🪷 बालकाण्ड · Sarga 26

Bāla-Kāṇḍa · The Book of Childhood · Sarga 26 · 36 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 1.26.1
मुनेर् वचनम् अक्लीबम् श्रुत्वा नरवरात्मजः ।राघवः प्राञ्जलिः भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥
Vālmīki 1.26.2
पितुर् वचन निर्देशात् पितुर् वचन गौरवात् ।वचनम् कौशिकस्य इति कर्तव्यम् अविशङ्कया ॥१-२६-२॥
Vālmīki 1.26.3
अनुशिष्टो अस्मि अयोध्यायाम् गुरु मध्ये महात्मना ।पित्रा दशरथेन अहम् न अवज्ञेयम् च तद् वचः ॥१-२६-३॥
Vālmīki 1.26.4
सोऽहम् पितुर्वचः श्रुत्वा शासनाद् ब्रह्म वादिनः ।करिष्यामि न संदेहः ताटका वधम् उत्तमम् ॥१-२६-४॥
Vālmīki 1.26.5
गो ब्राह्मण हितार्थाय देशस्य च हिताय च ।तव चैव अप्रमेयस्य वचनम् कर्तुम् उद्यतः ॥१-२६-५॥
Vālmīki 1.26.6
एवम् उक्त्वा धनुर्मध्ये बध्वा मुष्टिम् अरिन्दमः ।ज्या घोषम् अकरोत् तीव्रम् दिशः शब्देन नादयन् ॥१-२६-६॥
Vālmīki 1.26.7
तेन शब्देन वित्रस्ताः ताटका वन वासिनः ।ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥
Vālmīki 1.26.8
तम् शब्दम् अभिनिध्याय राक्षसी क्रोध मूर्चिता ।श्रुत्वा च अभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिस्सृतः ॥१-२६-८॥
Vālmīki 1.26.9
ताम् दृष्ट्वा राघवः क्रुद्धाम् विकृताम् विकृत आननाम् ।प्रमाणेन अति वृद्धाम् च लक्ष्मणम् सोऽभ्यभाषत ॥१-२६-९॥
Vālmīki 1.26.10
पश्य लक्ष्मण यक्षिण्या भैरवम् दारुणम् वपुः ।भिद्येरन् दर्शनात् अस्या भीरूणाम् हृदयानि च ॥१-२६-१०॥
Vālmīki 1.26.11
एताम् पश्य दुराधर्षाम् माया बल समन्विताम् ।विनिवृत्ताम् करोमि अद्य हृत कर्णाग्र नासिकाम् ॥१-२६-११॥
Vālmīki 1.26.12
न हि एनाम् उत्सहे हन्तुम् स्त्री स्वभावेन रक्षिताम् ।वीर्यम् च अस्या गतिम् च एव हन्यताम् इति मे मतिः ॥१-२६-१२॥
Vālmīki 1.26.13
एवम् ब्रुवाणे रामे तु ताटका क्रोध मूर्छिता ।उद्यम्य बाहूम् गर्जन्ती रामम् एव अभ्यधावत ॥१-२६-१३॥
Vālmīki 1.26.14
विश्वामित्रस्तु ब्रह्मर्षिः हुंकारेणा अभिभर्त्स्य ताम् ।स्वस्ति राघवयोः अस्तु जयम् च एव अभ्यभाषत ॥१-२६-१४॥
Vālmīki 1.26.15
उद् धुन्वाना रजो घोरम् ताटका राघवौ उभौ ।रजो मेघेन महता मुहूर्तम् सा व्यमोहयत् ॥१-२६-१५॥
Vālmīki 1.26.16
ततो मायाम् समास्थाय शिला वर्षेण राघवौ ।अवाकिरत् सुमहता ततः चुक्रोध राघवः ॥१-२६-१६॥
Vālmīki 1.26.17
शिला वर्षम् महत् तस्याः शर वर्षेण राघवः ।प्रतिवार्यो अपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥
Vālmīki 1.26.18
ततः च्छिन्न भुजाम् श्रान्ताम् अभ्याशे परिगर्जतीम् ।सौमित्रिः अकरोत् क्रोधात् हृत कर्णाग्र नासिकाम् ॥१-२६-१८॥
Vālmīki 1.26.19
काम रूपधरा सा तु कृत्वा रूपाणि अनेकशः ।अन्तर्धानम् गता यक्षी मोहयन्ति स्व मायया ॥१-२६-१९॥
Vālmīki 1.26.20
अश्म वर्षम् विमुंचन्ती भैरवम् विचचार सा।ततः तौ अश्म वर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥
Vālmīki 1.26.21
दृष्ट्वा गाधि सुतः श्रीईमान् इदम् वचनम् अब्रवीत् ।अलम् ते घृणया राम पापा एषा दुष्ट चारिणी ॥१-२६-२१॥
Vālmīki 1.26.22
यज्ञ विघ्न करी यक्षी पुरा वर्धेत मायया ।वध्यताम् तावत् एव एषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥
Vālmīki 1.26.23
रक्षांसि संध्या काले तु दुर्धर्षाणि भवन्ति हि ।इति उक्तः स तु ताम् यक्षीम् अश्म वृष्ट्या अभिवर्षणीम् ॥१-२६-२३॥
Vālmīki 1.26.24
दर्शयन् शब्द वेधित्वम् ताम् रुरोध स सायकैः ।सा रुद्धा बाण जालेन माया बल समन्विता ॥१-२६-२४॥
Vālmīki 1.26.25
अभि दुद्राव काकुत्स्थम् लक्षमणम् च विनेषुदी।ताम् आपतन्तीम् वेगेन विक्रान्ताम् अशनीम् इव ॥१-२६-२५॥
Vālmīki 1.26.26
शरेण उरसि विव्याध सा पपात ममार च ।ताम् हताम् भीम संकाशाम् दृष्ट्वा सुरपतिः तदा ॥१-२६-२६॥
Vālmīki 1.26.27
साधु साध्विति काकुत्स्थम् सुराः च अपि अभिपूजयन् ।उवाच परम प्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥
Vālmīki 1.26.28
सुराः च सर्वे संहृष्टा विश्वामित्रम् अथ अब्रुवन् ।मुने कौशिक भद्रम् ते सह इन्द्राः सर्वे मरुद् गणाः ॥१-२६-२८॥
Vālmīki 1.26.29
तोषिताः कर्मणा अनेन स्नेहम् दर्शय राघवे ।प्रजापतेः कृशाश्वस्य पुत्रान् सत्य पराक्रमान् ॥१-२६-२९॥
Vālmīki 1.26.30
तपो बल भृतो ब्रह्मन् राघवाय निवेदय ।पात्रभूतः च ते ब्रह्मन् तव अनुगमने रतः ॥१-२६-३०॥
Vālmīki 1.26.31
कर्तव्यम् सुमहत् कर्म सुराणाम् राज सूनुना ।एवम् उक्त्वा सुराः सर्वे जग्मुर् हृष्टा विहायसम् ॥१-२६-३१॥
Vālmīki 1.26.32
विश्वामित्रम् पूजयन् ततः संध्या प्रवर्तते ।ततो मुनिवरः प्रीतः ताटका वध तोषितः ॥१-२६-३२॥
Vālmīki 1.26.33
मूर्ध्नि रामम् उपाघ्राय इदम् वचनम् अब्रवीत् ।इह अद्य रजनीम् राम वसाम शुभ दर्शन ॥१-२६-३३॥
Vālmīki 1.26.34
श्वः प्रभाते गमिष्यामः तद् आश्रम पदम् मम ।विश्वामित्रः वचः श्रुत्वा हृष्टो दशरधात्मजः ॥१-२६-३४॥
Vālmīki 1.26.35
उवास रजनीम् तत्र ताटकाया वने सुखम् ।मुक्त शापम् वनम् तत् च तस्मिन् एव तत् आहनि ।रमणीयम् विबभ्राज यथा चैत्र रथम् वनम् ॥१-२६-३५॥
Vālmīki 1.26.36
निहत्य ताम् यक्ष सुताम् स रामःप्रशस्यमानः सुर सिद्ध सन्घैः ।उवास तस्मिन् मुनिना सह एवप्रभात वेलाम् प्रति बोध्यमानः ॥१-२६-३६॥

Navigation

Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷