🪷 बालकाण्ड · Sarga 35
Bāla-Kāṇḍa · The Book of Childhood · Sarga 35 · 24 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
उपास्य रात्रि शेषम् तु शोणा कूले महर्षिभिः ।निशायाम् सुप्रभातायाम् विश्वामित्रो अभ्यभाषत ॥१-३५-१॥
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।उत्तिष्ठ उत्तिष्ठ भद्रम् ते गमनाय अभिरोचय ॥१-३५-२॥
तत् श्रुत्वा वचनम् तस्य कृत्वा पौर्व आह्णिक क्रियः ।गमनम् रोचयामास वाक्यम् च इदम् उवाच ह ॥१-३५-३॥
अयम् शोणः शुभ जलो गाधः पुलिन मण्डितः ।कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥
एवम् उक्तः तु रामेण विश्वामित्रो अब्रवीत् इदम् ।एष पंथा मया उद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥
एवम् उक्त्वा महर्षयो विश्वमित्रेण धीमता ।पश्यन्तः ते प्रयाता वै वनानि विविधानि च ॥१-३५-६॥
ते गत्वा दूरम् अध्वानम् गते अर्ध दिवसे तदा ।जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुर् मुनि सेविताम् ॥१-३५-७॥
ताम् दृष्ट्वा पुण्य सलिलाम् हंस सारस सेविताम् ।बभूवुर् मुनयः सर्वे मुदिता सह राघवाः ॥१-३५-८॥
तस्याः तीरे ततः चक्रुः ते आवास परिग्रहम् ।ततः स्नात्वा यथा न्यायम् संतर्प्य पितृ देवताः ॥१-३५-९॥
हुत्वा चैव अग्निहोत्राणि प्राश्य च अमृतवत् हविः ।विविशुर् जाह्नवी तीरे शुभा मुदित मानसाः ॥१-३५-१०॥
विश्वामित्रम् महात्मानम् परिवार्य समंततः ।विष्टिताः च यथा न्यायम् राघवो च यथा अर्हम् ।संप्रहृष्ट मना रामो विश्वामित्रम् अथ अब्रवीत् ॥१-३५-११॥
भगवन् श्रोतुम् इच्छामि गङ्गाम् त्रि पथ गाम् नदीम् ।त्रैलोक्यम् कथम् आक्रम्य गता नद नदीपतिम् ॥१-३५-१२॥
चोदितो राम वाक्येन विश्वामित्रो महामुनिः ।वृद्धिम् जन्म च गंगाया वक्तुम् एव उपचक्रमे ॥१-३५-१३॥
शैलेन्द्रो हिमवान् राम धातूनाम् आकरो महान् ।तस्य कन्या द्वयम् राम रूपेण अप्रतिमम् भुवि ॥१-३५-१४॥
या मेरु दुहिता राम तयोर् माता सुमध्यमा ।नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥
तस्याम् गंग इयम् अभवत् ज्येष्ठा हिमवतः सुता ।उमा नाम द्वितीया अभूत् कन्या तस्य एव राघव ॥१-३५-१६॥
अथ ज्येष्ठाम् सुराः सर्वे देव कार्य चिकीर्षया ।शैलेन्द्रम् वरयामासुः गंगाम् त्रि पथ गाम् नदीम् ॥१-३५-१७॥
ददौ धर्मेण हिमवान् तनयाम् लोक पावनीम् ।स्वच्छंद पथ गाम् गंगाम् त्रैलोक्य हित काम्यया ॥१-३५-१८॥
प्रतिगृह्य त्रिलोक अर्थम् त्रिलोक हित कांक्षिणः ।गंगाम् आदाय ते अगच्छन् कृतार्थेन अंतरात्मना ॥१-३५-१९॥
या च अन्या शैल दुहिता कन्या आसीत् रघुनंदन ।उग्रम् सुव्रतम् आस्थाय तपः तेपे तपोधना ॥१-३५-२०॥
उग्रेण तपसा युक्ताम् ददौ शैलवरः सुताम् ।रुद्राय अप्रतिरूपाय उमाम् लोक नमस्कृताम् ॥१-३५-२१॥
एते ते शैल राजस्य सुते लोक नमस्कृते ।गंगा च सरिताम् श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥
एतत् ते सर्वम् आख्यातम् यथा त्रि पथ गामिनी ।खम् गता प्रथमम् तात गतिम् गतिमताम् वर ॥१-३५-२३॥
स एषा सुर नदी रम्या शैलेन्द्र तनया तदा ।सुर लोकम् समारूढा विपापा जल वाहिनी ॥१-३५-२४॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 34
- Next: Bāla-Kāṇḍa Sarga 36 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷