🪷 बालकाण्ड · Sarga 47
Bāla-Kāṇḍa · The Book of Childhood · Sarga 47 · 22 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सप्तधा तु कृते गर्भे दितिः परम दुःखिता ।सहस्राक्षम् दुराधर्षम् वाक्यम् स अनुनया अब्रवीत् ॥१-४७-१॥
मम अपराधात् गर्भो अयम् सप्तधा शकली कृतः ।न अपराधो हि देव ईश तव अत्र बलसूदन ॥१-४७-२॥
प्रियम् त्वत् कृतम् इच्छामि मम गर्भ विपर्यये ।मरुताम् सप्त सप्तानाम् स्थानपाला भवन्तु ते ॥१-४७-३॥
वात स्कंधा इमे सप्त चरन्तु दिवि पुत्रक ।मारुता इति विख्याता दिव्यरूपा मम आत्मजाः ॥१-४७-४॥
ब्रह्म लोकम् चरतु एक इन्द्र लोकम् तथा अपरः ।दिव्य वायुः इति ख्यातः तृतीयो अपि महायशाः ॥१-४७-५॥
चत्वारः तु सुरश्रेष्ठ दिशो वै तव शासनात् ।संचरिष्यन्ति भद्रम् ते कलेन हि मम आत्मजाः ॥१-४७-६॥
त्वत् कृतेन एव नाम्ना वै मारुता इति विश्रुताः ।तस्याः तत् वचनम् श्रुत्वा सहस्राक्षः पुरंदरः ॥१-४७-७॥
उवाच प्रांजलिः वाक्यम् दितिम् बलसूदनः ।सर्वम् एतत् यथा उक्तम् ते भविष्यति न संशयः ॥१-४७-८॥
विचरिष्यन्ति भद्रम् ते देवरूपाः तव आत्मजाः ।एवम् तौ निश्चयम् कृत्वा माता पुत्रौ तपोवने ॥१-४७-९॥
जग्मतुः त्रिदिवम् राम कृतार्थौ इति नः श्रुतम् ।एष देशः स काकुत्स्थ महेन्द्रात् अद्युषितः पुरा ॥१-४७-१०॥
दितिम् यत्र तपः सिद्धाम् एवम् परिचचार सः ।इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परम धार्मिकः ॥१-४७-११॥
अलंबुषायाम् उत्पन्नो विशाल इति विश्रुतः ।तेन च आसीत् इह स्थाने विशाले इति पुरी कृता ॥१-४७-१२॥
विशालस्य सुतो राम हेमचन्द्रो महाबलः ।सुचन्द्र इति विख्यातो हेमचन्द्रात् अनंतरः ॥१-४७-१३॥
सुचन्द्र तनयो राम धूम्र अश्व इति विश्रुतः ।धूम्राश्व तनयः च अपि सृंजयः समपद्यत ॥१-४७-१४॥
सृंजयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।कुशाश्वः सहदेवस्य पुत्रः परम धार्मिकः ॥१-४७-१५॥
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।सोमदत्तस्य पुत्रः तु काकुत्स्थ इति विश्रुतः ॥१-४७-१६॥
तस्य पुत्रो महातेजाः सम्प्रति एष पुरीम् इमाम् ।आवसत् परम प्रख्यः सुमतिः नाम दुर्जयः ॥१-४७-१७॥
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।दीर्घ आयुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥१-४७-१८॥
इह अद्य रजनीम् एकाम् सुखम् स्वप्स्यामहे वयम् ।श्वः प्रभाते नरश्रेष्ठ जनकम् द्रष्टुम् अर्हसि ॥१-४७-१९॥
सुमतिः तु महातेजा विश्वामित्रम् उपागतम् ।श्रुत्वा नर वर श्रेष्ठः प्रत्यागच्छन् महायशाः ॥१-४७-२०॥
पूजाम् च परमाम् कृत्वा स उपाध्यायः सबान्धवः ।प्रांजलिः कुशलम् पृष्ट्वा विश्वामित्रम् अथ अब्रवीत् ॥१-४७-२१॥
धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे विषयम् मुने ।संप्राप्तो दर्शनम् चैव न अस्ति धन्यतरो मम ॥१-४७-२२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 46
- Next: Bāla-Kāṇḍa Sarga 48 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷