🪷 बालकाण्ड · Sarga 50
Bāla-Kāṇḍa · The Book of Childhood · Sarga 50 · 25 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.50local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः प्राक् उत्तराम् गत्वा रामः सौमित्रिणा सह ।विश्वामित्रम् पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-५०-१॥
रामः तु मुनि शार्दूलम् उवाच सह लक्ष्मणः ।साध्वी यज्ञ समृद्धिः हि जनकस्य महात्मनः ॥१-५०-२॥
बहूनि इह सहस्राणि नाना देश निवासिनाम् ।ब्राह्मणानाम् महाभाग वेद अध्ययन शालिनाम् ॥१-५०-३॥
ऋषि वाटाः च दृश्यन्ते शकटी शत संकुलाः ।देशो विधीयताम् ब्रह्मन् यत्र वत्स्यामहे वयम् ॥१-५०-४॥
रामस्य वचनम् श्रुत्वा विश्वामित्रो महामुनिः ।निवेशम् अकरोत् देशे विविक्ते सलिल आयुते ॥१-५०-५॥
विश्वामित्रम् अनुप्राप्तम् श्रुत्वा नृपवरः तदा ।शतानंदम् पुरस्कृत्य पुरोहितम् अनिन्दितम् ॥१-५०-६॥
प्रति उज्जगाम सहसा विनयेन समन्वितः ।ऋत्विजो अपि महात्मानः तु अर्घ्यम् आदाय स त्वरम् ॥१-५०-७॥
विश्वामित्राय धर्मेण ददौ धर्म पुरस्कृतम् ।प्रतिगृह्य तु ताम् पूजाम् जनकस्य महात्मनः ॥१-५०-८॥
पप्रच्छ कुशलम् राज्ञो यज्ञस्य च निरामयम् ।स ताम् च अथ मुनीन् पृष्ट्वा स उपाध्याय पुरोधसः ॥१-५०-९॥
यथा अर्हम् ऋषिभिः सर्वैः समागच्छत् प्रहृष्टवत् ।अथ राजा मुनि श्रेष्ठम् कृत अंजलिः अभाषत ॥१-५०-१०॥
आसने भगवान् आस्ताम् सह एभिः मुनि सत्तमैः ।जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥१-५०-११॥
पुरोधा ऋत्विजः चैव राजा च सह मंत्रिभिः ।आसनेषु यथा न्यायम् उपविष्टान् समन्ततः ॥१-५०-१२॥
दृष्ट्वा स नृपतिः तत्र विश्वामित्रम् अथ अब्रवीत् ।अद्य यज्ञ समृद्धिः मे सफला दैवतैः कृता ॥१-५०-१३॥
अद्य यज्ञ फलम् प्राप्तम् भगवद् दर्शनात् मया ।धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनि पुंगव ॥१-५०-१४॥
यज्ञ उपसदनम् ब्रह्मन् प्राप्तो असि मुनिभिः सह ।द्वादश अहम् तु ब्रह्मर्षे दीक्षाम् आहुः मनीषिणः ॥१-५०-१५॥
ततो भाग अर्थिनो देवान् द्रष्टुम् अर्हसि कौशिक ।इति उक्त्वा मुनि शार्दूलम् प्रहृष्ट वदनः तदा ॥१-५०-१६॥
पुनः तम् परिपप्रच्छ प्रांजलिः प्रयतो नृपः ।इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ॥१-५०-१७॥
गज तुल्य गती वीरौ शार्दूल वृषभ उपमौ ।पद्म पत्र विशाल अक्षौ खड्ग तूणी धनुर् धरौ ।अश्विनौ इव रूपेण समुपस्थित यौवनौ ॥१-५०-१८॥
यदृच्छया एव गाम् प्राप्तौ देव लोकात् इव अमरौ ।कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने ॥१-५०-१९॥
वर आयुध धरौ वीरौ कस्य पुत्रौ महामुने ।भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ॥१-५०-२०॥
परस्परस्य सदृशौ प्रमाण इन्गित चेष्टितैः ।काक पक्ष धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः ॥१-५०-२१॥
तस्य तत् वचनम् श्रुत्वा जनकस्य महात्मनः ।न्यवेदयत् अमेय आत्मा पुत्रौ दशरथस्य तौ ॥१-५०-२२॥
सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा ।तत्र आगमनम् अव्यग्रम् विशालायाः च दर्शनम् ॥१-५०-२३॥
अहल्या दर्शनम् चैव गौतमेन समागमम् ।महाधनुषि जिज्ञासाम् कर्तुम् आगमनम् तथा ॥१-५०-२४॥
एतत् सर्वम् महातेजा जनकाय महात्मने ।निवेद्य विरराम अथ विश्वामित्रो महामुनिः ॥१-५०-२५॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 49
- Next: Bāla-Kāṇḍa Sarga 51 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷