🪷 बालकाण्ड · Sarga 48

Bāla-Kāṇḍa · The Book of Childhood · Sarga 48 · 34 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.48.1
पृष्ट्वा तु कुशलम् तत्र परस्पर समागमे ।कथाअन्ते सुमतिः वाक्यम् व्याजहार महामुनिम् ॥१-४८-१॥
Vālmīki 1.48.2
इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ।गज सिंह गती वीरौ शार्दूल वृषभ उपमौ ॥१-४८-२॥
Vālmīki 1.48.3
पद्म पत्र विशालाक्षौ खड्ग तूणी धनुर् धरौ ।अश्विनौ इव रूपेण समुपस्थित यौवनौ ॥१-४८-३॥
Vālmīki 1.48.4
यदृच्छया एव गाम् प्राप्तौ देवलोकात् इव अमरौ ।कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने ॥१-४८-४॥
Vālmīki 1.48.5
भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ।परस्परेण सदृशौ प्रमाण इन्गित चेष्टितैः ॥१-४८-५॥
Vālmīki 1.48.6
किम् अर्थम् च नर श्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि ।वर आयुध धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः ॥१-४८-६॥
Vālmīki 1.48.7
तस्य तद् वचनम् श्रुत्वा यथा वृत्तम् न्यवेदयत् ।सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा ॥१-४८-७॥
Vālmīki 1.48.8
विश्वामित्र वचः श्रुत्वा राजा परम विस्मितः ॥१-४८-८॥
Vālmīki 1.48.9
च्अतिथी परमौ प्राप्तम् पुत्रौ दशरथस्य तौ ।पूजयामास विधिवत् सत्कार अर्हौ महाबलौ ॥१-४८-९॥
Vālmīki 1.48.10
ततः परम सत्कारम् सुमतेः प्राप्य राघवौ ।उष्य तत्र निशाम् एकाम् जग्मतुः मिथिलाम् ततः ॥१-४८-१०॥
Vālmīki 1.48.11
ताम् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीम् शुभाम् ।साधु साधु इति शंसन्तो मिथिलाम् समपूजयन् ॥१-४८-११॥
Vālmīki 1.48.12
मिथिल उपवने तत्र आश्रमम् दृश्य राघवः ।पुराणम् निर्जनम् रम्यम् पप्रच्छ मुनि पुंगवम् ॥१-४८-१२॥
Vālmīki 1.48.13
इदम् आश्रम संकाशम् किम् नु इदम् मुनि वर्जितम् ।श्रोतुम् इच्छामि भगवन् कस्य अयम् पूर्व आश्रमः ॥१-४८-१३॥
Vālmīki 1.48.14
तत् श्रुता राघवेण उक्तम् वाक्यम् वाक्य विशारदः ।प्रति उवाच महातेजा विश्वमित्रो महामुनिः ॥१-४८-१४॥
Vālmīki 1.48.15
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव ।यस्य एतत् आश्रम पदम् शप्तम् कोपान् महात्मना ॥१-४८-१५॥
Vālmīki 1.48.16
गौतमस्य नरश्रेष्ठ पूर्वम् आसीत् महात्मनः ।आश्रमो दिव्य संकाशः सुरैः अपि सुपूजितः ॥१-४८-१६॥
Vālmīki 1.48.17
स च अत्र तप आतिष्ठत् अहल्या सहितः पुरा ।वर्ष पूगानि अनेकानि राजपुत्र महायशः ॥१-४८-१७॥
Vālmīki 1.48.18
तस्य अन्तरम् विदित्वा तु सहस्राक्षः शची पतिः ।मुनि वेष धरो भूत्वा अहल्याम् इदम् अब्रवीत् ॥१-४८-१८॥
Vālmīki 1.48.19
ऋतु कालम् प्रतीक्षन्ते न अर्थिनः सुसमाहिते ।संगमम् तु अहम् इच्छामि त्वया सह सुमध्यमे ॥१-४८-१९॥
Vālmīki 1.48.20
मुनि वेषम् सहस्राक्षम् विज्ञाय रघुनंदन ।मतिम् चकार दुर्मेधा देव राज कुतूहलात् ॥१-४८-२०॥
Vālmīki 1.48.21
अथ अब्रवीत् सुरश्रेष्ठम् कृतार्थेन अंतरात्मना ।कृतार्था अस्मि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो ॥१-४८-२१॥
Vālmīki 1.48.22
आत्मानम् माम् च देवेश सर्वदा रक्ष गौतमात् ।इन्द्रः तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत् ॥१-४८-२२॥
Vālmīki 1.48.23
सुश्रोणि परितुष्टो अस्मि गमिष्यामि यथा आगतम् ।एवम् संगम्य तु तया निश्चक्राम उटजात् ततः ॥१-४८-२३॥
Vālmīki 1.48.24
स संभ्रमात् त्वरन् राम शन्कितो गौतमम् प्रति ।गौतमम् स ददर्श अथ प्रविशंतम् महामुनिम् ॥१-४८-२४॥
Vālmīki 1.48.25
देव दानव दुर्धर्षम् तपो बल समन्वितम् ।तीर्थ उदक परिक्लिन्नम् दीप्यमानम् इव अनलम् ॥१-४८-२५॥
Vālmīki 1.48.26
गृहीत समिधम् तत्र स कुशम् मुनि पुंगवम् ।दृष्ट्वा सुर पतिः त्रस्तो विषण्ण वदनो अभवत् ॥१-४८-२६॥
Vālmīki 1.48.27
अथ दृष्ट्वा सहस्राक्षम् मुनि वेष धरम् मुनिः ।दुर्वृत्तम् वृत्त संपन्नो रोषात् वचनम् अब्रवीत् ॥१-४८-२७॥
Vālmīki 1.48.28
मम रूपम् समास्थाय कृतवान् असि दुर्मते ।अकर्तव्यम् इदम् यस्मात् विफलः त्वम् भविष्यति ॥१-४८-२८॥
Vālmīki 1.48.29
गौतमेन एवम् उक्तस्य स रोषेण महात्मना ।पेततुः वृषणौ भूमौ सहस्राक्षस्य तत् क्षणात् ॥१-४८-२९॥
Vālmīki 1.48.30
तथा शप्त्वा च वै शक्रम् भार्याम् अपि च शप्तवान् ।इह वर्ष सहस्राणि बहूनि निवषिस्यसि ॥१-४८-३०॥
Vālmīki 1.48.31
वायु भक्षा निराहारा तप्यन्ती भस्म शायिनी ।अदृश्या सर्व भूतानाम् आश्रमे अस्मिन् वषिस्यसि ॥१-४८-३१॥
Vālmīki 1.48.32
यदा तु एतत् वनम् घोरम् रामो दशरथ आत्मजः ।आगमिष्यति दुर्धर्षः तदा पूता भविष्यसि ॥१-४८-३२॥
Vālmīki 1.48.33
तस्य आतिथ्येन दुर्वृत्ते लोभ मोह विवर्जिता ।मत् सकाशे मुदा युक्ता स्वम् वपुः धारयिष्यसि ॥१-४८-३३॥
Vālmīki 1.48.34
एवम् उक्त्वा महातेजा गौतमो दुष्ट चारिणीम् ।इमम् आश्रमम् उत्सृज्य सिद्ध चारण सेविते ।हिमवत् शिखरे रम्ये तपः तेपे महातपाः ॥१-४८-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷