🪷 बालकाण्ड · Sarga 27

Bāla-Kāṇḍa · The Book of Childhood · Sarga 27 · 28 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.27local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.27.1
अथ ताम् रजनीम् उष्य विश्वामिरो महायशाः ।प्रहस्य राघवम् वाक्यम् उवाच मधुर स्वरम् ॥१-२७-१॥
Vālmīki 1.27.2
परितुष्टो अस्मि भद्रम् ते राजपुत्र महायशः ।प्रीत्या परमया युक्तो ददामि अस्त्राणि सर्वशः ॥१-२७-२॥
Vālmīki 1.27.3
देव असुर गणान् वा अपि स गन्धर्व उरगान् भुवि ।यैः अमित्रान् प्रसह्य आजौ वशीकृत्य जयिष्यसि ॥१-२७-३॥
Vālmīki 1.27.4
तानि दिव्यानि भद्रम् ते ददामि अस्त्राणि सर्वशः ।दण्ड चक्रम् महत् दिव्यम् तव दास्यामि राघव ॥१-२७-४॥
Vālmīki 1.27.5
धर्म चक्रम् ततो वीर काल चक्रम् तथैव च ।विष्णु चक्रम् तथा अति उग्रम् ऐन्द्रम् चक्रम् तथैव च ॥१-२७-५॥
Vālmīki 1.27.6
वज्रम् अस्त्रम् नरश्रेष्ठ शैवम् शूलवरम् तथा ।अस्त्रम् ब्रह्मशिरः च एव ऐषीकम् अपि राघव ॥१-२७-६॥
Vālmīki 1.27.7
ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम् ।गदे द्वे चैव काकुत्स्थ मोदकी शिखरी शुभे ॥१-२७-७॥
Vālmīki 1.27.8
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपाअत्मज ।धर्म पाशम् अहम् राम काल पाशम् तथैव च ॥१-२७-८॥
Vālmīki 1.27.9
वारुणम् पाशम् अस्त्रम् च ददामि अहम् अनुत्तमम् ।अशनी द्वे प्रयच्छामि शुष्क आर्द्रे रघुनन्दन ॥१-२७-९॥
Vālmīki 1.27.10
ददामि च अस्त्रम् पैनाकम् अस्त्रम् नारायणम् तथा ।आग्नेयम् अस्त्रम् दयितम् शिखरम् नाम नामतः ॥१-२७-१०॥
Vālmīki 1.27.11
वायव्यम् प्रथमम् नाम ददामि तव च अनघ ।अस्त्रम् हयशिरः नाम क्रौञ्चम् अस्त्रम् तथैव च ॥१-२७-११॥
Vālmīki 1.27.12
शक्ति द्वयम् च काकुत्स्थ ददामि तव राघव ।कंकालम् मुसलम् घोरम् कापालम् अथ किन्किणीम् ॥१-२७-१२॥
Vālmīki 1.27.13
वधार्थम् राक्षसाम् यानि ददामि एतानि सर्वशः ।वैद्याधरम् महा अस्त्रम् च नन्दनम् नाम नामतः ॥१-२७-१३॥
Vālmīki 1.27.14
असि रत्नम् महाबाहो ददामि नृवरात्मज ।गान्धर्वम् अस्त्रम् दयितम् मोहनम् नाम नामतः ॥१-२७-१४॥
Vālmīki 1.27.15
प्रस्वापनम् प्रशमनम् दद्मि सौम्यम् च राघव ।वर्षणम् शोषणम् चैव संतापन विलापने ॥१-२७-१५॥
Vālmīki 1.27.16
मादनम् चैव दुर्धर्षम् कन्दर्प दयितम् तथा ।गान्धर्वम् अस्त्रम् दयितम् मानवम् नाम नामतः ॥१-२७-१६॥
Vālmīki 1.27.17
पैशाचम् अस्त्रम् दयितम् मोहनम् नाम नामतः ।प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-१७॥
Vālmīki 1.27.18
तामसम् नरशार्दूल सौमनम् च महाबलम् ।संवर्तम् चैव दुर्धर्षम् मौसलम् च नृपात्मज ॥१-२७-१८॥
Vālmīki 1.27.19
सत्यम् अस्त्रम् महाबाहो तथा मायामयम् परम् ।सौरम् तेजःप्रभम् नाम पर तेजो अपकर्षणम् ॥१-२७-१९॥
Vālmīki 1.27.20
सोम अस्त्रम् शिशिरम् नाम त्वाष्ट्रम् अस्त्रम् सुदारुरणम् ।दारुणम् च भगस्य अपि शितेषुम् अथ मानवम् ॥१-२७-२०॥
Vālmīki 1.27.21
एतान् राम महाबाहो काम रूपान् महाबलान् ।गृहाण परमोदारान् क्षिप्रम् एव नृपात्मज ॥१-२७-२१॥
Vālmīki 1.27.22
स्थितः तु प्राङ्मुखो भूत्वा शुचिर् मुनिवरः तदा ।ददौ रामाय सुप्रीतो मंत्र ग्रामम् अनुत्तमम् ॥१-२७-२२॥
Vālmīki 1.27.23
सर्व संग्रहणम् एषाम् दैवतैः अपि दुर्लभम् ।तानि अस्त्राणि तदा विप्रो राघवाय न्यवेदत् ॥१-२७-२३॥
Vālmīki 1.27.24
जपतः तु मुनेः तस्य विश्वामित्रस्य धीमतः ।उपतस्थुः महा अर्हाणि सर्वाणि अस्त्राणि राघवम् ॥१-२७-२४॥
Vālmīki 1.27.25
ऊचुः च मुदिता रामम् सर्वे प्रांजलयः तदा ।इमे च परमोदार किंकराः तव राघव ॥१-२७-२५॥
Vālmīki 1.27.26
यद् यद् इच्छसि भद्रन् ते तत् सर्वम् करवाम वै ।ततो राम प्रसन्न आत्मा तैः इति उक्तो महाबलैः ॥१-२७-२६॥
Vālmīki 1.27.27
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।मनसा मे भविष्यध्वम् इति तानि अभ्यचोदयत् ॥१-२७-२७॥
Vālmīki 1.27.28
ततः प्रीत मना रामो विश्वामित्रम् महामुनिम् ।अभिवाद्य महातेजा गमनाय उपचक्रमे ॥१-२७-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷