🪷 बालकाण्ड · Sarga 38
Bāla-Kāṇḍa · The Book of Childhood · Sarga 38 · 24 ślokas
🪷 Devanāgarī Ślokas
ताम् कथाम् कौशिको रामे निवेद्य मधुर अक्षरम् ।पुनः एव अपरम् वाक्यम् काकुत्स्थम् इदम् अब्रवीत् ॥१-३८-१॥
अयोध्या अधिपतिः वीरः पूर्वम् आसीत् नराधिपः ।सगरो नाम धर्मात्मा प्रजाकामः स च अप्रजः ॥१-३८-२॥
वैदर्भ दुहिता राम केशिनी नाम नामतः ।ज्येष्ठा सगर पत्नी सा धर्मिष्ठा सत्य वादिनी ॥१-३८-३॥
अरिष्ठनेमि दुहिता सुपर्ण भगिनी तु सा ।द्वितीया सगरस्य आसीत् पत्नी सुमति संज्ञिता ॥१-३८-४॥
ताभ्याम् सह महाराजा पत्नीभ्याम् तप्तवान् तपः ।हिमवंतम् समासाद्य भृगु प्रस्रवणे गिरौ ॥१-३८-५॥
अथ वर्ष शते पूर्णे तपसा आराधितो मुनिः ।सगराय वरम् प्रादाद् भृगुः सत्यवताम् वरः ॥१-३८-६॥
अपत्य लाभः सुमहान् भविष्यति तव अनघ ।कीर्तिम् च अप्रतिमाम् लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
एका जनयिता तात पुत्रम् वंशकरम् तव ।षष्टिम् पुत्र सहस्राणि अपरा जनयिष्यति ॥१-३८-८॥
भाषमाणम् महात्मानम् राज पुत्र्यौ प्रसाद्य तम् ।ऊचतुः परम प्रीते कृतांजलि पुटे तदा ॥१-३८-९॥
एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति ।श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचः तव ॥१-३८-१०॥
तयोः तत् वचनम् श्रुत्वा भृगुः परमधार्मिकः ।उवाच परमाम् वाणीम् स्वच्छन्दो अत्र विधीयताम् ॥१-३८-११॥
एको वंश करो वा अस्तु बहवो वा महाबलाः ।कीर्तिमन्तो महोत्साहाः का वा कम् वरम् इच्छति ॥१-३८-१२॥
मुनेः तु वचनम् श्रुत्वा केशिनी रघुनंदन ।पुत्रम् वंश करम् राम जग्राह नृप संनिधौ ॥१-३८-१३॥
षष्टिम् पुत्र सहस्राणि सुपर्ण भगिनी तदा ।महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥
प्रदक्षिणम् ऋषिम् कृत्वा शिरसा अभिप्रणम्य च ।जगाम स्व पुरम् राजा सभार्या रघु नन्दन ॥१-३८-१५॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रम् व्यजायत ।असमंज इति ख्यातम् केशिनी सगरात्मजम् ॥१-३८-१६॥
सुमतिः तु नरव्याघ्र गर्भ तुंबम् व्यजायत ।षष्टिः पुत्र सहस्राणि तुंब भेदात् विनिःसृताः ॥१-३८-१७॥
घृत पूर्णेषु कुंभेषु धात्र्यः तान् समवर्धयन् ।कालेन महता सर्वे यौवनम् प्रतिपेदिरे ॥१-३८-१८॥
अथ दीर्घेण कालेन रूप यौवनशालिनः ।षष्टिः पुत्र सहस्राणि सगरस्य अभवन् तदा ॥१-३८-१९॥
स च ज्येष्ठो नरश्रेष्ठ सगरस्य आत्म संभवः ।बालान् गृहीत्वा तु जले सरय्वा रघुनंदन ॥१-३८-२०॥
प्रक्षिप्य प्रहसन् नित्यम् मज्जतस् तान् निरीक्ष्य वै ।एवम् पाप समाचारः सज्जन प्रतिबाधकः ॥१-३८-२१॥
पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् ।तस्य पुत्रो अंशुमान् नाम असमंजस्य वीर्यवान् ॥१-३८-२२॥
सम्मतः सर्व लोकस्य सर्वस्य अपि प्रियम् वदः ।ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता ।स कृत्वा निश्चयम् राजा स उपाध्याय गणः तदा ।यज्ञ कर्मणि वेदज्ञो यष्टुम् समुपचक्रमे ॥१-३८-२४॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 37
- Next: Bāla-Kāṇḍa Sarga 39 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷