🪷 बालकाण्ड · Sarga 43
Bāla-Kāṇḍa · The Book of Childhood · Sarga 43 · 40 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.43local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
देव देवे गते तस्मिन् सो अंगुष्ठ अग्र निपीडिताम् ।कृत्वा वसुमतीम् राम वत्सरम् समुपासत ॥१-४३-१॥
अथ संवत्सरे पूर्णे सर्व लोक नमस्कृतः ।उमापतिः पशुपती राजानम् इदम् अब्रवीत् ॥१-४३-२॥
प्रीतः ते अहम् नरश्रेष्ठ करिष्यामि तव प्रियम् ।शिरसा धारयिष्यामि शैलराज सुताम् अहम् ॥१-४३-३॥
ततो हैमवती ज्येष्ठा सर्व लोक नमस्कृता ।तदा सा अति महत् रूपम् कृत्वा वेगम् च दुःसहम् ॥१-४३-४॥
आकाशात् अपतत् राम शिवे शिव शिरस्य् उत ।अचिन्तयः च सा देवी गंग परम दुर्धरा ॥१-४३-५॥
विशामि अहम् हि पातालम् स्त्रोतसा गृह्य शंकरम् ।तस्याः वलेपनम् ज्ञत्व क्रुद्धः तु भगवन् हरः ॥१-४३-६॥
तिरोभावयितुम् बुद्धिम् चक्रे त्रिनयनः तदा ।सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-७॥
हिमवत् प्रतिमे राम जटा मण्डल गह्वरे ।सा कथंचित् महीम् गंतुम् न अशक्नोत् यत्नम् आस्थिता ॥१-४३-८॥
न एव सा निर्गमम् लेभे जटा मण्डल अंततः ।तत्र एव आबंभ्रमत् देवी संवत्सर गणान् बहून् ॥१-४३-९॥
ताम् अपश्यन् पुनः तत्र तपः परमम् आस्थितः ।स तेन तोषितः च असीत् अत्यंतम् रघुनंदन ॥१-४३-१०॥
विससर्ज ततो गंगाम् हरो बिन्दु सरः प्रति ।तस्यम् विसृउज्यमानायाम् सप्त स्रोतंसि जज्ञिरे ॥१-४३-११॥
ह्लादिनी पावनी चैव नलिनी च तथा एव च ।तिस्रः प्राचीम् दिशम् जग्मुः गंगाः शिव जलाः शुभाः ॥१-४३-१२॥
सुचक्षुः च एव सीता च सिन्धुः च एव महानदी ।तिस्रः एता दिशम् जग्मुः प्रतीचीम् तु शुभ उदकाः ॥१-४३-१३॥
सप्तमी च अन्वगात् तासम् भगीरथ रथम् तदा ।भगीरथो अपि रजर्षि दिव्यम् स्यंदनम् आस्थितः ॥१-४३-१४॥
प्रायात् अग्रे महातेजा गंग तम् च अपि अनुव्रजत् ।गगनात् शंकर शिरः ततो धरणिम् आगता ॥१-४३-१५॥
असर्पत जलम् तत्र तीव्र शब्द पुरस्कृतम् ।मत्स्य कच्छप संघैः च शिशुमार गणैः तथा ॥१-४३-१६॥
पतद्भिः पतितैः च एव व्यरोचत वसुंधरा ।ततो देव ऋषि गंधर्वा यक्ष सिद्ध गणाः तथा ॥१-४३-१७॥
व्यलोकयन्त ते तत्र गगनात् गाम् गताम् तदा ।विमानैः नगर आकारैः हयैः गज वरैः तथा ॥१-४३-१८॥
पारिप्लव गताः च अपि देवताः तत्र विष्ठिताः ।तत् अद्भुततमम् लोके गंगा अवतरम् उत्तमम् ॥१-४३-१९॥
दिदृक्षवो देव गणाः समीयुः अमित ओजसः ।संपतद्भिः सुर गणैः तेषाम् च आभरण ओजसा ॥१-४३-२०॥
शत आदित्यम् इव आभाति गगनम् गत तोयदम् ।शिंशुमार उरग गणैः मीनैः अपि च चंचलैः ॥१-४३-२१॥
विद्युद्भिः इव विक्षिप्तैः आकाशम् अभवत् तदा ।पाण्डुरैः सलिल उत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-२२॥
शारद अभ्रैः इव आक्रीणम् गगनम् हंस संप्लवैः ।क्वचित् द्रुततरम् याति कुटिलम् क्वचित् आयतम् ॥१-४३-२३॥
विनतम् क्वचित् उद्धूतम् क्वचित् याति शनैः शनैः ।सलिलेन एव सलिलम् क्वचित् अभ्याहतम् पुनः ॥१-४३-२४॥
मुहुर् ऊर्ध्व पथम् गत्वा पपात वसुधाम् पुनः ।तत् शंकर शिरो भ्रष्टम् भ्रष्टम् भूमि तले पुनः ॥१-४३-२५॥
व्यरोचत तदा तोयम् निर्मलम् गत कल्मषम् ।तत्र ऋषि गण गन्धर्वा वसुधा तल वासिनः १-४३-२६भव अंग पतितम् तोयम् पवित्रम् इति पस्पृशुः ।शापात् प्रपतिता ये च गगनात् वसुधा तलम् ॥१-४३-२६॥
कृत्वा तत्र अभिषेकम् ते बभूवुः गत कल्मषाः ।धूत पापाः पुनः तेन तोयेन अथ शुभ अन्विता ॥१-४३-२७॥
पुनः आकाशम् आविश्य स्वान् लोकान् प्रतिपेदिरे ।मुमुदे मुदितो लोकः तेन तोयेन भास्वता ॥१-४३-२८॥
कृत अभिषेको गंगायाम् बभूव गत कल्मषः ।भगीरथो राजर्षिः दिव्यम् स्यंदनम् आस्थितः ॥१-४३-२९॥
प्रायात् अग्रे महाराजाः तम् गंगा पृष्ठतो अन्वगात् ।देवाः स ऋषि गणाः सर्वे दैत्य दानव राक्षसाः ॥१-४३-३०॥
गन्धर्व यक्ष प्रवराः स किंनर महोरगाः ।सर्पाः च अप्सरसो राम भगीरथ रथ अनुगाः ॥१-४३-३१॥
गंगाम् अन्वगमन् प्रीताः सर्वे जल चराः च ये ।यतो भगीरथो राजा ततो गंगा यशस्विनी ॥१-४३-३२॥
जगाम सरिताम् श्रेष्ठा सर्व पाप प्रणाशिनी ।ततो हि यजमानस्य जह्नोः अद्भुत कर्मणः ॥१-४३-३३॥
गंग संप्लावयामास यज्ञ वाटम् महत्मनः ।तसया वलेपनम् ज्ञत्व कृद्धो जह्नुः च राघव ॥१-४३-३४॥
अपिबत् तु जलम् सर्वम् गंगयाः परम अद्भुतम् ।ततो देवाः स गंघर्व ऋषयः च सु विस्मिताः ॥१-४३-३५॥
पूजयन्ति महत्मनम् जह्नुम् पुरुष सत्तमम् ।गंगम् च अपि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-३६॥
ततः तुष्टः महातेजाः श्रोत्राभ्याम् असृउजत् प्रभुः ।तस्मात् जह्नु सुता गंग प्रोच्यते जाह्नवी इति च ॥१-४३-३७॥
जगाम च पुनः गंग भगीरथ रथ अनुगा ।सागरम् च अपि संप्रप्ता सा सरित् प्रवरा तदा ॥१-४३-३८॥
रसातलम् उपागच्छत् सिद्ध्यर्थम् तस्य कर्मणः ।भगीरथो अपि रजार्षि गंगम् आदाय यत्नतः ॥१-४३-३९॥
पितमहान् भस्म क्रुतम् अपश्यत् गत चेतनः ।अथ तत् भस्मनाम् राशिम् गंग सलिलम् उत्तमम् ।प्लावयत् पूत पाप्मानः स्वर्गम् प्रप्ता रघु उत्तम ॥१-४३-४०॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 42
- Next: Bāla-Kāṇḍa Sarga 44 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷