🪷 बालकाण्ड · Sarga 24
Bāla-Kāṇḍa · The Book of Childhood · Sarga 24 · 32 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.24local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः प्रभाते विमले कृत आह्निकम् अरिन्दमौ ।विश्वामित्रम् पुरस्कृत्य नद्याः तीरम् उपागतौ ॥१-२४-१॥
ते च सर्वे महात्मानो मुनयः संश्रित व्रताः ।उपस्थाप्य शुभाम् नावम् विश्वामित्रम् अथ अब्रुवन् ॥१-२४-२॥
आरोहतु भवान् नावम् राजपुत्र पुरस्कृतः ।अरिष्टम् गच्छ पन्थानम् मा भूत् काल विपर्ययः ॥१-२४-३॥
विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च ।ततार सहितः ताभ्याम् सरितम् सागरम् गमाम् ॥१-२४-४॥
तत्र शुश्राव वै शब्दम् तोय संरम्भ वर्धितम् ।मध्यम् आगम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥
ज्ञातु कामो महातेजा सह रामः कनीयसा ।अथ रामः सरिन् मध्ये पप्रच्छ मुनि पुङ्गवम् ॥१-२४-६॥
वारिणो भिद्यमानस्य किम् अयम् तुमुलो ध्वनिः ।राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् ॥१-२४-७॥
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।कैलास पर्वते राम मनसा निर्मितम् परम् ॥१-२४-८॥
ब्रह्मणा नरशार्दूल तेन इदम् मानसम् सरः ।तस्मात् सुस्राव सरसः सा अयोध्याम् उपगूहते ॥१-२४-९॥
सरः प्रवृत्ता सरयूः पुण्या ब्रह्म सरः च्युता ।तस्य अयम् अतुलः शब्दो जाह्नवीम् अभिवर्तते ॥१-२४-१०॥
वारि संक्षोभजो राम प्रणामम् नियतः कुरु ।ताभ्याम् तु तावुभौ कृत्वा प्रणामम् अतिधार्मिकौ ॥१-२४-११॥
तीरम् दक्षिणम् आसाद्य जग्मतुर् लघु विक्रमौ ।स वनम् घोर संकाशम् दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥
अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि पुंगवम् ।अहो वनम् इदम् दुर्गम् झिल्लिका गण संयुतम् ॥१-२४-१३॥
भैरवैः श्वापदैः कीर्णम् शकुनैः दारुण आरवैः ।नाना प्रकारैः शकुनैः वाश्यद्भिः भैरव स्वनैः ॥१-२४-१४॥
सिंह व्याघ्र वराहैः च वारणैः च अपि शोभितम् ।धव अश्वकर्ण ककुभैः बिल्व तिन्दुक पाटलैः ॥१-२४-१५॥
संकीर्णम् बदरीभिः च किम् नु एतत् दारुणम् वनम् ।तम् उवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥
श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् ।एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नरोउत्तम ॥१-२४-१७॥
मलदाः च करूषाः च देव निर्माण निर्मितौ ।पुरा वृत्र वधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥
क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या सम् आविशत् ।तम् इन्द्रम् मलिनम् देवा ऋषयः च तपोधनाः ॥१-२४-१९॥
कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् ।इह भूम्याम् मलम् दत्त्वा देवाः कारुषम् एव च ॥१-२४-२०॥
शरीरजम् महेन्द्रस्य ततो हर्षम् प्रपेदिरे ।निर्मलो निष्करूषः च शुद्ध इन्द्रो यथा अभवत् ॥१-२४-२१॥
ततो देशस्य सुप्रीतो वरम् प्रादाद् अनुत्तमम् ।इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः ॥१-२४-२२॥
मलदाः च करूषाः च मम अंग मल धारिणौ ।साधु साधु इति तम् देवाः पाकशासनम् अब्रुवन् ॥१-२४-२३॥
देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता ।एतौ जनपदौ स्फीतौ दीर्घ कालम् अरिन्दम ॥१-२४-२४॥
मलदाः च करूषाः च मुदिता धन धान्यतः ।कस्य चित् अथ कालस्य यक्षी काम रूपिणी ॥१-२४-२५॥
बलम् नाग सहस्रस्य धारयन्ती तदा हि आभूत् ।ताटका नाम भद्रम् ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥
मारीचो राक्षसः पुत्रो यस्याः शक्र पराक्रमः ।वृत्त बाहुर् महा शीर्षो विपुला अस्य तनुर् महान् ॥१-२४-२७॥
राक्षसो भैरव आकारो नित्यम् त्रासयते प्रजाः ।इमौ जनपदौ नित्यम् विनाशयति राघव ॥१-२४-२८॥
मलदांश्च करूषांश्च ताटका दुष्ट चारिणी ।सा इयम् पन्थानम् आवृत्य वसति अध्यर्ध योजने ॥१-२४-२९॥
अत एव च गन्तव्यम् ताटकाया वनम् यतः ।स्व बाहु बलम् आश्रित्य जहि इमाम् दुष्ट चारिणीम् ॥१-२४-३०॥
मत् नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनः ।न हि कश्चित् इमम् देशम् शक्तो हि आगन्तुम् ईदृशम् ॥१-२४-३१॥
यक्षिण्या घोरया राम उत्सादितम् असह्यया ।एतत् ते सर्वम् आख्यातम् यथा एतत् दारुणम् वनम् ।यक्ष्या च उत्सादितम् सर्वम् अद्य अपि न निवर्तते ॥१-२४-३२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 23
- Next: Bāla-Kāṇḍa Sarga 25 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷