🪷 बालकाण्ड · Sarga 42

Bāla-Kāṇḍa · The Book of Childhood · Sarga 42 · 25 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 1.42.1
कालधर्मम् गते राम सगरे प्रकृती जनाः ।राजानम् रोचयामासुर् अम्शुमन्तम् सुधार्मिकम् ॥१-४२-१॥
Vālmīki 1.42.2
स राजा सुमहान् आसीत् अंशुमान् रघुनंदन ।तस्य पुत्रो महान् आसीत् दिलीप इति विश्रुतः ॥१-४२-२॥
Vālmīki 1.42.3
तस्मै राज्यम् समादिश्य दिलीपे रघुनंदन ।हिमवत् शिखरे रम्ये तपः तेपे सुदारुणम् ॥१-४२-३॥
Vālmīki 1.42.4
द्वा त्रिंशत् सहस्राम् वर्षाणि सुमहा यशाः ।तपोवन गतो राजा स्वर्गम् लेभे तपोधनः ॥१-४२-४॥
Vālmīki 1.42.5
दिलीपः तु महातेजाः श्रुत्वा पैतामहम् वधम् ।दुःख उपहतया बुद्ध्या निश्चयम् न अध्यगच्छत ॥१-४२-५॥
Vālmīki 1.42.6
कथम् गंगा अवतरणम् कथम् तेषां जलक्रिया ।तारयेयम् कथम् च एतान् इति चिंतापरो अभवत् ॥१-४२-६॥
Vālmīki 1.42.7
तस्य चिंतयतो नित्यम् धर्मेण विदित आत्मनः ।पुत्रो भगीरथो नाम जज्ञे परम धार्मिकः ॥१-४२-७॥
Vālmīki 1.42.8
दिलीपः तु महातेजा यज्ञैः बहुभिः इष्टवान् ।त्रिंशत् वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-४२-८॥
Vālmīki 1.42.9
अगत्वा निश्चयम् राजा तेषाम् उद्धरणम् प्रति ।व्याधिना नर शार्दूल काल धर्मम् उपेयिवान् ॥१-४२-९॥
Vālmīki 1.42.10
इन्द्रलोकम् गतो राजा स्व अर्जितेन एव कर्मणा ।रज्ये भगीरथम् पुत्रम् अभिषिच्य नरर्षभः ॥१-४२-१०॥
Vālmīki 1.42.11
भगीरथः तु राजर्षिः धार्मिको रघुनंदन ।अनपत्यो महारजाः प्रजा कामः स च प्रजाः ॥१-४२-११॥
Vālmīki 1.42.12
मंत्रिषु आधाय तत् रज्यम् गङ्ग अवतरणे रतः।तपो दीर्घम् समातिष्ठत् गोकर्णे रघुनंदन ॥१-४२-१२॥
Vālmīki 1.42.13
ऊर्ध्व बाहुः पंच तपा मास आहारो जितेइन्द्रियः ।तस्य वर्ष सहस्राणि घोरे तपसि तिष्ठतः ॥१-४२-१३॥
Vālmīki 1.42.14
अतीतानि महबहो तस्य राज्ञो महात्मनः ।सुप्रीतो भगवान् ब्रह्मा प्रजानाम् पतिः ईश्वरः ॥१-४२-१४॥
Vālmīki 1.42.15
ततः सुर गणैः सार्धम् उपागम्य पितामहः ।भगीरथम् महात्मानम् तप्यमानम् अथ अब्रवीत् ॥१-४२-१५॥
Vālmīki 1.42.16
भगीरथ महाराज प्रीतः ते अहम् जनाधिप ।तपसा च सुतप्तेन वरम् वरय सुव्रत ॥१-४२-१६॥
Vālmīki 1.42.17
तम् उवाच महातेजाः सर्वलोक पितामहम् ।भगीरथो महाबाहुः कृत अंजलिपुटः स्थितः ॥१-४२-१७॥
Vālmīki 1.42.18
यदि मे भगवान् प्रीतो यदि अस्ति तपसः फलम् ।सगरस्य आत्मजाः सर्वे मत्तः सलिलम् आप्नुयुः ॥१-४२-१८॥
Vālmīki 1.42.19
गन्गायाः सलिल क्लिन्ने भस्मनि एषाम् महात्मनाम् ।स्वर्गम् गच्छेयुर् अत्यंतम् सर्वे मे प्रपितामहाः ॥१-४२-१९॥
Vālmīki 1.42.20
देव याचे ह संतत्यै न अवसीदेत् कुलम् च नः ।इक्ष्वाकूणाम् कुले देव एष मे अस्तु वरः परः ॥१-४२-२०॥
Vālmīki 1.42.21
उक्त वाक्यम् तु राजानम् सर्वलोक पितामहः ।प्रत्युवाच शुभाम् वाणीम् मधुरम् मधुर अक्षराम् ॥१-४२-२१॥
Vālmīki 1.42.22
मनोरथो महान् एष भगीरथ महारथ ।एवम् भवतु भद्रम् ते इक्ष्वाकु कुल वर्धन ॥१-४२-२२॥
Vālmīki 1.42.23
इयम् हैमवती ज्येष्ठा गंगा हिमवतः सुता ।ताम् वै धारयितुम् राजन् हरः तत्र नियुज्यताम् ॥१-४२-२३॥
Vālmīki 1.42.24
गंगायाः पतनम् राजन् पृथिवी न सहिष्यते ।ताम् वै धारयितुम् राजन् न अन्यम् पश्यामि शूलिनः ॥१-४२-२४॥
Vālmīki 1.42.25
तम् एवम् उक्त्वा राजानम् गंगाम् च आभाष्य लोककृत् ।जगाम त्रिदिवम् देवैः सर्वैः सह मरुत् गणैः ॥१-४२-२५॥

Navigation

Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷