🪷 बालकाण्ड · Sarga 33

Bāla-Kāṇḍa · The Book of Childhood · Sarga 33 · 26 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.33.1
तस्य तद् वचनम् श्रुत्वा कुशनाभस्य धीमतः ।शिरोभिः चरणौ स्पृष्ट्वा कन्या शतम् अभाषत ॥१-३३-१॥
Vālmīki 1.33.2
वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति ।अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते ॥१-३३-२॥
Vālmīki 1.33.3
पितृमत्यः स्म भद्रम् ते स्वच्छन्दे न वयम् स्थिताः ।पितरम् नो वृणीष्व त्वम् यदि नो दास्यते तव ॥१-३३-३॥
Vālmīki 1.33.4
तेन पाप अनुबन्धेन वचनम् न प्रतीच्छता ।एवम् ब्रुवंत्यः सर्वाः स्म वायुना अभिहता भृषम् ॥१-३३-४॥
Vālmīki 1.33.5
तासाम् तु वचनम् श्रुत्वा राजा परम धार्मिकः ।प्रत्युवाच महातेजाः कन्या शतम् अनुत्तमम् ॥१-३३-५॥
Vālmīki 1.33.6
क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सुमहत् कृतम् ।ऐकमत्यम् उपागम्य कुलम् च आवेक्षितम् मम ॥१-३३-६॥
Vālmīki 1.33.7
अलंकारो हि नारीणाम् क्षमा तु पुरुषस्य वा ।दुष्करम् तत् च वै क्षान्तम् त्रिदशेषु विशेषतः ॥१-३३-७॥
Vālmīki 1.33.8
यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः ।क्षमा दानम् क्षमा सत्यम् क्षमा यज्ञः च पुत्रिकाः ॥१-३३-८॥
Vālmīki 1.33.9
क्षमा यशः क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् ।विसृज्य कन्याः काकुत्स्थ राजा त्रिदश विक्रमः ॥१-३३-९॥
Vālmīki 1.33.10
मंत्रज्ञो मंत्रयामास प्रदानम् सह मंत्रिभिः ।देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् ॥१-३३-१०॥
Vālmīki 1.33.11
एतस्मिन् एव काले तु चूली नाम महाद्युतिः ।ऊर्ध्व रेताः शुभाचारो ब्राह्मम् तप उपागमत् ॥१-३३-११॥
Vālmīki 1.33.12
तपस्यंतम् ऋषिम् तत्र गंधर्वी पर्युपासते ।सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा ॥१-३३-१२॥
Vālmīki 1.33.13
सा च तम् प्रणता भूत्वा शुश्रूषण परायणा ।उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत् गुरुः ॥१-३३-१३॥
Vālmīki 1.33.14
स च ताम् काल योगेन प्रोवाच रघु नंदन ।परितुष्टो अस्मि भद्रम् ते किम् करोमि तव प्रियम् ॥१-३३-१४॥
Vālmīki 1.33.15
परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर स्वरम् ।उवाच परम प्रीता वाक्यज्ञा वाक्य कोविदम् ॥१-३३-१५॥
Vālmīki 1.33.16
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्म भूतो महातपाः ।ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् ॥१-३३-१६॥
Vālmīki 1.33.17
अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचित् ।ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् ॥१-३३-१७॥
Vālmīki 1.33.18
तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ ब्राह्मम् अनुत्तमम् ।ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम् ॥१-३३-१८॥
Vālmīki 1.33.19
स राजा ब्रह्मदत्तः तु पुरीम् अध्यवसत् तदा ।कांपिल्याम् परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥
Vālmīki 1.33.20
स बुद्धिम् कृतवान् राजा कुशनाभः सुधार्मिकः ।ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या शतम् तदा ॥१-३३-२०॥
Vālmīki 1.33.21
तम् आहूय महातेजा ब्रह्मदत्तम् महीपतिः ।ददौ कन्या शतम् राजा सुप्रीतेन अंतरात्मना ॥१-३३-२१॥
Vālmīki 1.33.22
यथा क्रमम् ततः पाणिम् जग्राह रघुनंदन ।ब्रह्मदत्तो महीपालः तासाम् देवपतिर् यथा ॥१-३३-२२॥
Vālmīki 1.33.23
स्पृष्ट मात्रे ततः पाणौ विकुब्जा विगत ज्वराः ।युक्ताः परमया लक्ष्म्या बभौ कन्या शतम् तदा ॥१-३३-२३॥
Vālmīki 1.33.24
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।बभूव परम प्रीतो हर्षम् लेभे पुनः पुनः ॥१-३३-२४॥
Vālmīki 1.33.25
कृत उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिः ।सदारम् प्रेषयामास स उपाध्याय गणम् तदा ॥१-३३-२५॥
Vālmīki 1.33.26
सोमदा अपि सुतम् दृष्ट्वा पुत्रस्य सदृशीम् क्रियाम् ।यथा न्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनंदत ।स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च ॥१-३३-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷