🪷 बालकाण्ड · Sarga 45
Bāla-Kāṇḍa · The Book of Childhood · Sarga 45 · 45 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।विस्मयम् परमम् गत्वा विश्वामित्रम् अथ अब्रवीत् ॥१-४५-१॥
अति अद्भुतम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।गंगा अवतरणम् पुण्यम् सागरस्य अपि पूरणम् ॥१-४५-२॥
क्षण भूत इव नौ रात्रिः संवृत्त इयम् परंतप ।इमाम् चिंतयतोः सर्वम् निखिलेन कथाम् तव ॥१-४५-३॥
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह ।जगाम चिंतयान् अस्य विश्वामित्र कथाम् शुभाम् ॥१-४५-४॥
ततः प्रभाते विमले विश्वामित्रम् तपोधनम्।उवाच राघवो वाक्यम् कृत आह्निकम् अरिन्दमः ॥१-४५-५॥
गता भगवती रात्रिः श्रोतव्यम् परमम् श्रुतम् ।तराम सरितम् श्रेष्टम् पुण्यम् त्रि पथ गाम् नदीम् ॥१-४५-६॥
नौः एषा हि सुख आस्तीर्णा ऋषीणाम् पुण्य कर्मणाम् ।भगवंतम् इह प्राप्तम् ज्ञात्वा त्वरितम् आगता ॥१-४५-७॥
तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः ।संतारम् कारयामास स ऋषि संघस्य कौशिकः ॥१-४५-८॥
उत्तरम् तीरम् आसाद्य संपूज्य ऋषि गणम् ततः ।गंगा कूले निविष्टाः ते विशालाम् ददृशुः पुरीम् ॥१-४५-९॥
ततो मुनि वरः तूर्णम् जगाम सह राघवः ।विशालाम् नगरीम् रम्याम् दिव्याम् स्वर्ग उपमाम् तदा ॥१-४५-१०॥
अथ रामो महाप्राज्ञो विश्वामित्रम् महामुनिम् ।पप्रच्छ प्रांजलिः भूत्वा विशालाम् उत्तमाम् पुरीम् ॥१-४५-११॥
कतमो राज वंशो अयम् विशालायाम् महामुने ।श्रोतुम् इच्छामि भद्रम् ते परम् कौतूहलम् हि मे ॥१-४५-१२॥
तस्य तत् वचनम् श्रुत्वा रामस्य मुनिपुंगवः ।आख्यातुम् तत् समारेभे विशालस्य पुरातनम् ॥१-४५-१३॥
श्रूयताम् राम शक्रस्य कथाम् कथयतः श्रुताम् ।अस्मिन् देशे हि यत् वृत्तम् शृणु तत्त्वेन राघव ॥१-४५-१४॥
पूर्वम् कृत युगे राम दितेः पुत्रा महाबलाः ।अदितेः च महाभागा वीर्यवन्तः सुधार्मिकाः ॥१-४५-१५॥
ततः तेषाम् नरव्याघ्रः बुद्धिः आसीत् महात्मनाम् ।अमरा विर्जराः चैव कथम् स्यामो निरामयाः ॥१-४५-१६॥
तेषाम् चिंतयताम् तत्र बुद्धिः आसीत् विपश्चिताम् ।क्षीर उद मथनम् कृत्वा रसम् प्राप्स्याम तत्र वै ॥१-४५-१७॥
ततो निश्चित्य मथनम् योक्त्रम् कृत्वा च वासुकिम् ।मन्थानम् मन्दरम् कृत्वा ममन्थुर् अमित ओजसः ॥१-४५-१८॥
अथ वर्ष सहस्रेण योक्त्र सर्प शिरांसि च ।वमन्तो अति विषम् तत्र ददंशुर् दशनैः शिलाः ॥१-४५-१९॥
उत्पपाताम् अग्नि संकाशम् हालाहल महाविषम् ।तेन दग्धम् जगत् सर्वम् स देव असुर मानुषम् ॥१-४५-२०॥
अथ देवा महादेवम् शंकरम् शरणार्थ्तिनः ।जग्मुः पशुपतिम् रुद्रम् त्राहि त्राहि इति तुष्टुवुः ॥१-४५-२१॥
एवम् उक्{]तः ततो देवैः देवेश्वरः प्रभुः ।प्रादुर् आसीत् ततो अत्र एव शंख चक्र धरो हरिः ॥१-४५-२२॥
उवाच एनम् स्मितम् कृत्वा रुद्रम् शूलधरम् हरिः ।दैवतैः मध्यमानो तु तत् पूर्वम् समुपस्थितम् ॥१-४५-२३॥
तत् त्वदीयम् सुरश्रेष्ठः सुराणाम् अग्रतो हि यत् ।अग्र पूजामि इह स्थित्वा गृहाण इदम् विषम् प्रभो ॥१-४५-२४॥
इति उक्त्वा च सुरश्रेष्ठः तत्र एव अंतर्धीयत ।देवतानाम् भयम् दृष्ट्वा श्रुत्वा वाक्यम् तु शारङ्गिणः ॥१-४५-२५॥
हालाहलम् विषम् घोरम् संजग्राह अमृत उपमम् ।देवान् विसृउज्य देवेशो जगाम भगवान् हरः ॥१-४५-२६॥
ततो देव असुराः सर्वे ममन्थू रघुनंदन ।प्रविवेश अथ पातालम् मन्थानः पर्वतोत्तमः ॥१-४५-२७॥
ततो देवाः स गन्धर्वाः तुष्टुवुः मधुसूदनम् ।त्वम् गतिः सर्व भूतानाम् विशेषेण दिवौकसाम् ॥१-४५-२८॥
पालय अस्मान् महाबाहो गिरिम् उद्धर्तुम् अर्हसि ।इति श्रुत्वा हृषीकेशः कामठम् रूपम् आस्थितः ॥१-४५-२९॥
पर्वतम् पृष्टतः कृत्वा शिश्ये तत्र उदधौ हरिः ।पर्वत अग्रम् तु लोकात्मा हस्तेन आक्रम्य केशवः ॥१-४५-३०॥
देवानाम् मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः ।अथ वर्ष सहस्रेण आयुर्वेदमयः पुमान् ॥१-४५-३१॥
उदतिष्ठत् सुधर्मात्मा स दण्ड स कमण्दुलुः ।पूर्वम् धन्वन्तरिर् नाम अप्सराः च सु वर्चसः ॥१-४५-३२॥
अप्सु निर्मथनात् एव रसात् तस्मात् वर स्त्रियः ।उत्पेतुः मनुज श्रेष्ठ तस्मात् अप्सरसो अभवन् ॥१-४५-३३॥
षष्टिः कोट्यो अभवन् तासाम् अप्सराणाम् सुवर्चसाम् ।असंख्येयाः तु काकुत्स्थ याः तासाम् परिचारिकाः ॥१-४५-३४॥
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देव दानवाः ।अप्रतिग्रहणात् एव ता वै साधारणाः स्मृताः ॥१-४५-३५॥
वरुणस्य ततः कन्या वारुणी रघुनंदन ।उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥१-४५-३६॥
दितेः पुत्रा न ताम् राम जगृहुर् वरुण आत्मजाम् ।अदितेः तु सुता वीर जगृहुः ताम् अनिंदिताम् ॥१-४५-३७॥
असुराः तेन दैतेयाः सुराः तेन अदितेः सुताः ।हृष्टाः प्रमुदिताः च आसन् वारुणी ग्रहणात् सुराः ॥१-४५-३८॥
उच्चैःश्रवा हय श्रेष्ठो मणि रत्नम् च कौस्तुभम् ।उदतिष्ठन् नरश्रेष्ठ तथैव अमृतम् उत्तमम् ॥१-४५-३९॥
अथ तस्य कृते राम महान् आसीत् कुल क्षयः ।अदितेः तु ततः पुत्रा दितेः पुत्रान् असूदयन् ॥१-४५-४०॥
एकताम् अगमन् सर्वे असुरा राक्षसैः सह ।युद्धम् आसीत् महाघोरम् वीर त्रैलोक्य मोहनम् ॥१-४५-४१॥
यदा क्षयम् गतम् सर्वम् तदा विष्णुः महाबलः ।अमृतम् सः अहरत् तूर्णम् मायाम् आस्थाय मोहिनीम् ॥१-४५-४२॥
ये गता अभिमुखम् विष्णुम् अक्षरम् पुरुषोत्तमम् ।संपिष्टाः ते तदा युद्धे बिष्णुना प्रभ विष्णुना ॥१-४५-४३॥
अदितेः आत्मजा वीरा दितेः पुत्रान् निजघ्निरे ।अस्मिन् घोरे महायुद्धे दैतेया अदित्यायोः भृशम् ॥१-४५-४४॥
निहत्य दिति पुत्रान् तु राज्यम् प्राप्य पुरंदरः ।शशास मुदितो लोकान् स ऋषि संघान् स चारणान् ॥१-४५-४५॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 44
- Next: Bāla-Kāṇḍa Sarga 46 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷