🪷 बालकाण्ड · Sarga 36
Bāla-Kāṇḍa · The Book of Childhood · Sarga 36 · 26 ślokas
🪷 Devanāgarī Ślokas
उक्त वाक्ये मुनौ तस्मिन् उभौ राघव लक्ष्मणौ ।प्रतिनंद्य कथाम् वीरौ ऊचतुः मुनि पुंगवम् ॥१-३६-१॥
धर्म युक्तम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।दुहितुः शैल राजस्य ज्येष्ठाय वक्तुम् अर्हसि ।विस्तरम् विस्तरज्ञो असि दिव्य मानुष संभवम् ॥१-३६-२॥
त्रीन् पथो हेतुना केन पावयेत् लोक पावनी ।कथम् गङ्गा त्रिपथगा विश्रुता सरित् उत्तमा ॥१-३६-३॥
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।तथा ब्रुवति काकुत्स्थे विश्वामित्रः तपोधनः ॥१-३६-४॥
निखिलेन कथाम् सर्वाम् ऋषि मध्ये न्यवेदयत् ।पुरा राम कृत उद्वाहः शिति कण्ठो महा तपाः ॥१-३६-५॥
दृष्ट्वा च भगवान् देवीम् मैथुनाय उपचक्रमे ।तस्य संक्रीडमानस्य महादेवस्य धीमतः ।शितिकण्ठस्य देवस्य दिव्यम् वर्ष शतम् गतम् ॥१-३६-६॥
न च अपि तनयो राम तस्याम् आसीत् परंतप ।सर्वे देवाः समुद्युक्ताः पितामह पुरोगमाः ॥१-३६-७॥
यत् इह उत्पद्यते भूतम् कः तत् प्रतिसहिष्यति ।अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् ॥१-३६-८॥
देव देव महादेव लोकस्य अस्य हिते रत ।सुराणाम् प्रणिपातेन प्रसादम् कर्तुम् अर्हसि ॥१-३६-९॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।ब्राह्मेण तपसा युक्तो देव्या सह तपः चर ॥१-३६-१०॥
त्रैलोक्य हित काम अर्थम् तेजः तेजसि धारय ।रक्ष सर्वान् इमान् लोकान् न अलोकम् कर्तुम् अर्हसि ॥१-३६-११॥
देवतानाम् वचः श्रुत्वा सर्व लोक महेश्वरः ।बाढम् इति अब्रवीत् सर्वान् पुनः च इदम् उवाच ह ॥१-३६-१२॥
धारयिष्यामि अहम् तेजः तेजसि एव सह उमया ।त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु ॥१-३६-१३॥
यद् इदम् क्षुभितम् स्थानात् मम तेजो हि अनुत्तमम् ।धारयिष्यति कः तत् मे ब्रुवन्तु सुर सत्तमाः ॥१-३६-१४॥
एवम् उक्ताः ततो देवाः प्रत्यूचुर् वृषभ ध्वजम् ।यत् तेजः क्षुभितम् हि अद्य तद् धरा धारयिष्यति ॥१-३६-१५॥
एवम् उक्तः सुर पतिः प्रमुमोच महाबलः ।तेजसा पृथिवी येन व्याप्ता स गिरि कानना ॥१-३६-१६॥
ततो देवाः पुनर् इदम् ऊचुः च अपि हुताशनम् ।आविश त्वम् महातेजो रौद्रम् वायु समन्वितः ॥१-३६-१७॥
तद् अग्निना पुनर् व्याप्तम् संजातम् श्वेत पर्वतम् ।दिव्यम् शरवणम् चैव पावक आदित्य संनिभम् ॥१-३६-१८॥
यत्र जातो महातेजाः कार्तिकेयो अग्नि संभवः ।अथ उमाम् च शिवम् चैव देवाः स ऋषि गणाः तदा ॥१-३६-१९॥
पूजयामासुः अत्यर्थम् सुप्रीत मनसः ततः ।अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत्।समन्युः अशपत् सर्वान् क्रोध संरक्त लोचना ।यस्मात् निवारिता च अहम् संगता पुत्र काम्यया ॥१-३६-२०॥
अपत्यम् स्वेषु दारेषु न उत्पदयितुम् अर्हथ ।अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः ॥१-३६-२१॥
एवम् उक्त्वा सुरान् सर्वान् शशाप पृथिवीम् अपि ।अवने न एक रूपा त्वम् बहु भार्या भविष्यसि ॥१-३६-२२॥
न च पुत्र कृताम् प्रीतिम् मत् क्रोध कलुषीकृता ।प्राप्स्यसि त्वम् सुदुर्मेधे मम पुत्रम् अनिच्छती ॥१-३६-२३॥
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिः तदा ।गमनाय उपचक्राम दिशम् वरुण पालिताम् ॥१-३६-२४॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः ।हिमवत् प्रभवे शृंगे सह देव्या महेश्वरः ॥१-३६-२५॥
एष ते विस्तरो राम शैल पुत्र्या निवेदितः ।गन्गायाः प्रभवम् चैव शृणु मे सह लक्ष्मण ॥१-३६-२६॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 35
- Next: Bāla-Kāṇḍa Sarga 37 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷