🪷 बालकाण्ड · Sarga 21
Bāla-Kāṇḍa · The Book of Childhood · Sarga 21 · 22 ślokas
🪷 Devanāgarī Ślokas
तत् श्रुत्वा वचनम् तस्य स्नेह पर्याकुलाक्षरम् ।समन्युः कौशिको वाक्यम् प्रति उवाच महीपतिम् ॥१-२१-१॥
पूर्वम् अर्थम् प्रति श्रुत्य प्रतिज्ञाम् हातुम् इच्छसि ।राघवाणाम् अयुक्तोऽयम् कुलस्य अस्य विपर्ययः ॥१-२१-२॥
यद् इदम् ते क्षमम् राजन् गमिष्यामि यथा आगतम् ।मिथ्या प्रतिज्ञः काकुत्स्थ सुखी भव सु हृद् वृतः ॥१-२१-३॥
तस्य रोष परीतस्य विश्वामित्रस्य धीमतः ।चचाल वसुधा कृत्स्ना देवानाम् च भयम् ॥१-२१-४॥
त्रस्त रूपम् तु विज्ञाय जगत्सर्वम् महान् ऋषिः ।नृपतिम् सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत् ॥१-२१-५॥
इक्ष्वाकूणाम् कुले जातः साक्षात् धर्म इव अपरः ।धृतिमान् सुव्रतः श्रीमान् न धर्मम् हातुम् अर्हसि ॥१-२१-६॥
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव ।स्व धर्मम् प्रतिपद्यस्व न अधर्मम् वोढुम् अर्हसि ॥१-२१-७॥
प्रति श्रुत्य करिष्ये इति उक्तम् वाक्यम् अकुर्वतः ।इष्टापूर्त वधो भूयात् तस्मात् रामम् विसर्जय ॥१-२१-८॥
कृतास्त्रम् अकृतास्त्रम् वा न एवम् शक्ष्यन्ति राक्षसाः ।गुप्तम् कुइशिक पुत्रेण ज्वलनेन अमृतम् यथा ॥१-२१-९॥
एष विग्रहवान् धर्म एष वीर्यवताम् वरः ।एष विद्य अधिको लोके तपसः च परायणम् ॥१-२१-१०॥
एषो अस्त्रान् विविधान् वेत्ति त्रैलोक्ये स चराचरे ।न एनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥
न देवा न ऋषयः के चित् न अमरा न च राक्षसाः ।गन्धर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-२१-१२॥
सर्व अस्त्राणि कृशाश्वस्य पुत्राः परम धार्मिकाः ।कौशिकाय पुरा दत्ता यदा राज्यम् प्रशासति ॥१-२१-१३॥
ते अपि पुत्रा कृशाश्वस्य प्रजापति सुता सुताः ।न एक रूपा महावीर्या दीप्तिमंतो जयावहाः ॥१-२१-१४॥
जया च सुप्रभा च एव दक्ष कन्ये सुमध्यमे ।ते सूते अस्त्र शस्त्राणि शतम् परम भास्वरम् ॥१-२१-१५॥
पंचाशतम् सुतान् लेभे जया लब्ध वरा वरान् ।वधायासुरसैन्यानामप्रमेयानरूपिणः - यद्वा -वधाय असुर सैन्यानाम् अप्रमेयान् अरूपिणः ॥१-२१-१६॥
सुप्रभा अजनयत् च अपि पुत्रान् पंचाशतम् पुनः ।संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥
तानि च अस्त्राणि वेत्ति एष यथावत् कुशिक आत्मजः ।अपूर्वाणाम् च जनने शक्तो भूयः च धर्मवित् ॥१-२१-१८॥
तेन अस्य मुनि मुख्यस्य धर्मज्ञस्य महात्मनः ।न किंचिद् अस्ति अविदितम् भूतम् भव्यम् च राघव ॥१-२१-१९॥
एवम् वीर्यो महातेजा विश्वामित्रो महा यशाः ।न राम गमने राजन् संशयम् गन्तुम् अर्हसि ॥१-२१-२०॥
तेषाम् निग्रहणे शक्तः स्वयम् च कुशिकात्मजः ।तव पुत्र हितार्थाय त्वाम् उपेत्य अभि याचते ॥१-२१-२१॥
इति मुनि वचनात् प्रसन्न चित्तोरघु वृषभः च मुमोद पार्थिव अग्र्यः ।गमनम् अभिरुरोच राघवस्यप्रथित यशाः कुशिक आत्मजाय बुध्या ॥१-२१-२२॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 20
- Next: Bāla-Kāṇḍa Sarga 22 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Bāla-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷