🪷 बालकाण्ड · Sarga 41

Bāla-Kāṇḍa · The Book of Childhood · Sarga 41 · 26 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.41.1
पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥
Vālmīki 1.41.2
शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥
Vālmīki 1.41.3
अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥
Vālmīki 1.41.4
अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥
Vālmīki 1.41.5
एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥
Vālmīki 1.41.6
स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥
Vālmīki 1.41.7
देव दानव रक्षोभिः पिशाच पतग उरगैः ।पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥
Vālmīki 1.41.8
स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥
Vālmīki 1.41.9
दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१-४१-९॥
Vālmīki 1.41.10
तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥
Vālmīki 1.41.11
तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥
Vālmīki 1.41.12
तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥
Vālmīki 1.41.13
स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥
Vālmīki 1.41.14
यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥
Vālmīki 1.41.15
स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥
Vālmīki 1.41.16
विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥
Vālmīki 1.41.17
स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥
Vālmīki 1.41.18
कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥
Vālmīki 1.41.19
गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥
Vālmīki 1.41.20
भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥
Vālmīki 1.41.21
निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥
Vālmīki 1.41.22
सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥
Vālmīki 1.41.23
ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥
Vālmīki 1.41.24
तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥
Vālmīki 1.41.25
स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥
Vālmīki 1.41.26
अगत्वा निश्चयम् राजा कालेन महता महान् ।त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷