🪷 बालकाण्ड · Sarga 34

Bāla-Kāṇḍa · The Book of Childhood · Sarga 34 · 23 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.34local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.34.1
कृत उद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।अपुत्रः पुत्र लाभाय पौत्रीम् इष्टिम् अकल्पयत् ॥१-३४-१॥
Vālmīki 1.34.2
इष्ट्याम् तु वर्तमानायाम् कुशनाभम् महीपतिम् ।उवाच परमोदारः कुशो ब्रह्मसुतः तदा ॥१-३४-२॥
Vālmīki 1.34.3
पुत्रः ते सदृशः पुत्र भविष्यति सुधार्मिकः ।गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम् ॥१-३४-३॥
Vālmīki 1.34.4
एवम् उक्त्वा कुशो राम कुशनाभम् महीपतिम् ।जगाम आकाशम् आविश्य ब्रह्म लोकम् सनातनम् ॥१-३४-४॥
Vālmīki 1.34.5
कस्यचित् तु अथ कालस्य कुशनाभस्य धीमतः ।जज्ञे परम धर्मिष्ठो गाधिः इति एव नामतः ॥१-३४-५॥
Vālmīki 1.34.6
स पिता मम काकुत्स्थ गाधिः परम धार्मिकः ।कुश वंश प्रसूतो अस्मि कौशिको रघुनंदन ॥१-३४-६॥
Vālmīki 1.34.7
पूर्वजा भगिनी च अपि मम राघव सुव्रता ।नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
Vālmīki 1.34.8
सशरीरा गता स्वर्गम् भर्तारम् अनुवर्तिनी ।कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
Vālmīki 1.34.9
दिव्या पुण्य उदका रम्या हिमवंतम् उपाश्रिता ।लोकस्य हितकार्य अर्थम् प्रवृत्ता भगिनी मम ॥१-३४-९॥
Vālmīki 1.34.10
ततो अहम् हिमवत् पार्श्वे वसामि नियतः सुखम् ।भगिन्याम् स्नेह संयुक्तः कौशिक्या रघुनंदन ॥१-३४-१०॥
Vālmīki 1.34.11
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।पतिव्रता महाभागा कौशिकी सरिताम् वरा ॥१-३४-११॥
Vālmīki 1.34.12
अहम् हि नियमात् राम हित्वा ताम् समुपागतः ।सिद्ध आश्रमम् अनुप्राप्तः सिद्धो अस्मि तव तेजसा ॥१-३४-१२॥
Vālmīki 1.34.13
एषा राम मम उत्पत्तिः स्वस्य वंशस्य कीर्तिता ।देशस्य च महाबाहो यन् माम् त्वम् परिपृच्छसि ॥१-३४-१३॥
Vālmīki 1.34.14
गतो अर्ध रात्रः काकुत्स्थ कथाः कथयतो मम ।निद्राम् अभ्येहि भद्रम् ते मा भूत् विघ्नो अध्वनि इह नः ॥१-३४-१४॥
Vālmīki 1.34.15
निष्पन्दाः तरवः सर्वे निलीना मृग पक्षिणः ।नैशेन तमसा व्याप्ता दिशः च रघुनंदन ॥१-३४-१५॥
Vālmīki 1.34.16
शनैः विसृज्यते संध्या नभो नेत्रैः इव आवृतम् ।नक्षत्र तारा गहनम् ज्योतिर्भिः अवभासते ॥१-३४-१६॥
Vālmīki 1.34.17
उत्तिष्ठते च शीतांशुः शशी लोक तमो नुदः ।ह्लादयन् प्राणिनाम् लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
Vālmīki 1.34.18
नैशानि सर्व भूतानि प्रचरंति ततः ततः ।यक्ष राक्षस संघाः च रौद्राः च पिशित अशनाः ॥१-३४-१८॥
Vālmīki 1.34.19
एवम् उक्त्वा महातेजा विरराम महामुनिः ।साधु साधु इति ते सर्वे मुनयो हि अभ्यपूजयन् ॥१-३४-१९॥
Vālmīki 1.34.20
कुशिकनाम् अयम् वंशो महान् धर्मपरः सदा ।ब्रह्म उपमा महात्मनः कुशवंश्या नरोत्तम ॥१-३४-२०॥
Vālmīki 1.34.21
विशेषेण भवान् एव विश्वामित्र महायशः ।कौशिकी सरिताम् श्रेष्ठः कुल उद्योतकरी तव ॥१-३४-२१॥
Vālmīki 1.34.22
मुदितैः मुनि शार्दूलैः प्रशस्तः कुशिक आत्मजः ।निद्राम् उपागमत् श्रीमान् अस्तम् गत इव अंशुमान् ॥१-३४-२२॥
Vālmīki 1.34.23
रामो अपि सह सौमित्रिः किंचित् आगत विस्मयः ।प्रशस्य मुनि शार्दूलम् निद्राम् समुपसेवते ॥१-३४-२३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷