🪷 बालकाण्ड · Sarga 25
Bāla-Kāṇḍa · The Book of Childhood · Sarga 25 · 22 ślokas
🪷 Devanāgarī Ślokas
अथ तस्य अप्रमेयस्य मुनेर् वचनम् उत्तमम् ।श्रुत्वा पुरुष शार्दूलः प्रत्युवाच शुभाम् गिरम् ॥१-२५-१॥
अल्प वीर्या यदा यक्षी श्रूयते मुनिपुङ्गव ।कथम् नाग सहस्रस्य धारयति अबला बलम् ॥१-२५-२॥
इति उक्त,म् वचनम् श्रुत्वा राघवस्य अमित ओजसा ।हर्षयन् श्लक्ष्णया वचा स लक्ष्मणम् अरिन्दमम् ॥१-२५-३॥
विश्वामित्रोऽब्रवीत् वाक्यम् शृणु येन बलोत्कटा ।वर दान कृतम् वीर्यम् धारयति अबला बलम् ॥१-२५-४॥
पूर्वम् आसीत् महा यक्षः सुकेतुर् नाम वीर्यवान् ।अनपत्यः शुभाचारः स च तेपे महत् तपः ॥१-२५-५॥
पितामहः तु सुप्रीतः तस्य यक्षपतेः तदा ।कन्या रत्नम् ददौ राम ताटकाम् नाम नामतः ॥१-२५-६॥
ददौ नाग सहस्रस्य बलम् च अस्याः पितामहः ।न तु एव पुत्रम् यक्षाय ददौ च असौ महायशाः ॥१-२५-७॥
ताम् तु बालाम् विवर्धन्तीम् रूप यौवन शालिनीम् ।जंभ पुत्राय सुन्दाय ददौ भार्याम् यशस्विनीम् ॥१-२५-८॥
कस्यचित् तु अथ कालस्य यक्षी पुत्रम् व्यजायत ।मारीचम् नाम दुर्धर्षम् यः शापात् राक्षसोऽभवत् ॥१-२५-९॥
सुन्दे तु निहते राम सा अगस्त्यम् ऋषि सत्तमम् ।ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति ॥१-२५-१०॥
भक्षार्थम् जात संरम्भा गर्जन्ती सा अभ्यधावत ।आपतन्तीम् तु ताम् दृष्ट्वा अगस्त्यो भगवान् ऋषिः ॥१-२५-११॥
राक्षसत्वम् भजस्व इति मारीचम् व्याजहार सः ।अगस्त्यः परम अमर्षः ताटकाम् अपि शप्तवान् ॥१-२५-१२॥
पुरुषादी महायक्षी विरूपा विकृत आनना ।इदम् रूपम् विहायाशु दारुणम् रूपम् अस्तु ते ॥१-२५-१३॥
सैषा शाप कृताम् अर्षा ताटका क्रोध मूर्छिता ।देशम् उत्सादयति एनम् अगस्त्या चरितम् शुभम् ॥१-२५-१४॥
एनाम् राघव दुर्वृत्ताम् यक्षीम् परम दारुणाम् ।गो ब्राह्मण हितार्थाय जहि दुष्ट पराक्रमाम् ॥१-२५-१५॥
न हि एनाम् शाप संसृष्टाम् कश्चित् उत्सहते पुमान् ।निहन्तुम् त्रिषु लोकेषु त्वाम् ऋते रघु नन्दन ॥१-२५-१६॥
न हि ते स्त्री वध कृते घृणा कार्या नरोत्तम ।चातुर् वर्ण्य हितार्थाम् हि कर्तव्यम् राज सूनुना ॥१-२५-१७॥
नृशंसम् अनृशंसम् वा प्रजा रक्षण कारणात् ।पातकम् वा सदोषम् वा कर्तव्यम् रक्षता सदा ॥१-२५-१८॥
राज्य भार नियुक्तानाम् एष धर्मः सनातनः ।अधर्म्याम् जहि काकुत्स्थ धर्मो हि अस्याम् न विद्यते ॥१-२५-१९॥
श्रूयते हि पुरा शक्रो विरोचन सुताम् नृप ।पृथिवीम् हन्तुम् इच्छन्तीम् मन्थराम् अभ्यसूदयत् ॥१-२५-२०॥
विष्णुना च पुरा राम भृगु पत्नी पतिव्रता ।अनिन्द्रम् लोकम् इच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥
एतैः च अन्यैः च बहुभी राजपुत्रैः महात्मभिः ।अधर्म सहिता नार्यो हताः पुरुषसत्तमैः ।तस्माद् एनाम् घृणाम् त्यक्त्वा जहि मत् शासनान् नृप ॥१-२५-२२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 24
- Next: Bāla-Kāṇḍa Sarga 26 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷