🪷 बालकाण्ड · Sarga 28

Bāla-Kāṇḍa · The Book of Childhood · Sarga 28 · 22 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.28.1
प्रतिगृह्य ततः अस्त्राणि प्रहृष्ट वदनः शुचिः ।गच्छन् एव च काकुत्स्थो विश्वामित्रम् अथ अब्रवीत् ॥१-२८-१॥
Vālmīki 1.28.2
गृहीत अस्त्रो अस्मि भगवन् दुराधर्षः सुरैः अपि ।अस्त्राणाम् तु अहम् इच्छामि संहारम् मुनिपुंगव ॥१-२८-२॥
Vālmīki 1.28.3
एवम् ब्रुवति काकुत्स्थे विश्वामित्रो महा तपाः ।संहारान् व्याजहार अथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥
Vālmīki 1.28.4
सत्यवन्तम् सत्य कीर्तिम् धृष्टम् रभसम् एव च ।प्रतिहारतरम् नाम पराङ्मुखम् अवाङ्मुखम् ॥१-२८-४॥
Vālmīki 1.28.5
लक्ष्या अलक्ष्याः इमौ चैव दृढ नाभ सुनाभकौ ।दशाक्ष शतवक्त्रौ च दश शीर्ष शत उदरौ ॥१-२८-५॥
Vālmīki 1.28.6
पद्मनाभ महानाभौ दुन्दुनाभ स्वनाभकौ ।ज्योतिषम् शकुनम् चैव नैराश्य विमलौ उभौ ॥१-२८-६॥
Vālmīki 1.28.7
यौगंधर विनिद्रौ च दैत्य प्रमधनौ तथा ।शुचि बाहुर् महाबाहुर् निष्कलि विरुचर् तथासार्चिर्माली धृतिमाली वृत्तिमान् रुचिरः तथा ॥१-२८-७॥
Vālmīki 1.28.8
पित्र्यः सौमनसः चैव विधूत मकरौ उभौ ।परवीरम् रतिम् चैव धन धान्यौ च राघव ॥१-२८-८॥
Vālmīki 1.28.9
कामरूपम् कामरुचिम् मोहम् आवरणम् तथा ।जृंभकम् सर्पनाथम् च पन्थान वरणौ तथा ॥१-२८-९॥
Vālmīki 1.28.10
कृशाश्व तनयान् राम भास्वरान् काम रूपिणः ।प्रतीच्छ मम भद्रम् ते पात्र भूतोऽसि राघव ॥१-२८-१०॥
Vālmīki 1.28.11
बाढम् इति एव काकुत्स्थ प्रहृष्टेन अंतरात्मना ।दिव्य भास्वर देहाः च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥
Vālmīki 1.28.12
केचिद् अंगार सदृशाः केचिद् धूम उपमाः तथा ।चन्द्र अर्क सदृशाः केचित् प्रह्व अंजलि पुटाः तथा ॥१-२८-१२॥
Vālmīki 1.28.13
रामम् प्रांजलयो भूत्वा अब्रुवन् मधुर भाषिणः ।इमे स्म नरशार्दूल शाधि किम् करवाम ते ॥१-२८-१३॥
Vālmīki 1.28.14
गम्यताम् इति तान् आह यथा इष्टम् रघुनन्दनः ।मानसाः कार्य कालेषु साहाय्यम् मे करिष्यथ ॥१-२८-१४॥
Vālmīki 1.28.15
अथ ते रामम् आमन्त्र्य कृत्वा च अपि प्रदक्षिणम् ।एवम् अस्तु इति काकुत्स्थम् उक्त्वा जग्मुः यथाआगतम् ॥१-२८-१५॥
Vālmīki 1.28.16
स च तान् राघवो ज्ञात्वा विश्वामित्रम् महामुनिम् ।गच्छन् एव अथ मधुरम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-२८-१६॥
Vālmīki 1.28.17
किम् एतन् मेघ संकाशम् पर्वतस्य अविदूरतः ।वृक्ष खण्डम् इतः भाति परम् कौतूहलम् हि मे ॥१-२८-१७॥
Vālmīki 1.28.18
दर्शनीयम् मृगाअकीर्णम् मनोहरम् अतीव च ।नाना प्रकारैः शकुनैः वल्गुभाषैः अलंकृतम् ॥१-२८-१८॥
Vālmīki 1.28.19
निःसृताः स्म मुनिश्रेष्ठ कान्तारात् रोमहर्षणात् ।अनया तु अवगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥
Vālmīki 1.28.20
सर्वम् मे शंस भगवन् कस्य आश्रम पदम् तु इदम् ।संप्राप्ताः यत्र ते पापाः ब्रह्मघ्नाः दुष्ट चारिणः ॥१-२८-२०॥
Vālmīki 1.28.21
तव यज्ञस्य विघ्नाय दुरात्मनो महामुनेः ।भगवन् तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥
Vālmīki 1.28.22
रक्षितव्या क्रिया ब्रह्मन् मया वध्याः च राक्षसाः ।एतत् सर्वम् मुनिश्रेष्टः श्रोतुम् इच्छामि अहम् प्रभो ॥१-२८-२२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷