🪷 बालकाण्ड · Sarga 39

Bāla-Kāṇḍa · The Book of Childhood · Sarga 39 · 25 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.39.1
विश्वामित्र वचः श्रुत्वा कथान्ते रघुनंदन ।उवाच परम प्रीतो मुनिम् दीप्तम् इव अनलम् ॥१-३९-१॥
Vālmīki 1.39.2
श्रोतुम् इच्छामि भद्रम् ते विस्तरेण कथाम् इमाम् ।पूर्वजो मे कथम् ब्रह्मन् यज्ञम् वै समुपाहरत् ॥१-३९-२॥
Vālmīki 1.39.3
तस्य तत् वचनम् श्रुत्वा कौतूहल समन्वितः ।विश्वामित्रः तु काकुत्स्थम् उवाच प्रहसन्निव ॥१-३९-३॥
Vālmīki 1.39.4
श्रूयताम् विस्तरो राम सगरस्य महात्मनः ।शंकर श्वशुरो नाम हिमवान् इति विश्रुतः ॥१-३९-४॥
Vālmīki 1.39.5
विंध्य पर्वतम् आसाद्य निरीक्षेते परस्परम् ।तयोर् मध्ये संभवत् यज्ञः स पुरुषोत्तम॥१-३९-५॥
Vālmīki 1.39.6
स हि देशो नरव्याघ्र प्रशस्तो यज्ञ कर्मणि।तस्य अश्व चर्याम् काकुत्स्थ दृढ धन्वा महारथः ॥१-३९-६॥
Vālmīki 1.39.7
अंशुमान् अकरोत् तात सगरस्य मते स्थितः ।तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः १-३९-७राक्षसीम् तनुम् आस्थाय यज्ञिय अश्वम् अपाहरत् ।ह्रियमाणे तु काकुत्स्थ तस्मिन् अश्वे महात्मनः ॥१-३९-७॥
Vālmīki 1.39.8
उपाध्याय गणाः सर्वे यजमानम् अथ अब्रुवन् ।अयम् पर्वणि वेगेन यज्ञिय अश्वो अपनीयते ॥१-३९-८॥
Vālmīki 1.39.9
हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् ।यज्ञः च्छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः ॥१-३९-९॥
Vālmīki 1.39.10
तत् तथा क्रियताम् राजन् यज्ञो अच्छिद्रः क्रुतो भवेत् ।सो उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-१०॥
Vālmīki 1.39.11
षष्टिम् पुत्र सहस्राणि वाक्यम् एतत् उवाच ह ।गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुषर्षभाः ॥१-३९-११॥
Vālmīki 1.39.12
मंत्र पूतैः महाभागैः आस्थितो हि महाक्रतुः ।तत् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः ॥१-३९-१२॥
Vālmīki 1.39.13
समुद्र मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत ।एक एकम् योजनम् पुत्रा विस्तारम् अभिगच्छत ॥१-३९-१३॥
Vālmīki 1.39.14
यावत् तुरग संदर्शः तावत् खनत मेदिनीम् ।तम् एव हय हर्तारम् मार्गमाणा मम आज्ञया ॥१-३९-१४॥
Vālmīki 1.39.15
दीक्षितः पौत्र सहितः स उपाध्याय गणः तु अहम् ।इह स्थास्यामि भद्रम् वो यावत् तुरग दर्शनम् ॥१-३९-१५॥
Vālmīki 1.39.16
ते सर्वे हृष्टमनसो राज पुत्रा महाबलाः ।जग्मुर् मही तलम् राम पितुर् वचन यंत्रिताः ॥१-३९-१६॥
Vālmīki 1.39.17
गत्व तु पृथिवीम् सर्वम् अदृष्टा तम् महबलाः ।योजनायाम् अविस्तारम् एकैको धरणी तलम् ।बिभिदुः पुरुषव्याघ्र वज्र स्पर्श समैः भुजैः ॥१-३९-१७॥
Vālmīki 1.39.18
शूलैः अशनि कल्पैः च हलैः च अपि सुदारुणैः ।भिद्यमाना वसुमती ननाद रघुनंदन ॥१-३९-१८॥
Vālmīki 1.39.19
नागानाम् वध्यमानानाम् असुराणाम् च राघव ।राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो अभवत् ॥१-३९-१९॥
Vālmīki 1.39.20
योजनानाम् सहस्राणि षष्टिम् तु रघुनंदन ।बिभिदुर् धरणीम् राम रसा तलम् अनुत्तमम् ॥१-३९-२०॥
Vālmīki 1.39.21
एवम् पर्वत संबाधम् जम्बू द्वीपम् नृपात्मजाः ।खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२१॥
Vālmīki 1.39.22
ततो देवाः स गंधर्वाः स असुराः सह पन्नगाः ।संभ्रांत मनसः सर्वे पितामहम् उपागमन् ॥१-३९-२२॥
Vālmīki 1.39.23
ते प्रसाद्य महात्मानम् विषण्ण वदनाः तदा ।ऊचुः परम संत्रस्ताः पितामहम् इदम् वचः ॥१-३९-२३॥
Vālmīki 1.39.24
भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।बहवः च महात्मानो वध्यन्ते जल चारिणः ॥१-३९-२४॥
Vālmīki 1.39.25
अयम् यज्ञ हरो अस्माकम् अनेन अश्वो अपनीयते ।इति ते सर्व भूतानि हिंसन्ति सगर आत्मजः ॥१-३९-२५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷