🪷 बालकाण्ड · Sarga 41
Bāla-Kāṇḍa · The Book of Childhood · Sarga 41 · 26 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.41local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥
शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥
अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥
अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥
एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥
स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥
देव दानव रक्षोभिः पिशाच पतग उरगैः ।पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥
स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥
दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१-४१-९॥
तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥
तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥
तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥
स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥
यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥
स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥
विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥
स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥
कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥
गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥
भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥
निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥
सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥
ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥
तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥
स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥
अगत्वा निश्चयम् राजा कालेन महता महान् ।त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 40
- Next: Bāla-Kāṇḍa Sarga 42 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷