🪷 बालकाण्ड · Sarga 31

Bāla-Kāṇḍa · The Book of Childhood · Sarga 31 · 24 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.31local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.31.1
अथ ताम् रजनीम् तत्र कृतार्थौ राम लक्षणौ ।ऊषतुर् मुदितौ वीरौ प्रहृष्टेन अंतरात्मना ॥१-३१-१॥
Vālmīki 1.31.2
प्रभातायाम् तु शर्वर्याम् कृत पौर्व अह्णिक क्रियौ ।विश्वामित्रम् ऋषीम् च अन्यान् सहितौ अभिजग्मतुः ॥१-३१-२॥
Vālmīki 1.31.3
अभिवाद्य मुनि श्रेष्ठम् ज्वलंतम् इव पावकम् ।ऊचतुर् परमोदारम् वाक्यम् मधुर भाषिणौ ॥१-३१-३॥
Vālmīki 1.31.4
इमौ स्म मुनि शार्दूल किंकरौ समुपस्थितौ ।आज्ञापय मुनिश्रेष्ठ शासनम् करवाव किम् ॥१-३१-४॥
Vālmīki 1.31.5
एवम् उक्ते तयोः वाक्यम् सर्व एव महर्षयः ।विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन् ॥१-३१-५॥
Vālmīki 1.31.6
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।यज्नः परम धर्मिष्ठः तत्र यास्यामहे वयम् ॥१-३१-६॥
Vālmīki 1.31.7
त्वम् चैव नरशार्दूल सह अस्माभिर् गमिष्यसि ।अद्भुतम् च धनू रत्नम् तत्र त्वम् द्रष्टुम् अर्हसि ॥१-३१-७॥
Vālmīki 1.31.8
तद्धि पूर्वम् नरश्रेष्ठ दत्तम् सदसि दैवतैः ।अप्रमेय बलम् घोरम् मखे परम भास्वरम् ॥१-३१-८॥
Vālmīki 1.31.9
न अस्य देवा न गंधर्वा न असुरा न च राक्षसाः ।कर्तुम् आरोपणम् शक्ता न कथंचन मानुषाः ॥१-३१-९॥
Vālmīki 1.31.10
धनुषस्य तस्य वीर्यम् हि जिज्ञासन्तो महीक्षितः ।न शेकुर् आरोपयितुम् राजपुत्रा महाबलाः ॥१-३१-१०॥
Vālmīki 1.31.11
तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः ।तत्र द्रक्ष्यसि काकुत्स्थ यज्ञम् च परम अद्भुतम् ॥१-३१-११॥
Vālmīki 1.31.12
तद्धि यज्ञ फलम् तेन मैथिलेन उत्तमम् धनुः ।याचितम् नर शार्दूल सुनाभम् सर्व दैवतैः ॥१-३१-१२॥
Vālmīki 1.31.13
आयागभूतम् नृपतेः तस्य वेश्मनि राघव ।अर्चितम् विविधैः गन्धैः धूपैः च अगुरु गंध्भिः ॥१-३१-१३॥
Vālmīki 1.31.14
एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा ।स ऋषि संघः स काकुत्स्थ आमंत्र्य वन देवताः ॥१-३१-१४॥
Vālmīki 1.31.15
स्वस्ति वो अस्तु गमिष्यामि सिद्धः सिद्ध आश्रमात् अहम् ।उत्तरे जाह्नवी तीरे हिमवंतम् शिलोच्चयम् ॥१-३१-१५॥
Vālmīki 1.31.16
इति उक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।उत्तराम् दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे ॥१-३१-१६॥
Vālmīki 1.31.17
तम् व्रजंतम् मुनिवरम् अन्वगात् अनुसारिणाम् ।शकटी शत मात्रम् तु प्रयाणे ब्रह्म वादिनाम् ॥१-३१-१७॥
Vālmīki 1.31.18
मृग पक्षि गणाः चैव सिद्ध आश्रम निवासिनः ।अनुजग्मुर् महात्मानम् विश्वामित्रम् तपोधनम् ॥१-३१-१८॥
Vālmīki 1.31.19
निवर्तयामास ततः स ऋसि सन्घः स पक्षिणः ।ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥
Vālmīki 1.31.20
वासम् चक्रुर् मुनि गणाः शोणा कूले समाहिताः ।ते अस्तम् गते दिनकरे स्नात्वा हुत हुताशनाः ॥१-३१-२०॥
Vālmīki 1.31.21
विश्वामित्रम् पुरस्कृत्य निषेदुर् अमित ओजसः ।रामो अपि सह सौमित्रिः मुनीम् तान् अभिपूज्य च ॥१-३१-२१॥
Vālmīki 1.31.22
अग्रतो निषसाद अथ विश्वामित्रस्य धीमतः ।अथ रामो महातेजा विश्वामित्रम् तपोधनम् ॥१-३१-२२॥
Vālmīki 1.31.23
पप्रच्छ मुनिशार्दूलम् कौतूहल समन्वितः ।भगवन् कः नु अयम् देशः समृद्ध वन शोभितः ॥१-३१-२३॥
Vālmīki 1.31.24
श्रोतुम् इच्छामि भद्रम् ते वक्तुम् अर्हसि तत्त्वतः ।चोदितो राम वाक्येन कथयामास सुव्रतः ।तस्य देशस्य निखिलम् ऋषि मध्ये महातपाः ॥१-३१-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷