🪷 बालकाण्ड · Sarga 20

Bāla-Kāṇḍa · The Book of Childhood · Sarga 20 · 28 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.20local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.20.1
तत् श्रुत्वा राज शार्दूलो विश्वामित्रस्य भाषितम् ।मुहूर्तम् इव निस्सज्ञः सज्ञावान् इदम् अब्रवीत् ॥१-२०-१॥
Vālmīki 1.20.2
ऊन षोडश वर्षो मे रामो राजीव लोचनः ।न युद्ध योग्यताम् अस्य पश्यामि सह राक्षसैः ॥१-२०-२॥
Vālmīki 1.20.3
इयम् अक्षौहिणी सेना यस्य अहम् पतिः ईश्वरः ।अनया सहितो गत्वा योद्ध अहम् तैर् निशाचरैः ॥१-२०-३॥
Vālmīki 1.20.4
इमे शूराः च विक्रान्ता भृत्याः मे अस्त्र विशारदाः ।योग्या रक्षोगणैः योद्धुम् न रामम् नेतुम् अर्हसि ॥१-२०-४॥
Vālmīki 1.20.5
अहम् एव धनुष्पाणिः गोप्ता समर मूर्धनि ।यावत् प्राणान् धरिष्यामि तावत् योत्स्ये निशाचरैः ॥१-२०-५॥
Vālmīki 1.20.6
निर्विघ्ना व्रत चर्या सा भविष्यति सुरक्षिता ।अहम् तत्र आगमिष्यामि न रामम् नेतुम् अर्हसि ॥१-२०-६॥
Vālmīki 1.20.7
बालो हि अकृत विद्यः च न च वेत्ति बलाबलम् ।न च अस्त्र बल संयुक्तो न च युद्ध विशारदः ॥१-२०-७॥
Vālmīki 1.20.8
न च असौ रक्षसा योग्यः कूट युद्धा हि राक्षसा ।विप्रयुक्तो हि रामेण मुहूर्तम् अपि न उत्सहे ॥१-२०-८॥
Vālmīki 1.20.9
जीवितुम् मुनि शार्दूल न रामम् नेतुम् अर्हसि ।यदि वा राघवम् ब्रह्मन् नेतुम् इच्छसि सुव्रत ॥१-२०-९॥
Vālmīki 1.20.10
चतुरंग समायुक्तम् मया सह च तम् नय ।षष्टिः वर्ष सहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥
Vālmīki 1.20.11
कृच्छ्रेण उत्पादितः च अयम् न रामम् नेतुम् अर्हसि ।चतुर्णाम् आत्मजानाम् हि प्रीतिः परमिका मम ॥१-२०-११॥
Vālmīki 1.20.12
ज्येष्ठे धर्म प्रधाने च न रामम् नेतुम् अर्हसि ।किम् वीर्याः राक्षसाः ते च कस्य पुत्राः च के च ते ॥१-२०-१२॥
Vālmīki 1.20.13
कथम् प्रमाणाः के च एतान् रक्षन्ति मुनिपुंगव ।कथम् च प्रति कर्तव्यम् तेषाम् रामेण रक्षसाम् ॥१-२०-१३॥
Vālmīki 1.20.14
मामकैः वा बलैः ब्रह्मन् मया वा कूट योधिनाम् ।सर्वम् मे शंस भगवन् कथम् तेषाम् मया रणे॥१-२०-१४॥
Vālmīki 1.20.15
स्थातव्यम् दुष्ट भावानाम् वीर्योत्सिक्ता हि राक्षसाः ।तस्य तद् वचनम् श्रुत्वा विश्वामित्रो अभ्यभाषत ॥१-२०-१५॥
Vālmīki 1.20.16
पौलस्त्य वंश प्रभवो रावणो नाम राक्षसः ।स ब्रह्मणा दत्त वरः त्रैलोक्यम् बाधते भृशम् ॥१-२०-१६॥
Vālmīki 1.20.17
महाबलो महावीर्यो राक्षसैः बहुभिः वृतः ।श्रूयते च महाराजा रावणो राक्षस अधिपः ॥१-२०-१७॥
Vālmīki 1.20.18
साक्षात् वैश्रवण भ्राता पुत्रो विश्रवसो मुनेः ।यदा न खलु यज्ञस्य विघ्न कर्ता महाबलः ॥१-२०-१८॥
Vālmīki 1.20.19
तेन संचोदितौ तौ तु राक्षसौ च महाबलौ ।मारीचः च सुबाहुः च यज्ञ विघ्नम् करिष्यतः ॥१-२०-१९॥
Vālmīki 1.20.20
इति उक्तो मुनिना तेन राजा उवाच मुनिम् तदा ।न हि शक्तो अस्मि संग्रामे स्थातुम् तस्य दुरात्मनः ॥१-२०-२०॥
Vālmīki 1.20.21
स त्वम् प्रसादम् धर्मज्ञ कुरुष्व मम पुत्रके ।मम च एव अल्प भाग्यस्य दैवतम् हि भवान् गुरुः ॥१-२०-२१॥
Vālmīki 1.20.22
देव दानव गंधर्वा यक्षाः पतग पन्नगाः।न शक्ता रावणम् सोढुम् किम् पुनर् मानवा युधि ॥१-२०-२२॥
Vālmīki 1.20.23
स तु वीर्यवताम् वीर्यम् आदत्ते युधि रावणः ।तेन च अहम् न शक्तोऽस्मि संयोद्धुम् तस्य वा बलैः ॥१-२०-२३॥
Vālmīki 1.20.24
सबलो वा मुनिश्रेष्ठ सहितो वा मम आत्मजैः ।कथम् अपि अमर प्रख्यम् संग्रामाणाम् अकोविदम् ॥१-२०-२४॥
Vālmīki 1.20.25
बालम् मे तनयम् ब्रह्मन् नैव दास्यामि पुत्रकम् ।अथ काल उपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥
Vālmīki 1.20.26
यज्ञ विघ्न करौ तौ ते न एव दास्यामि पुत्रकम् ।मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥
Vālmīki 1.20.27
तयोः अन्यतरम् योद्धुम् यास्यामि स सुहृत् गणः ।अन्यथा त्वनुनेष्यामि भवन्तम् सह बान्धव ॥१-२०-२७॥
Vālmīki 1.20.28
इति नरपति जल्पनात् द्विजेन्द्रम्कुशिक सुतम् सुमहान् विवेश मन्युः ।सु हुत इव मखे अग्निः आज्य सिक्तःसमभवत् उज्वलितो महर्षि वह्निः ॥१-२०-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷