🪷 बालकाण्ड · Sarga 32
Bāla-Kāṇḍa · The Book of Childhood · Sarga 32 · 26 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ब्रह्म योनिर् महान् आसीत् कुशो नाम महातपाः ।अक्लिष्ट व्रत धर्मज्ञः सज्जन प्रति पूजकः ॥१-३२-१॥
स महात्मा कुलीनायाम् युक्तायाम् सुमहाबलान् ।वैदर्भ्याम् जनयाम् आस चतुरः सदृशान् सुतान् ॥१-३२-२॥
कुशाम्बम् कुशनाभम् च आसूर्तरजसम् वसुम् ।दीप्ति युक्तान् महोत्साहान् क्षत्रधर्म चिकीर्षया ॥१-३२-३॥
तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।क्रियताम् पालनम् पुत्रा धर्म प्राप्यथ पुष्कलम् ॥१-३२-४॥
कुशस्य वचनम् श्रुत्वा चत्वारो लोक सत्तमाः ।निवेशम् चक्रिरे सर्वे पुराणाम् नृ वराः तदा ॥१-३२-५॥
कुशाम्बः तु महातेजाः कौशांबीम् अकरोत् पुरीम् ।कुशनाभः तु धर्मात्मा पुरम् चक्रे महोदयम् ॥१-३२-६॥
असूर्तरजसो राम धर्मारण्यम् महामतिः ।चक्रे पुरवरम् राजा वसुर् नाम गिरिव्रजम् ॥१-३२-७॥
एषा वसुमती नाम वसोः तस्य महात्मनः ।एते शैलवराः पंच प्रकाशन्ते समंततः ॥१-३२-८॥
सुमागधी नदी रम्या मागधान् विश्रुता आययौ ।पंचानाम् शैल मुख्यानाम् मध्ये माला इव शोभते ॥१-३२-९॥
सा एषा हि मागधी राम वसोः तस्य महात्मनः ।पूर्व अभिचरिता राम सुक्षेत्रा सस्य मालिनी ॥१-३२-१०॥
कुशनाभः तु राजर्षिः कन्या शतम् अनुत्तमम् ।जनयामास धर्मात्मा घृताच्याम् रघु नंदन ॥१-३२-११॥
ताः तु यौवन शालिन्यो रूपवत्यः स्वलंकृताः ।उद्यान भूमिम् आगम्य प्रावृषि इव शतह्रदाः ॥१-३२-१२॥
गायंत्यो नृत्यमानाः च वादयंत्यः च राघव ।आमोदम् परमम् जग्मुर् वर आभरण भूषिताः ॥१-३२-१३॥
अथ ताः चारु सर्व अंग्यो रूपेण अप्रतिमा भुवि ।उद्यान भूमिम् आगम्य तारा इव घन अन्तरे ॥१-३२-१४॥
ताः सर्वगुण संपन्ना रूप यौवन संयुताः ।दृष्ट्वा सर्वात्मको वायुर् इदम् वचनम् अब्रवीत् ॥१-३२-१५॥
अहम् वः कामये सर्वा भार्या मम भविष्यथ ।मानुषः त्यज्यताम् भावो दीर्घम् आयुर् अवाप्स्यथ ॥१-३२-१६॥
चलम् हि यौवनम् नित्यम् मानुषेषु विशेषतः ।अक्षयम् यौवनम् प्राप्ता अमर्यः च भविष्य्थ ॥१-३२-१७॥
तस्य तद् वचनम् श्रुत्वा वायोः अक्लिष्ट कर्मणः ।अपहास्य ततो वाक्यम् कन्या शतम् अथ अब्रवीत् ॥१-३२-१८॥
अन्तः चरसि भूतानाम् सर्वेषाम् त्वम् सुर सत्तम ।प्रभावज्ञाः च ते सर्वाः किम् अर्थम् अवमन्यसे ॥१-३२-१९॥
कुशनाभ सुताः देवम् समस्ता सुर सत्तम ।स्थानात् च्यावयितुम् देवम् रक्षामः तु तपो वयम् ॥१-३२-२०॥
मा भूत् स कालो दुर्मेधः पितरम् सत्य वादिनम् ।अवमन्यस्व स्व धर्मेण स्वयम् वरम् उपास्महे ॥१-३२-२१॥
पिता हि प्रभुर् अस्माकम् दैवतम् परमम् च सः ।यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥
तासाम् तु वचनम् श्रुत्वा हरिः परम कोपनः ।प्रविश्य सर्व गात्राणि बभंज भगवान् प्रभुः ॥१-३२-२३॥
ताः कन्या वायुना भग्ना विविशुर् नृपतेः गृहम् ।प्रविश्य च सुसंभ्रान्ताः स लज्जाः स अस्र लोचन ॥१-३२-२४॥
स च ता दयिता भग्नाः कन्याः परम शोभनाः ।दृष्ट्वा दीनाः तदा राजा संभ्रांत इदम् अब्रवीत् ॥१-३२-२५॥
किम् इदम् कथ्यताम् पुत्र्यः को धर्मम् अवमन्यते ।कुब्जाः केन कृताः सर्वाः चेष्टन्त्यो न अभिभाषथ ।एवम् राजा विनिःश्वस्य समाधिम् संदधे ततः ॥१-३२-२६॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 31
- Next: Bāla-Kāṇḍa Sarga 33 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷