राप्य महात्मनः ॥१-५१-८॥
Vālmīki 1.51.9
अपि शांतेन मनसा गुरुः मे कुशिकात्मज ।इह आगतेन रामेण पूजितेन अभिवादितः ॥१-५१-९॥
Vālmīki 1.51.10
तत् श्रुत्वा वचनम् तस्य विश्वामित्रो महामुनिः ।प्रति उवाच शतानंदम् वाक्यज्ञो वाक्य कोविदम् ॥१-५१-१०॥
Vālmīki 1.51.11
न अतिक्रान्तम् मुनिश्रेष्ठ यत् कर्तव्यम् कृतम् मया ।संगता मुनिना पत्नी भार्गवेण इव रेणुका ॥१-५१-११॥
Vālmīki 1.51.12
तत् श्रुत्वा वचनम् तस्य विश्वामित्रस्य धीमतः ।शतानंदो महातेजा रामम् वचनम् अब्रवीत् ॥१-५१-१२॥
Vālmīki 1.51.13
स्वागतम् ते नरश्रेष्ठ दिष्ट्या प्राप्तो असि राघव ।विश्वामित्रम् पुरस्कृत्य महर्षिम् अपराजितम् ॥१-५१-१३॥
Vālmīki 1.51.14
अचिन्त्य कर्मा तपसा ब्रह्मर्षिः अमित प्रभः ।विश्वामित्रो महातेजा - वेद्म्य - वेत्सि एनम् परमाम् गतिम् ॥१-५१-१४॥
Vālmīki 1.51.15
न अस्ति धन्यतरो राम त्वत्तो अन्यो भुवि कश्चन ।गोप्ता कुशिक पुत्रः ते येन तप्तम् महत् तपः ॥१-५१-१५॥
Vālmīki 1.51.16
श्रूयताम् च अभिधास्यामि कौशिकस्य महात्मनः ।यथा बलम् यथा तत्त्वम् तत् मे निगदतः शृणु ॥१-५१-१६॥
Vālmīki 1.51.17
राजा अभूत् एष धर्मात्मा दीर्घ कालम् अरिन्दमः ।धर्मज्ञः कृत विद्यः च प्रजानाम् च हिते रतः ॥१-५१-१७॥
Vālmīki 1.51.18
प्रजापति सुतः तु आसीत् कुशो नाम महीपतिः ।कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥१-५१-१८॥
Vālmīki 1.51.19
कुशनाभ सुतः तु आसीत् गाधिः इति एव विश्रुतः ।गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥१-५१-१९॥
Vālmīki 1.51.20
विश्वमित्रो महातेजाः पालयामास मेदिनीम् ।बहु वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-५१-२०॥
Vālmīki 1.51.21
कदाचित् तु महातेजा योजयित्वा वरूथिनीम् ।अक्षौहिणी परिवृतः परिचक्राम मेदिनीम् ॥१-५१-२१॥
Vālmīki 1.51.22
नगराणि च राष्ट्रानि सरितः च तथा गिरीन् ।आश्रमान् क्रमशो राजा विचरन् आजगाम ह ॥१-५१-२२॥
Vālmīki 1.51.23
वसिष्ठस्य आश्रम पदम् नाना पुष्प लता द्रुमम् ।नाना मृग गण आकीर्णम् सिद्ध चारण सेवितम् ॥१-५१-२३॥
Vālmīki 1.51.24
देव दानव गन्धर्वैः किन्नरैः उपशोभितम् ।प्रशांत हरिण आकीर्णम् द्विज संघ निषेवितम् ॥१-५१-२४॥
Vālmīki 1.51.25
ब्रह्म ऋषि गण संकीर्णम् देव ऋषि गण सेवितम् ।तपः चरण संसिद्धैः अग्नि कल्पैः महात्मभिः ॥१-५१-२५॥
Vālmīki 1.51.26
सततम् संकुलम् श्रीमत् ब्रह्म कल्पैः महात्मभिः ।अब् भक्षैः वायु भक्षैः च शीर्ण पर्ण अशनैः तथा ॥१-५१-२६॥
Vālmīki 1.51.27
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः - यद्वा -फल मूल अशनैः दान्तैः जित दोषैः जित इन्द्रियैः ।ऋषिभिः वालखिल्यैः च जप होम परायणैः ॥१-५१-२७॥
Vālmīki 1.51.28
अन्यैः वैखानसैः चैव समंतात् उपशोभितम् ।वसिष्ठस्य आश्रम पदम् ब्रह्म लोकम् इव अपरम् ।ददर्श जयताम् श्रेष्ठ विश्वामित्रो महाबलः ॥१-५१-२८॥

Navigation

Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷