🪷 बालकाण्ड · Sarga 49
Bāla-Kāṇḍa · The Book of Childhood · Sarga 49 · 22 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अफलः तु ततः शक्रो देवान् अग्नि पुरोगमान् ।अब्रवीत् त्रस्त नयनः सिद्ध गन्धव चारणान् ॥१-४९-१॥
कुर्वता तपसो विघ्नम् गौतमस्य महात्मनः ।क्रोधम् उत्पाद्य हि मया सुर कार्यम् इदम् कृतम् ॥१-४९-२॥
अफलो अस्मि कृतः तेन क्रोधात् सा च निराकृता ।शाप मोक्षेण महता तपो अस्य अपहृतम् मया ॥१-४९-३॥
तत् माम् सुरवराः सर्वे स ऋषि संघाः स चारणाः ।सुर कार्य करम् यूयम् सफलम् कर्तुम् अर्हथ ॥१-४९-४॥
शतक्रतोः वचः श्रुत्वा देवाः स अग्नि पुरोगमाः ।पितृ देवान् उपेत्य आहुः सह सर्वैः मरुत् गणैः ॥१-४९-५॥
अयम् मेषः सवृषणः शक्रो हि अवृषणः कृतः ।मेषस्य वृषणौ गृह्य शक्राय आशु प्रयच्छत ॥१-४९-६॥
अफलः तु कृतो मेषः पराम् तुष्टिम् प्रदास्यति ।भवताम् हर्षणार्थाय ये च दास्यन्ति मानवाः ।अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम् ॥१-४९-७॥
अग्नेः तु वचनम् श्रुत्वा पितृ देवाः समागताः ।उत्पाट्य मेष वृषणौ सहस्राक्षे न्यवेशयन् ॥१-४९-८॥
तदा प्रभृति काकुत्स्थ पितृ देवाः समागताः ।अफलान् भुंजते मेषान् फलैः तेषाम् अयोजयन् ॥१-४९-९॥
इन्द्रः तु मेष वृषणः तदा प्रभृति राघव ।गौतमस्य प्रभावेन तपसा च महात्मनः ॥१-४९-१०॥
तत् आगच्छ महातेज आश्रमम् पुण्य कर्मणः ।तारय एनाम् महाभागाम् अहल्याम् देव रूपिणीम् ॥१-४९-११॥
विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।विश्वामित्रम् पुरस्कृत्य आश्रमम् प्रविवेश ह ॥१-४९-१२॥
ददर्श च महाभागाम् तपसा द्योतित प्रभाम् ।लोकैः अपि समागम्य दुर्निरीक्ष्याम् सुर असुरैः ॥१-४९-१३॥
प्रयत्नात् निर्मिताम् धात्रा दिव्याम् मायामयीम् इव ।धूमेन अभिपरीत अंगीम् दीप्ताअम् अग्नि सिखाम् इव ॥१-४९-१४॥
स तुषार आवृताम् स अभ्राम् पूर्ण चन्द्र प्रभाम् इव ।मध्ये अंभसो दुराधर्षाम् दीप्ताम् सूर्य प्रभाम् इव ॥१-४९-१५॥
सस् हि गौतम वाक्येन दुर्निरीक्ष्या बभूव ह ।त्रयाणाम् अपि लोकानाम् यावत् रामस्य दर्शनम् ॥१-४९-१६॥
शापस्य अन्तम् उपागम्य तेषाम् दर्शनम् आगता।राघवौ तु ततः तस्याः पादौ जगृहतुः मुदा ॥१-४९-१७॥
स्मरंती गौतम वचः प्रतिजग्राह सा च तौ।पाद्यम् अर्घ्यम् तथा आतिथ्यम् चकार सुसमाहिता ।प्रतिजग्राह काकुत्स्थो विधि दृष्टेन कर्मणा ॥१-४९-१८॥
पुष्प वृष्टिः महती आसीत् देव दुंदुभि निस्वनैः ।गन्धर्व अप्सरसाम् च एव महान् आसीत् समुत्सवः ॥१-४९-१९॥
साधु साधु इति देवाः ताम् अहल्याम् समपूजयन् ।तपो बल विशुद्ध अंगीम् गौतमस्य वश अनुगाम् ॥१-४९-२०॥
गौतमो अपि महातेजा अहल्या सहितः सुखी ।रामम् सम्पूज्य विधिवत् तपः तेपे महातपाः ॥१-४९-२१॥
रामो अपि परमाम् पूजाम् गौतमस्य महामुनेः ।सकाशात् विधिवत् प्राप्य जगाम मिथिलाम् ततः ॥१-४९-२२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 48
- Next: Bāla-Kāṇḍa Sarga 50 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷