🪷 बालकाण्ड · Sarga 30

Bāla-Kāṇḍa · The Book of Childhood · Sarga 30 · 26 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.30.1
अथ तौ देश कालज्ञौ राजपुत्रौ अरिंदमौ ।देशे काले च वाक्यज्ञौ अब्रूताम् कौशिकम् वचः ॥१-३०-१॥
Vālmīki 1.30.2
भगवन् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ ।संरक्षणीयौ तौ ब्रूहि न अतिवर्तेत तत् क्षणम् ॥१-३०-२॥
Vālmīki 1.30.3
एवम् ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ ॥१-३०-३॥
Vālmīki 1.30.4
अद्य प्रभृति षट् रात्रम् रक्षतम् राघवौ युवाम् ।दीक्षाम् गतो हि येष मुनिर् मौनित्वम् च गमिष्यति ॥१-३०-४॥
Vālmīki 1.30.5
तौ तु तद् वचनम् श्रुत्वा राजपुत्रौ यशस्विनौ ।अनिद्रौ षट् अहोरात्रम् तपोवनम् अरक्षताम् ॥१-३०-५॥
Vālmīki 1.30.6
उपासाम् चक्रतुर् वीरौ यत्तौ परम धन्विनौ ।ररक्षतुर् मुनिवरम् विश्वामित्रम् अरिंदमौ ॥१-३०-६॥
Vālmīki 1.30.7
अथ काले गते तस्मिन् षष्ठे अहनि तदा आगते ।सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥
Vālmīki 1.30.8
रामस्य एवम् ब्रुवाणस्य त्वरितस्य युयुत्सया ।प्रजज्वाल ततो वेदिः स उपाध्याय पुरोहिता ॥१-३०-८॥
Vālmīki 1.30.9
स दर्भ चमस स्रुक्का स समित् कुसुमोच्चया ।विश्वामित्रेण सहिता वेदिः जज्वाल स ऋत्विजा ॥१-३०-९॥
Vālmīki 1.30.10
मंत्रवत् च यथा न्यायम् यज्ञो असौ संप्रवर्तते ।आकाशे च महान् शब्दः प्रादुर् आसीत् भयानकः ॥१-३०-१०॥
Vālmīki 1.30.11
आवार्य गगनम् मेघो यथा प्रावृषि दृश्यते ।तथा मायाम् विकुर्वाणौ राक्षसौ अभ्यधावताम् ॥१-३०-११॥
Vālmīki 1.30.12
मारीचः च सुबाहुः च तयोर् अनुचराः तथा ।आगम्य भीम संकाशा रुधिर ओघान् अवासृजन् ॥१-३०-१२॥
Vālmīki 1.30.13
ताम् तेन रुधिर ओघेण वेदीम् वीक्ष्य समुक्षिताम् ।सहसा अभिद्रुतो रामः तान् अपश्यत् ततो दिवि ॥१-३०-१३॥
Vālmīki 1.30.14
तौ आपतन्तौ सहसा दृष्ट्वा राजीव लोचनः ।लक्ष्मणम् तौ अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत् ॥१-३०-१४॥
Vālmīki 1.30.15
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशित अशनान् ।मानवास्त्र समाधूतान् अनिलेन यथा घनान् ॥१-३०-१५॥
Vālmīki 1.30.16
करिष्यामि न संदेहो न उत्सहे हन्तुम् ईदृशान् ।इति उक्त्वा वचनम् रामः चापे संधाय वेगवान् ॥१-३०-१६॥
Vālmīki 1.30.17
मानवम् परम उदारम् अस्त्रम् परम भास्वरम् ।चिक्षेप परम क्रुद्धो मारीच उरसि राघवः ॥१-३०-१७॥
Vālmīki 1.30.18
स तेन परमास्त्रेण मानवेन समाहितः ।संपूर्णम् योजन शतम् क्षिप्तः सागर संप्लवे ॥१-३०-१८॥
Vālmīki 1.30.19
विचेतनम् विघूर्णन्तम् शीतेषु बल पीडितम् ।निरस्तम् दृश्य मारीचम् रामो लक्ष्मणम् अब्रवीत् ॥१-३०-१९॥
Vālmīki 1.30.20
पश्य लक्ष्मण शीतेषुम् मानवम् मनु संहितम् ।मोहयित्वा नयति एनम् न च प्राणैर् व्ययुज्यत ॥१-३०-२०॥
Vālmīki 1.30.21
इमान् अपि वधिष्यामि निर्घृणान् दुष्ट चारिणः ।राक्षसान् पाप कर्मस्थान् यज्ञ घ्नान् रुधिर अशनान् ॥१-३०-२१॥
Vālmīki 1.30.22
इति उक्त्वा लक्ष्मणम् च अशु लाघवम् दर्शयन् इव ।संगृह्य सुमहत् च अस्त्रम् आग्नेयम् रघुनंदनः ।सुबाहु उरसि चिक्षेप स विद्धः प्रापतत् भुवि ॥१-३०-२२॥
Vālmīki 1.30.23
शेषान् वायव्यम् आदाय निजघान महायशाः ।राघवः परमोदारो मुनीनाम् मुदम् आवहन् ॥१-३०-२३॥
Vālmīki 1.30.24
स हत्वा राक्षसान् सर्वान् यज्ञ घ्नान् रघुनंदनः ।ऋषिभिः पूजितः तत्र यथा इन्द्रो विजये पुरा ॥१-३०-२४॥
Vālmīki 1.30.25
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् ॥१-३०-२५॥
Vālmīki 1.30.26
कृतार्थो अस्मि महाबाहो कृतम् गुरु वचः त्वया ।सिद्धाश्रमम् इदम् सत्यम् कृतम् वीर महायशः ।स हि रामम् प्रशस्य एवम् ताभ्याम् संध्याम् उपागमत् ॥१-३०-२६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷