🪷 बालकाण्ड · Sarga 46
Bāla-Kāṇḍa · The Book of Childhood · Sarga 46 · 23 ślokas
🪷 Devanāgarī Ślokas
हतेषु तेषु पुत्रेषु दितिः परम दुःखिता ।मारीचम् काश्यपम् राम भर्तारम् इदम् अब्रवीत् ॥१-४६-१॥
हत पुत्रा अस्मि भगवन् तव पुत्रैः महाबलैः ।शक्र हन्तारम् इच्छामि पुत्रम् दीर्घ तपो अर्जितम् ॥१-४६-२॥
सा अहम् तपः चरिष्यामि गर्भम् मे दातुम् अर्हसि ।ईश्वरम् शक्र हन्तारम् त्वम् अनुज्ञातुम् अर्हसि ॥१-४६-३॥
तस्याः तत् वचनम् श्रुत्वा मारीचः काश्यपः तदा ।प्रत्युवाच महातेजा दितिम् परम दुःखिताम् ॥१-४६-४॥
एवम् भवतु भद्रम् ते शुचिः भव तपोधने ।जनयिष्यसि पुत्रम् त्वम् शक्र हन्तारम् आहवे ॥१-४६-५॥
पूर्णे वर्ष सहस्रे तु शुचिः यदि भविष्यसि ।पुत्रम् त्रैलोक्य हन्तारम् मत्तः त्वम् जनयिष्यसि ॥१-४६-६॥
एवम् उक्त्वा महा तेजाः पाणिना स ममार्ज ताम् ।तम् आलभ्य ततः स्वस्ति इति उक्त्वा तपसे ययौ ॥१-४६-७॥
गते तस्मिन् नरश्रेष्ठ दितिः परम हर्षिता ।कुशप्लवम् सामासाद्य तपः तेपे सुदारुणम् ॥१-४६-८॥
तपः तस्याम् हि कुर्वत्याम् परिचर्याम् चकार ह ।सहस्राक्षो नरश्रेष्ठ परया गुण संपदा ॥१-४६-९॥
अग्निम् कुशान् काष्ठम् अपः फलम् मूलम् तथैव च ।न्यवेदयत् सहस्राक्षो यच् च अन्यत् अपि कान्क्षितम् ॥१-४६-१०॥
गात्र संवाहनैः चैव श्रम अपनयनैः तथा ।शक्रः सर्वेषु कालेषु दितिम् परिचचार ह ॥१-४६-११॥
पूर्णे वर्ष सहस्रे दश ऊने रघुनंदन ।दितिः परम संहृष्टा सहस्राक्षम् अथ अब्रवीत् ॥१-४६-१२॥
तपः चरन्त्या वर्षाणि दश वीर्यवताम् वर ।अवशिष्टानि भद्रम् ते भ्रातरम् द्रक्ष्यसे ततः ॥१-४६-१३॥
यम् अहम् त्वत् कृते पुत्र तम् आधास्ये जय उत्सुकम् ।त्रैलोक्य विजयम् पुत्र सह भोक्ष्यसि विज्वरः ॥१-४६-१४॥
याचितेन सुरश्रेष्ट पित्रा तव माहात्मना ।वरो वर्ष सस्र अन्ते मम दत्तः सुतम् प्रति ॥१-४६-१५॥
इति उक्त्वा च दितिः तत्र प्राप्ते मध्यन्दिन ईश्वरे ।निद्रया पहृता देवी पादौ कृत्वाथ शीर्षतः ॥१-४६-१६॥
दृष्ट्वा ताम् अशुचिम् शक्रः पादयोः कृत मूर्धजाम् ।शिरः स्थाने कृतौ पादौ जहास च मुमोद च ॥१-४६-१७॥
तस्याः शरीर विवरम् प्रविवेश पुरंदरः ।गर्भम् च सप्तधा राम चिच्छेद परम आत्मवान् ॥१-४६-१८॥
भिद्यमानः ततो गर्भो वज्रेण शत पर्वणा ।रुरोद सुस्वरम् राम ततो दितिः अबुध्यत ॥१-४६-१९॥
मा रुदो मा रुदः च इति गर्भम् शक्रो अभ्यभाषत ।बिभेद च महातेजा रुदन्तम् अपि वासवः ॥१-४६-२०॥
न हन्तव्यम् न हन्तव्यम् इति एवम् दितिः अब्रवीत् ।निष्पपात ततः शक्रो मातुर् वचन गौरवात् ॥१-४६-२१॥
प्रांजलिः वज्र सहितो दितिम् शक्रो अभ्यभाषत ।अशुचिः देवि सुप्ता असि पादयोः कृत मूर्धजा ॥१-४६-२२॥
तत् अन्तरम् अहम् लब्ध्वा शक्र हन्तारम् आहवे ।अभिन्दम् सप्तधा देवि तन् मे त्वम् क्षन्तुम् अर्हसि ॥१-४६-२३॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 45
- Next: Bāla-Kāṇḍa Sarga 47 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷