🪷 बालकाण्ड · Sarga 22
Bāla-Kāṇḍa · The Book of Childhood · Sarga 22 · 23 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.22local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तथा वसिष्टे ब्रुवति राजा दशरथः स्वयम् ।प्रहृष्ट वदनो रामम् आजुहाव स लक्ष्मणम् ॥१-२२-१॥
कृतः स्वस्त्ययनम् मात्रा पित्रा दशरथेन च ।पुरोधसा वसिष्ठेन मङ्गलैः अभिमंत्रितम् ॥१-२२-२॥
स पुत्रम् मूर्ध्नि उपाघ्राय राजा दशरथः तदा ।ददौ कुशिक पुत्राय सुप्रीतेन अंतरात्मना ॥१-२२-३॥
ततो वायुः सुख स्पर्शो नीरजस्को ववौ तदा ।विश्वामित्र गतम् रामम् दृष्ट्वा राजीव लोचनम् ॥१-२२-४॥
पुष्प वृष्टिः महती आसीत् देव दुन्दुभि निःस्वनैः ।शङ्ख दुन्दुभि निर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥
विश्वामित्रो ययौ अग्रे ततो रामो महायशाः ।काक पक्ष धरो धन्वी तम् च सौमित्रिः अन्वगात् ॥१-२२-६॥
कलापिनौ धनुष् पाणी शोभयानौ दिशो दश ।विश्वामित्रम् महात्मानम् त्रि शीर्षौ इव पन्नगौ ।अनुजग्मतुः अक्षुद्रौ पितामहम् इव अश्विनौ ॥१-२२-७॥
तदा कुशिक पुत्रम् तु धनुष् पाणी स्वलंकृतौ ।बद्ध गोध अंगुलि त्राणौ खड्गवन्तौ महाद्युती ॥१-२२-८॥
कुमारौ चारु वपुषौ भ्रातरौ राम लक्ष्मणौ ।अनुयातौ श्रिया दीप्तौ शोभयेताम् अनिन्दितौ ॥१-२२-९॥
स्थाणुम् देवम् इव अचिन्त्यम् कुमारौ इव पावकी ।अध्यर्ध योजनम् गत्वा सरय्वा दक्षिणे तटे ॥१-२२-१०॥
रामा इति मधुराम् वाणीम् विश्वामित्रः अभ्यभाषत ।गृहाण वत्स सलिलम् मा भूत् कालस्य पर्ययः ॥१-२२-११॥
मंत्र ग्रामम् गृहाण त्वम् बलाम् अतिबलाम् तथा ।न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१२॥
न च सुप्तम् प्रमत्तम् वा धर्ष इष्यन्ति नैरृताः ।न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश्चन ॥१-२२-१३॥
त्रिषु लोकेषु वा राम न भवेत् सदृशः तव ।बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१४॥
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धि निश्चये ।न उत्तरे प्रति वक्तव्ये समो लोके तव अनघ ॥१-२२-१५॥
एतत् विद्या द्वये लब्धे न भवेत् सदृशः तव ।बला च अतिबला चैव सर्व ज्ञानस्य मातरौ ॥१-२२-१६॥
क्षुत् पिपासे न ते राम भविष्येते नरोत्तम ।बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१७॥
गृहाण सर्व लोकस्य गुप्तये रघु नन्दन ।विद्या द्वयम् अधीयाने यशः च अथ भवेत् भुवि ।पितामह सुते हि एते विद्ये तेजः समन्विते ॥१-२२-१८॥
प्रदातुम् तव काकुत्थ्स सदृअशः त्वम् हि पार्थिव ।कामम् बहुगुणाः सर्वे त्वयि एते न अत्र संशयः ॥१-२२-१९॥
तपसा संभृते च एते बहु रूपे भविष्यतः ।ततो रामो जलम् स्पृष्ट्वा प्रहृष्ट वदनः शुचिः ॥१-२२-२०॥
प्रति जग्राह ते विद्ये महर्षेर् भावित आत्मनः ।विद्या समुदितो रामः शुशुभे भीम विक्रमः ॥१-२२-२१॥
सहस्र रश्मिः भग्वान् शरदीव दिवाकरः ।गुरु कार्याणि सर्वाणि नियुज्य कुशिक आत्मजे ।ऊषुः ताम् रजनीम् तत्र सरय्वाम् सुसुखम् त्रयः ॥१-२२-२२॥
दशरथ नृइप सूनु सत्तमाभ्याम्तृण शयने अनुचिते तदा उषिताभ्याम् ।कुशिक सुत वचोऽनुलालिताभ्याम् ।सुखमिव सा विबभौ विभावरी च ॥१-२२-२३॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 21
- Next: Bāla-Kāṇḍa Sarga 23 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷