🪷 बालकाण्ड · Sarga 37

Bāla-Kāṇḍa · The Book of Childhood · Sarga 37 · 32 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.37.1
तप्यमाने तदा देवे स इन्द्राः स अग्नि पुरोगमाः ।सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् ॥१-३७-१॥
Vālmīki 1.37.2
ततो अब्रुवन् सुराः सर्वे भगवंतम् पितामहम् ।प्रणिपत्य सुराः राम स इन्द्राः स अग्नि पुरोगमाः ॥१-३७-२॥
Vālmīki 1.37.3
येन सेनापतिः देव दत्तो भगवता पुरा ।स तपः परम् आस्थाय तप्यते स्म सह उमया ॥१-३७-३॥
Vālmīki 1.37.4
यत् अत्र अनंतरम् कार्यम् लोकानाम् हित काम्यया ।संविधत्स्व विधानज्ञ त्वम् हि नः परमा गतिः ॥१-३७-४॥
Vālmīki 1.37.5
देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ।सान्त्वयन् मधुरैः वाक्यैः त्रिदशान् इदम् अब्रवीत् ॥१-३७-५॥
Vālmīki 1.37.6
शैल पुत्र्या यत् उक्तम् तत् न प्रजाः स्वासु पत्निषु ।तस्या वचनम् अक्लिष्टम् सत्यम् एव न संशयः ॥१-३७-६॥
Vālmīki 1.37.7
इयम् आकाश गंगा यस्याम् पुत्रम् हुताशनः ।जनयिष्यति देवानाम् सेनापतिम् अरिंदमम् ॥१-३७-७॥
Vālmīki 1.37.8
ज्येष्ठा शैलेन्द्र दुहिता मानयिष्यति तम् सुतम् ।उमायाः तत् बहुमतम् भविष्यति न संशयः ॥१-३७-८॥
Vālmīki 1.37.9
तत् श्रुत्वा वचनम् तस्य कृतार्था रघुनन्दन ।प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् ॥१-३७-९॥
Vālmīki 1.37.10
ते गत्वा परमम् राम कैलासम् धातु मण्डितम् ।अग्निम् नियोजयामासुः पुत्रार्थम् सर्व देवताः ॥१-३७-१०॥
Vālmīki 1.37.11
देव कार्यम् इदम् देव समाधत्स्व हुताशन ।शैल पुत्र्याम् महातेजो गंगायाम् तेज उत्सृज ॥१-३७-११॥
Vālmīki 1.37.12
देवतानाम् प्रतिज्ञाय गंगाम् अभ्येत्य पावकः ।गर्भम् धारय वै देवि देवतानाम् इदम् प्रियम् ॥१-३७-१२॥
Vālmīki 1.37.13
इति एतत् वचनम् श्रुत्वा दिव्यम् रूपम् अधारयत् ।स तस्या महिमाम् दृष्ट्वा समंतात् अवकीर्यत ॥१-३७-१३॥
Vālmīki 1.37.14
समंततः तदा देवीम् अभ्यषिंचत पावकः ।सर्व स्रोतांसि पूर्णानि गंगाया रघुनन्दन ॥१-३७-१४॥
Vālmīki 1.37.15
तम् उवाच ततो गंगा सर्व देव पुरोगमम् ।अशक्ता धारणे देव तेजः तव समुद्धतम् ॥१-३७-१५॥
Vālmīki 1.37.16
दह्यमाना अग्निना तेन संप्रव्यथित चेतना ।अथ अब्रवीत् इदम् गंगाम् सर्व देव हुताशनः ॥१-३७-१६॥
Vālmīki 1.37.17
इह हैमवते पार्श्वे गर्भो अयम् संनिवेश्यताम् ।श्रुत्वा तु अग्नि वचो गंगा तम् गर्भम् अतिभास्वरम् ॥१-३७-१७॥
Vālmīki 1.37.18
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदा अनघ ।यत् अस्या निर्गतम् तस्मात् तप्त जांबूनद प्रभम् ॥१-३७-१८॥
Vālmīki 1.37.19
कांचनम् धरणीम् प्राप्तम् हिरण्यम् अतुल प्रभम् ।ताम्रम् कार्ष्णायसम् चैव तैक्ष्ण्यात् एव अभिजायत ॥१-३७-१९॥
Vālmīki 1.37.20
मलम् तस्य अभवत् तत्र त्रपु सीसकम् एव च ।तत् एतत् धरणीम् प्राप्य नाना धातुः अवर्धत ॥१-३७-२०॥
Vālmīki 1.37.21
निक्षिप्त मात्रे गर्भे तु तेजोभिः अभिरंजितम् ।सर्वम् पर्वत संनद्धम् सौवर्णम् अभवत् वनम् ॥१-३७-२१॥
Vālmīki 1.37.22
जातरूपम् इति ख्यातम् तदा प्रभृति राघव ।सुवर्णम् पुरुषव्याघ्र हुताशन सम प्रभम् ।तृण वृक्ष लता गुल्मम् सर्वम् भवति कांचनम् ॥१-३७-२२॥
Vālmīki 1.37.23
तम् कुमारम् ततो जातम् स इन्द्राः सह मरुद् गणाः ।क्षीर संभावन अर्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
Vālmīki 1.37.24
ताः क्षीरम् जात मात्रस्य कृत्वा समयम् उत्तमम् ।ददुः पुत्रो अयम् अस्माकम् सर्वासाम् इति निश्चिताः ॥१-३७-२४॥
Vālmīki 1.37.25
ततः तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।पुत्रः त्रैलोक्य विख्यातो भविष्यति न संशयः ॥१-३७-२५॥
Vālmīki 1.37.26
तेषाम् तत् वचनम् श्रुत्वा स्कन्नम् गर्भ परिस्रवे ।स्नापयन् परया लक्ष्म्या दीप्यमानम् यथा अनलम् ॥१-३७-२६॥
Vālmīki 1.37.27
स्कंद इति अब्रुवन् देवाः स्कन्नम् गर्भ परिस्रवात् ।कार्तिकेयम् महाबाहुम् काकुत्स्थ ज्वलन उपमम् ॥१-३७-२७॥
Vālmīki 1.37.28
प्रादुर्भूतम् ततः क्षीरम् कृत्तिकानाम् अनुत्तमम् ।षण्णाम् षड् आननो भूत्वा जग्राह स्तनजम् पयः ॥१-३७-२८॥
Vālmīki 1.37.29
गृहीत्वा क्षीरम् एक अह्ना सुकुमार वपुः तदा ।अजयत् स्वेन वीर्येण दैत्य सैन्य गणान् विभुः ॥१-३७-२९॥
Vālmīki 1.37.30
सुर सेना गण पतिम् अभ्यषिंचत् महाद्युतिम् ।ततः तम् अमराः सर्वे समेत्य अग्नि पुरोगमाः ॥१-३७-३०॥
Vālmīki 1.37.31
एष ते राम गंगाया विस्तरो अभिहितो मया ।कुमार संभवः चैव धन्यः पुण्यः तथैव च ॥१-३७-३१॥
Vālmīki 1.37.32
भक्तः च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।आयुष्मान् पुत्र पौत्रः च स्कन्द सालोक्यताम् व्रजते ॥१-३७-३२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷