🪷 बालकाण्ड · Sarga 19

Bāla-Kāṇḍa · The Book of Childhood · Sarga 19 · 22 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.19local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.19.1
तत् शुर्त्वा राज सिंहस्य वाक्यम् अद्भुत विस्तरम् ।हृष्ट रोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१-१९-१॥
Vālmīki 1.19.2
सदृशम् राज शार्दूल तव एव भुवि न अन्यतः ।महावंश प्रसूतस्य वसिष्ठ व्यपदेशिनः ॥१-१९-२॥
Vālmīki 1.19.3
यत् तु मे हृद् गतम् वाक्यम् तस्य कार्यस्य निश्चयम् ।कुरुष्व राज शार्दूल भव सत्य प्रतिश्रवः ॥१-१९-३॥
Vālmīki 1.19.4
अहम् नियमम् आतिष्ठे सिध्द्यर्थम् पुरुषर्षभ ।तस्य विघ्नकरौ द्वौ तु राक्षसौ काम रूपिणौ ॥१-१९-४॥
Vālmīki 1.19.5
व्रते मे बहुशः चीर्णे समाप्त्याम् राक्षसाविमौ ।मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥१-१९-५॥
Vālmīki 1.19.6
तौ मांस रुधिर ओघेण वेदिम् ताम् अभ्यवर्षताम् ।अवधूते तथा भूते तस्मिन् नियम निश्चये ॥१-१९-६॥
Vālmīki 1.19.7
कृत श्रमो निरुत्साहः तस्मात् देशात् अपाक्रमे ।न च मे क्रोधम् उत्स्रष्टुम् बुद्धिः भवति पार्थिव ॥१-१९-७॥
Vālmīki 1.19.8
तथा भूता हि सा चर्या न शापः तत्र मुच्यते ।स्व पुत्रम् राज शार्दूल रामम् सत्य पराक्रमम् ॥१-१९-८॥
Vālmīki 1.19.9
काक पक्ष धरम् शूरम् ज्येष्ठम् मे दातुम् अर्हसि ।शक्तो हि येष मया गुप्तो दिव्येन स्वेन तेजसा ॥१-१९-९॥
Vālmīki 1.19.10
राक्षसा ये विकर्तारः तेषाम् अपि विनाशने ।श्रेयः च अस्मै प्रदास्यामि बहुरूपम् न संशयः ॥१-१९-१०॥
Vālmīki 1.19.11
त्रयाणाम् अपि लोकानाम् येन ख्यातिम् गमिष्यति ।न च तौ रामम् आसाद्य शक्तौ स्थातुम् कथम् च न ॥१-१९-११॥
Vālmīki 1.19.12
न च तौ राघवात् अन्यो हन्तुम् उत्सहते पुमान् ।वीर्य उत्सिक्तौ हि तौ पापौ काल पाश वशम् गतौ ॥१-१९-१२॥
Vālmīki 1.19.13
रामस्य राज शार्दूल न पर्याप्तौ महात्मनः ।न च पुत्र गतम् स्नेहम् कर्तुम् अर्हसि पार्थिव ॥१-१९-१३॥
Vālmīki 1.19.14
अहम् ते प्रति जानामि हतौ तौ विद्धि राक्षसौ ।अहम् वेद्मि महात्मानम् रामम् सत्य पराक्रमम् ॥१-१९-१४॥
Vālmīki 1.19.15
वसिष्ठोऽपि महातेजा ये च इमे तपसि स्थिताः ।यदि ते धर्म लाभम् तु यशः च परमम् भुवि ॥१-१९-१५॥
Vālmīki 1.19.16
स्थिरम् इच्छसि राजेन्द्र रामम् मे दातुम् अर्हसि ।यदि अभ्यनुज्ञाम् काकुत्स्थ ददते तव मंत्रिणः ॥१-१९-१६॥
Vālmīki 1.19.17
वसिष्ठ प्रमुखाः सर्वे ततो रामम् विसर्जय ।अभिप्रेतम् असंसक्तम् आत्मजम् दातुम् अर्हसि ॥१-१९-१७॥
Vālmīki 1.19.18
दश रात्रम् हि यज्ञस्य रामम् राजीव लोचनम् ।न अत्येति कालो यज्ञस्य यथा अयम् मम राघव ॥१-१९-१८॥
Vālmīki 1.19.19
तथा कुरुष्व भद्रम् ते मा च शोके मनः कृथाः ।इति एवम् उक्त्वा धर्मात्मा धर्मार्थ सहितम् वचः ॥१-१९-१९॥
Vālmīki 1.19.20
विरराम महातेजा विश्वामित्रो महामतिः ।स तन् निशम्य राजेन्द्रो विश्वामित्र वचः शुभम् ॥१-१९-२०॥
Vālmīki 1.19.21
शोकेन महता आविष्टः चचाल च मुमोह च ।लब्ध संज्ञः ततो उतथाय व्यषीदत भयान्वितः ॥१-१९-२१॥
Vālmīki 1.19.22
इति हृदय मनो विदारणम्मुनि वचनम् तद् अतीव शुश्रुवान् ।नरपतिः अभवत् महान् महात्माव्यथित मनाः प्रचचाल च असनात् ॥१-१९-२२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷