🪷 बालकाण्ड · Sarga 40

Bāla-Kāṇḍa · The Book of Childhood · Sarga 40 · 30 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.40.1
देवतानाम् वचः श्रुत्वा भगवान् वै पितामहः ।प्रत्युवाच सुसंत्रस्तान् कृतान्त बल मोहितान् ॥१-४०-१॥
Vālmīki 1.40.2
यस्य इयम् वसुधा कृत्स्ना वासुदेवस्य धीमतः।महिषी माधवसय स एषा स एव भगवन् प्रभुः॥१-४०-२॥
Vālmīki 1.40.3
कापिलम् रूपम् आस्थाय धारयत्य अनिशम् धराम् ।तस्य कोपाग्निना दग्धा भविष्यंति नृपात्मजा ॥१-४०-३॥
Vālmīki 1.40.4
पृथिव्याः च अपि निर्भेदो दृष्ट एव सनातनः ।सगरस्य च पुत्राणाम् विनाशो दीर्घ दर्शिनाम् ॥१-४०-४॥
Vālmīki 1.40.5
पितामह वचः श्रुत्वा त्रयः त्रिंशत् अरिन्दमः ।देवाः परम संहृष्टाः पुनर् जग्मुर् यथा आगतम् ॥१-४०-५॥
Vālmīki 1.40.6
सगरस्य च पुत्राणाम् प्रादुर् आसीत् महास्वनः ।पृथिव्याम् भिद्यमानायाम् निर्घात सम निःवनः ॥१-४०-६॥
Vālmīki 1.40.7
ततो भित्त्वा महीम् सर्वाम् कृत्वा च अपि प्रदक्षिणम् ।सहिताः सगराः सर्वे पितरम् वाक्यम् अब्रुवन् ॥१-४०-७॥
Vālmīki 1.40.8
परिक्रांता मही सर्वा सत्त्ववन्तः च सूदिताः ।देव दानव रक्षांसि पिशाच उरग पन्नगाः ॥१-४०-८॥
Vālmīki 1.40.9
न च पश्यामहे अश्वम् ते अश्व हर्तारम् एव च ।किम् करिष्याम भद्रम् ते बुद्धिः अत्र विचार्यताम् ॥१-४०-९॥
Vālmīki 1.40.10
तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् राज सत्तमः ।समन्युः अब्रवीत् वाक्यम् सगरो रघुनंदन ॥१-४०-१०॥
Vālmīki 1.40.11
भूयः खनत भद्रम् वो विभेद्य वसुधा तलम्अश्व हर्तारम् आसाद्य कृतार्थाः च निवर्तत ॥१-४०-११॥
Vālmīki 1.40.12
पितुर् वचनम् आसाद्य सगरस्य महात्मनः ।षष्टिः पुत्र सहस्राणि रसातलम् अभिद्रवन् ॥१-४०-१२॥
Vālmīki 1.40.13
खन्यमाने ततः तस्मिन् ददृशुः पर्वत उपमम् ।दिशा गजम् विरूपाक्षम् धारयंतम् महीतलम् ॥१-४०-१३॥
Vālmīki 1.40.14
स पर्वत वनाम् कृत्स्नाम् पृथिवीम् रघुनंदन ।धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥
Vālmīki 1.40.15
यदा पर्वणि काकुत्स्थ विश्रमार्थम् महागजः ।खेदात् चालयते शीर्षम् भूमि कम्पः तदा भवेत् ॥१-४०-१५॥
Vālmīki 1.40.16
ते तम् प्रदक्षिणम् कृत्वा दिशा पालम् महागजम् ।मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम् ॥१-४०-१६॥
Vālmīki 1.40.17
ततः पूर्वाम् दिशम् भित्त्वा दक्षिणाम् बिभिदुः पुनः ।दक्षिणस्याम् अपि दिशि ददृशुः ते महागजम् ॥१-४०-१७॥
Vālmīki 1.40.18
महा पद्मम् महात्मानम् सुमहा पर्वतोपमम् ।शिरसा धारयंतम् गाम् विस्मयम् जग्मुर् उत्तमम् ॥१-४०-१८॥
Vālmīki 1.40.19
ते तम् प्रदक्षिणम् कृत्वा सगरस्य महात्मनः ।षष्टिः पुत्र सहस्राणि पश्चिमाम् बिभिदुर् दिशम् ॥१-४०-१९॥
Vālmīki 1.40.20
पश्चिमायाम् अपि दिशि महांतम् अचलोपमम् ।दिशा गजम् सौमनसम् ददृशुः ते महा बलाः ॥१-४०-२०॥
Vālmīki 1.40.21
ते तम् प्रदक्षिणम् कृत्वा पृष्ट्वा च अपि निरामयम् ।खनंतः समुपक्रांता दिशम् सोमवतीम् तदा ॥१-४०-२१॥
Vālmīki 1.40.22
उत्तरस्याम् रघुश्रेष्ठ ददृशुर् हिम पाण्डुरम् ।भद्रम् भद्रेण वपुषा धारयंतम् महीम् इमाम् ॥१-४०-२२॥
Vālmīki 1.40.23
समालभ्य ततः सर्वे कृत्वा च एनम् प्रदक्षिणम् ।षष्टिः पुत्र सहस्राणि बिभिदुर् वसुधा तलम् ॥१-४०-२३॥
Vālmīki 1.40.24
ततः प्राक् उत्तराम् गत्वा सागराः प्रथिताम् दिशम् ।रोषात् अभ्यखनन् सर्वे पृथिवीम् सगर आत्मजाः ॥१-४०-२४॥
Vālmīki 1.40.25
ते तु सर्वे महत्मानो भिमवेग महबलाः ।ददृशुः कपिलम् तत्र वासुदेवम् सनातनम् ॥१-४०-२५॥
Vālmīki 1.40.26
हयम् च तस्य देवस्य चरन्तम् अविदूरतः ।प्रहर्षम् अतुलम् प्रप्तः सर्वे ते रघुनंदन ॥१-४०-२६॥
Vālmīki 1.40.27
ते तम् हय हरम् ज्ञात्वा क्रोध पर्याकुल ईक्षणाः ।खनित्र लांगला धर नाना वृक्ष शिला धराः ॥१-४०-२७॥
Vālmīki 1.40.28
अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठ इति च अब्रुवन् ।अस्माकम् त्वम् हि तुरगम् यज्ञियम् हृतवान् असि ॥१-४०-२८॥
Vālmīki 1.40.29
दुर्मेधः त्वम् हि संप्राप्तान् विद्धि नः सगरात्मजान् ।श्रुत्वा तत् वचनम् तेषाम् कपिलो रघुनंदन ॥१-४०-२९॥
Vālmīki 1.40.30
रोषेण महता आविष्टो हुम् कारम् अकरोत् तदा ।ततः तेन अप्रमेयेण कपिलेन महात्मना ।भस्म राशी कृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷