🪷 बालकाण्ड · Sarga 29

Bāla-Kāṇḍa · The Book of Childhood · Sarga 29 · 32 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.29.1
अथ तस्य अप्रमेयस्य वचनम् परिपृच्छतः ।विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे ॥१-२९-१॥
Vālmīki 1.29.2
इह राम महाबाहो विष्णुर् देव नमस्कृत ।वर्षाणि सुबहूनि इह तथा युग शतानि च ॥१-२९-२॥
Vālmīki 1.29.3
तपः चरण योगार्थम् उवास सु महातपाः ।एष पूर्व आश्रमो राम वामनस्य महात्मनः ॥१-२९-३॥
Vālmīki 1.29.4
सिद्ध आश्रम इति ख्यातः सिद्धो हि अत्र महातपाः ।एतस्मिन् एव काले तु राजा वैरोचनिर् बलिः ॥१-२९-४॥
Vālmīki 1.29.5
निर्जित्य दैवत गणान् स इन्द्रान् स मरुद् गणान् ।कारयामास तद् राज्यम् त्रिषु लोकेषु विश्रुतः ॥१-२९-५॥
Vālmīki 1.29.6
यज्ञम् चकार सुमहान् असुरेन्द्रो महाबलः ।बलेः तु यजमानस्य देवाः साग्नि पुरोगमाः ।समागम्य स्वयम् चैव विष्णुम् ऊचुः इह आश्रमे ॥१-२९-६॥
Vālmīki 1.29.7
बलिः वैरोचनिः विष्णो यजते यज्ञम् उत्तमम् ।असमाप्त व्रते तस्मिन् स्व कार्यम् अभिपद्यताम् ॥१-२९-७॥
Vālmīki 1.29.8
ये च एनम् अभिवर्तन्ते याचितार इतः ततः ।यत् च यत्र यथावत् च सर्वम् तेभ्यः प्रयच्छति ॥१-२९-८॥
Vālmīki 1.29.9
स त्वम् सुर हितार्थाय माया योगम् उपाश्रितः ।वामनत्वम् गतो विष्णो कुरु कल्याणम् उत्तमम् ॥१-२९-९॥
Vālmīki 1.29.10
एतस्मिन् अनन्तरे राम काश्यपो अग्नि सम प्रभः ।अदित्या सहितः राम दीप्यमान इव ओजसा ॥१-२९-१०॥
Vālmīki 1.29.11
देवी सहायो भगवन् दिव्यम् वर्ष सहस्रकम् ।व्रतम् समाप्य वरदम् तुष्टाव मधुसूदनम् ॥१-२९-११॥
Vālmīki 1.29.12
तपोमयम् तपोराशिम् तपोमूर्तिम् तपात्मकम् ।तपसा त्वाम् सुतप्तेन पश्यामि पुरोषोत्तमम् ॥१-२९-१२॥
Vālmīki 1.29.13
शरीरे तव पश्यामि जगत् सर्वम् इदम् प्रभो ।त्वम् अनादिः अनिर्देश्यः त्वाम् अहम् शरणम् गतः ॥१-२९-१३॥
Vālmīki 1.29.14
तम् उवाच हरिः प्रीतः कश्यपम् धूत कल्मषम् ।वरम् वरय भद्रम् ते वर अर्हः असि मतो मम ॥१-२९-१४॥
Vālmīki 1.29.15
तत् श्रुत्वा वचनम् तस्य मारीचः कश्यपो अब्रवीत् ।अदित्या देवतानाम् च मम च एव अनुयाचितम् ॥१-२९-१५॥
Vālmīki 1.29.16
वरम् वरद सुप्रीतो दातुम् अर्हसि सुव्रत ।पुत्रत्वम् गच्छ भगवन् अदित्या मम च अनघ ॥१-२९-१६॥
Vālmīki 1.29.17
भ्राता भव यवीयान् त्वम् शक्रस्य असुरसूदन ।शोक आर्तानाम् तु देवानाम् साहाय्यम् कर्तुम् अर्हसि ॥१-२९-१७॥
Vālmīki 1.29.18
अयम् सिद्ध आश्रमो नाम प्रसादात् ते भविष्यति ।सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन् इतः ॥१-२९-१८॥
Vālmīki 1.29.19
अथ विष्णुर् महातेजाअ आदित्याम् समजायत ।वामनम् रूपम् आस्थाय वैरोचनिम् उपागमत् ॥१-२९-१९॥
Vālmīki 1.29.20
त्रीन् पादान् अथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् ।आक्रम्य लोकान् लोकार्थो सर्व लोक हिते रतः ॥१-२९-२०॥
Vālmīki 1.29.21
महेन्द्राय पुनः प्रादात् नियम्य बलिम् ओजसा ।त्रैलोक्यम् स महातेजाः चक्रे शक्र वशम् पुनः ॥१-२९-२१॥
Vālmīki 1.29.22
तेन एव पूर्वम् आक्रान्त आश्रमः श्रम नाशनः ।मया अपि भक्त्या तस्य एव वामनस्य उपभुज्यते ॥१-२९-२२॥
Vālmīki 1.29.23
एनम् आश्रमम् आयान्ति राक्षसा विघ्न कारिणः ।अत्र ते पुरुषव्याघ्र हन्तव्या दुष्ट चारिणः ॥१-२९-२३॥
Vālmīki 1.29.24
अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् ।तत् आश्रम पदम् तात तव अपि एतद् यथा मम ॥१-२९-२४॥
Vālmīki 1.29.25
इति उक्त्वा परम प्रीतो गृह्य रामम् स लक्ष्मणम् ।प्रविशन् आश्रम पदम् व्यरोचत महामुनिः ।शशी इव गत नीहारः पुनर्वसु समन्वितः ॥१-२९-२५॥
Vālmīki 1.29.26
तम् दृष्ट्वा मुनयः सर्वे सिद्धाश्रम निवासिनः ।उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन् ॥१-२९-२६॥
Vālmīki 1.29.27
यथा अर्हम् चक्रिरे पूजाम् विश्वामित्राय धीमते ।तथैव राज पुत्राभ्याम् अकुर्वन् अतिथि क्रियाम् ॥१-२९-२७॥
Vālmīki 1.29.28
मुहूर्तम् अथ विश्रान्तौ राज पुत्रौ अरिन्दमौ ।प्रांजली मुनि शार्दूलम् ऊचतू रघुनंदनौ ॥१-२९-२८॥
Vālmīki 1.29.29
अद्य एव दीक्षाम् प्रविश भद्रम् ते मुनिपुंगव ।सिद्धाश्रमो अयम् सिद्धः स्यात् सत्यम् अस्तु वचः तव ॥१-२९-२९॥
Vālmīki 1.29.30
एवम् उक्तो महातेजा विश्वामित्रो महानृषिः ।प्रविवेश तदा दीक्षाम् नियतो नियतेन्द्रियः ॥१-२९-३०॥
Vālmīki 1.29.31
कुमारौ एव ताम् रात्रिम् उषित्वा सुसमाहितौ ।प्रभात काले च उत्थाय पूर्वाम् संध्याम् उपास्य च ॥१-२९-३१॥
Vālmīki 1.29.32
प्रशुची परम् जाप्यम् समाप्य नियमेन च ।हुत अग्निहोत्रम् आसीनम् विश्वमित्रम् अवन्दताम् ॥१-२९-३२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷