🪷 बालकाण्ड · Sarga 44
Bāla-Kāṇḍa · The Book of Childhood · Sarga 44 · 23 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स गत्वा सागरम् राजा गंगया अनुगतस् तदा ।प्रविवेश तलम् भूमेः यत्र ते भस्मसात् कृताः ॥१-४४-१॥
भस्मनि अथ आप्लुते राम गंगाइआः सलिलेन वै ।सर्व लोक प्रभुः ब्रह्मा राजानम् इदम् अब्रवीत् ॥१-४४-२॥
तारिता नरशार्दूल दिवम् याताः च देववत् ।षष्टिः पुत्र सहस्राणि सगरस्य महात्मनः ॥१-४४-३॥
सागरस्य जलम् लोके यावत् स्थास्यति पार्थिव ।सगरस्य आत्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-४॥
इयम् च दुहिता ज्येष्ठा तव गंगा भविष्यति ।त्वत् कृतेन च नाम्ना अथ लोके स्थास्यति विश्रुता ॥१-४४-५॥
गंगा त्रिपथगा नाम दिव्या भागीरथी इति च ।त्रीन् पथो भावयन्ति इति तस्मत् त्रिपथगा स्मृता ॥१-४४-६॥
पितामहानाम् सर्वेषाम् त्वम् अत्र मनुजाधिप ।कुरुष्व सलिलम् राजन् प्रतिज्ञाम् अपवर्जय ॥१-४४-७॥
पूर्वकेण हि ते राजन् तेन अतियशसा तदा ।धर्मिणाम् प्रवरेण अथ न एष प्राप्तो मनोरथः ॥१-४४-८॥
तथैव अंशुमता वत्स लोके अप्रतिम तेजसा ।गंगाम् प्रार्थयता नेतुम् प्रतिज्ञा न अपवर्जिता ॥१-४४-९॥
राजर्षिणा गुणवता महर्षि सम तेजसा ।मत् तुल्य तपसा चैव क्षत्र धर्म स्थितेन च ॥१-४४-१०॥
दिलीपेन महाभाग तव पित्रा अतितेजसा ।पुनर् न शकिता नेतुम् गंगाम् प्रार्थयत अनघ ॥१-४४-११॥
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।प्राप्तो असि परमम् लोके यशः परम संमतम् ॥१-४४-१२॥
तत् च गंगा अवतरणम् त्वया कृतम् अरिन्दम ।अनेन च भवान् प्राप्तो धर्मस्य आयतनम् महत् ॥१-४४-१३॥
प्लावयस्व त्वम् आत्मानम् नरोत्तम सदा उचिते ।सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-१४॥
पितामहानाम् सर्वेषाम् कुरुष्व सलिलक्रियाम् ।स्वस्ति ते अस्तु गमिष्यामि स्वम् लोकम् गम्यताम् नृप ॥१-४४-१५॥
इति एवम् उक्त्वा देवेशः सर्वलोक पितामहः ।यथा आगतम् तथा अगच्छत् देव लोकम् महायशाः ॥१-४४-१६॥
भगीरथः तु राजर्षिः कृत्वा सलिलम् उत्तमम् ।यथाक्रमम् यथान्यायम् सागराणाम् महायशाः ॥१-४४-१७॥
कृतोदकः शुची राजा स्वपुरम् प्रविवेश ह ।समृद्धार्थो नरश्रेष्ठ स्वराज्यम् प्रशशास ह ॥१-४४-१८॥
प्रमुमोद च लोकः तम् नृपम् आसाद्य राघव ।नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥१-४४-१९॥
एष ते राम गंगाया विस्तरो अभिहितो मया ।स्वस्ति प्राप्नुहि भद्रम् ते संध्या कालो अतिवर्तते ॥१-४४-२०॥
धन्यम् यशस्यम् आयुष्यम् पुत्र्यम् स्वर्ग्यम् अथ अपि च ।यः श्रावयति विप्रेषु क्षत्रियेषु इतेरेषु च ॥१-४४-२१॥
इदम् आKयनम् आयुश्यम् गंगा अवतरणम् शुभम् ॥१-४४-२२॥
यः श्रुणोति च काकुत्स्थ सर्वान् कामान् अवाप्नुयात् ।सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिः च वर्धते ॥१-४४-२३॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 43
- Next: Bāla-Kāṇḍa Sarga 45 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷