🪷 बालकाण्ड · Sarga 23
Bāla-Kāṇḍa · The Book of Childhood · Sarga 23 · 22 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.23local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
प्रभातायाम् तु शर्वर्याम् विश्वामित्रो महामुनिः ।अभ्यभाषत काकुत्स्थौ शयानौ पर्ण संस्तरे ॥१-२३-१॥
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।उत्तिष्ठ नर शार्दूल कर्तव्यम् दैवमाह्निकम् ॥१-२३-२॥
तस्य ऋषेः परम उदारम् वचः श्रुत्वा नृप नरोत्तमौ ।स्नात्वा कृत उदकौ वीरौ जेपतुः परमम् जपम् ॥१-२३-३॥
कृत आह्निकौ महावीर्यौ विश्वामित्रम् तपोधनम् ।अभिवाद्य अति संहृष्टौ गमनाय अभितस्थतुः ॥१-२३-४॥
तौ प्रयान्तौ महावीर्यौ दिव्यम् त्रिपथगाम् नदीम् ।ददृशा ते ततः तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥
तत्र आश्रम पदम् पुण्यम् ऋषीणाम् भाविअत आत्मानाम् ।बहु वर्ष सहस्राणि तप्यताम् परमम् तपः ॥१-२३-६॥
तम् दृष्ट्वा परम प्रीतौ राघवौ पुण्यम् आश्रमम् ।ऊचतुः तम् महात्मानम् विश्वामित्रम् इदम् वचः ॥१-२३-७॥
कस्य अयम् आश्रमः पुण्यः को नु अस्मिन् वसते पुमान् ।भगवन् श्रोतुम् इच्छावः परम् कौतूहलम् हि नौ ॥१-२३-८॥
तयोः तद् वचनम् श्रुत्वा प्रहस्य मुनिपुंगवः ।अब्रवीत् श्रूयताम् राम यस्य अयम् पूर्व आश्रमः ॥१-२३-९॥
कन्दर्पो मूर्तिमान् आसीत् काम इति उच्यते बुधैः ।तपस्यंतम् इह स्थाणुम् नियमेन समाहितम् ॥१-२३-१०॥
कृत उद्वाहम् तु देवेशम् गच्छन्तम् स मरुद् गणम् ।धर्षयामास दुर्मेधा हुम् कृतः च महात्मना ॥१-२३-११॥
अवध्यतः च रुद्रेण चक्षुषा रघु नन्दन ।व्यशीर्यन्त शरीरात् स्वात् सर्व गात्राणि दुर्मतेः ॥१-२३-१२॥
तत्र गात्रम् हतम् तस्य निर्दग्धस्य महात्मनः ।अशरीरः कृतः कामः क्रोधात् देव ईश्वरेण ह ॥१-२३-१३॥
अनङ्ग इति विख्यातः तदा प्रभृति राघव ।स च अङ्ग विषयः श्रीमान् यत्र अंगम् स मुमोच ह ॥१-२३-१४॥
तस्य अयम् आश्रमः पुण्यः तस्य इमे मुनयः पुरा ।शिष्या धर्मपरा वीर तेषाम् पापम् न विद्यते ॥१-२३-१५॥
इह अद्य रजनीम् राम वसेम शुभ दर्शन ।पुण्ययोः सरितोः मध्ये श्वः तरिष्यामहे वयम् ॥१-२३-१६॥
अभिगच्छामहे सर्वे शुचयः पुण्यम् आश्रमम् ।इह वासः परोऽस्माकम् सुखम् वस्त्यामहे वयम् ॥१-२३-१७॥
स्नाताः च कृत जप्याः च हुत हव्या नरोत्तम ।तेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा ॥१-२३-१८॥
विज्ञाय परम प्रीता मुनयो हर्षम् आगमन् ।अर्घ्यम् पाद्यम् तथा आतिथ्यम् निवेद्य कुशिकात्मजे ॥१-२३-१९॥
राम लक्ष्मणयोः पश्चात् अकुर्वन् अतिथि क्रियाम् ।सत्कारम् सम् अनुप्राप्य कथाभिः अभिरंजयन् ॥१-२३-२०॥
यथा अर्हम् अजपन् संध्याम् ऋषयः ते समाहिताः ।तत्र वासिभिः आनीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
न्यवसन् सुसुखम् तत्र काम आश्रम पदे तथा ।कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।यद्वा -कथाभिः अभि रामभिः अभि रमौ नृप आत्मजौरमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 22
- Next: Bāla-Kāṇḍa Sarga 24 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷