🪷 बालकाण्ड · Sarga 18
Bāla-Kāṇḍa · The Book of Childhood · Sarga 18 · 59 ślokas
⭐ This IS the Rāma-Janma Sarga (Vālmīki 1.18 · the 1,626,102 BCE compute-anchor)
Ślokas 8-15 below encode the primary (Anchor 1) astronomical specifications of Bhagavān Śrī Rāma's janma at Mid-Tretā 1,626,102 BCE. Caitra Śukla Navamī · Punarvasu nakshatra · 5 planets in own-uccha (Pañca-Uccha-Yoga) · Karka lagna · Jupiter-Moon conjunction · sunrise birth. PŪRṆA-DARŚANA is further vindicated by Anchor 2 (Ayodhyā 2.26 Bṛhaspati-Puṣya year+29) and Anchor 3 (Yuddha 6.103 Rāvaṇa-vadha year+41) · per Mādhava-Pratyabhijñā Constitutional Principle 20. See /rama for the non-dual singularity declaration · /chart/rama for the rendered kuṇḍalī · /computational-moat for the technical proof.
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.18local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga indexVālmīki 1.18.8first Rāma-janma astronomical verse/chart/ramarendered janma-kuṇḍalī for the sarga claim/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surfaceRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।प्रति गृह्य अमरा भागान् प्रतिजग्मुः यथा आगतम् ॥१-१८-१॥
समाप्त दीक्षा नियमः पत्नी गण समन्वितः ।प्रविवेश पुरीम् राजा स भृत्य बल वाहनः ॥१-१८-२॥
यथा अर्हम् पूजिताः तेन राज्ञा च पृथिवीश्वराः ।मुदिताः प्रययुः देशान् प्रणम्य मुनि पुंगवम् ॥१-१८-३॥
श्रीमताम् गच्छताम् तेषाम् स्वगृहाणि पुरात् ततः ।बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥
गतेषु पृथिवीशेषु राजा दशरथः पुनः ।प्रविवेश पुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥
शांतया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः ।अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥
एवम् विसृज्य तान् सर्वान् राजा संपूर्ण मानसः ।उवास सुखितः तत्र पुत्र उत्पत्तिम् विचिंतयन् ॥१-१८-७॥
ततो यज्ञे समाप्ते तु ऋतूनाम् षट् समत्ययुः ।ततः च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥
नक्क्षत्रे अदिति दैवत्ये स्व उच्छ संस्थेषु पंचसु ।ग्रहेषु कर्कटे लग्ने वाक्पता इंदुना सह ॥१-१८-९॥
प्रोद्यमाने जगन्नाथम् सर्व लोक नमस्कृतम् ।कौसल्या अजनयत् रामम् सर्व लक्षण संयुतम् ॥१-१८-१०॥
विष्णोः अर्धम् महाभागम् पुत्रम् ऐक्ष्वाकु नंदनम् ।लोहिताक्षम् महाबाहुम् रक्त ओष्टम् दुंदुभि स्वनम् ॥१-१८-११॥
कौसल्या शुशुभे तेन पुत्रेण अमित तेजसा ।यथा वरेण देवानाम् अदितिः वज्र पाणिना ॥१-१८-१२॥
भरतो नाम कैकेय्याम् जज्ञे सत्य पराक्रमः ।साक्षात् विष्णोः चतुर्थ भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥
अथ लक्ष्मण शत्रुघ्नौ सुमित्रा अजनयत् सुतौ ।वीरौ सर्व अस्त्र कुशलौ विष्णोः अर्ध समन्वितौ ॥१-१८-१४॥
पुष्ये जातः तु भरतो मीन लग्ने प्रसन्न धीः ।सार्पे जातौ तु सौमित्री कुLईरे अभ्युदिते रवौ ॥१-१८-१५॥
राज्ञः पुत्रा महात्मानः चत्वारो जज्ञिरे पृथक् ।गुणवंतः अनुरूपाः च रुच्या प्रोष्ठ पदोपमाः ॥१-१८-१६॥
जगुः कलम् च गंधर्वा ननृतुः च अप्सरो गणाः ।देव दुंदुभयो नेदुः पुष्प वृष्टिः च खात् पतत् ॥१-१८-१७॥
उत्सवः च महान् आसीत् अयोध्यायाम् जनाकुलः ।रथ्याः च जन संबाधा नट नर्तक संकुलाः ॥१-१८-१८॥
गायनैः च विराविण्यो वादनैः च तथ अपरैः ।विरेजुर् विपुलाः तत्र सर्व रत्न समन्विताः ॥१-१८-१९॥
प्रदेयांश्च ददौ राजा सूत मागध वंदिनाम् ।ब्राह्मणेभ्यो ददौ वित्तम् गो धनानि सहस्रशः ॥१-१८-२०॥
अतीत्य एकादश आहम् तु नाम कर्म तथा अकरोत् ।ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयी सुतम् ॥१-१८-२१॥
सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा ।वसिष्ठः परम प्रीतो नामानि कुरुते तदा ॥१-१८-२२॥
ब्राह्मणान् भोजयामास पौरान् जानपदान् अपि ।उददद् ब्राह्मणानाम् च रत्नौघम् अमलम् बहु ॥१-१८-२३॥
तेषाम् जन्म क्रिय आदीनि सर्व कर्माणि अकारयत् ।तेषाम् केतुः इव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥
बभूव भूयो भूतानाम् स्वयम् भूः इव सम्मतः ।सर्वे वेद विदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥
सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ।तेषाम् अपि महातेजा रामः सत्य पराक्रमः ॥१-१८-२६॥
इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः ।गज स्कन्धे अश्व पृष्टे च रथ चर्यासु सम्मतः ॥१-१८-२७॥
धनुर्वेदे च निरतः पितुः शुशॄषणे रतः ।बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मि वर्धनः ॥१-१८-२८॥
रामस्य लोकरामस्य भ्रातुः ज्येष्ठस्य नित्यशः ।सर्व प्रिय करः तस्य रामस्य अपि शरीरतः ॥१-१८-२९॥
लक्ष्मणो लक्ष्मि संपन्नो बहिः प्राण इव अपरः ।न च तेन विना निद्राम् लभते पुरुषोत्तमः ॥१-१८-३०॥
मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना ।यदा हि हयम् आरूढो मृगयाम् याति राघवः ॥१-१८-३१॥
अथ एनम् पृष्ठतः अभ्येति स धनुः परिपालयन् ।भरतस्य अपि शत्रुघ्नो लक्ष्मण अवरजो हि सः ॥१-१८-३२॥
प्राणैः प्रियतरो नित्यम् तस्य च आसीत् तथा प्रियः ।स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः ॥१-१८-३३॥
बभूव परम प्रीतो देवैः इव पितामहः ।ते यदा ज्ञान संपन्नाः सर्वैः समुदिता गुणैः ॥१-१८-३४॥
ह्रीमन्तः कीर्तिमन्तः च सर्वज्ञा दीर्घ दर्शिनः ।तेषाम् एवम् प्रभावाणाम् सर्वेषाम् दीप्त तेजसाम् ॥१-१८-३५॥
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।ते च अपि मनुज व्याघ्रा वैदिक अध्ययने रताः ॥१-१८-३६॥
पितृ शुश्रूषण रता धनुर् वेदे च निष्टिताः ।अथ राजा दशरथः तेषाम् दार क्रियाम् प्रति ॥१-१८-३७॥
चिंतयामास धर्मात्मा सह उपाध्यायः स बान्धवः ।तस्य चिंतयमानस्य मंत्रि मध्ये महात्मनः ॥१-१८-३८॥
अभ्यागच्छत् महातेजा विश्वामित्रो महामुनिः ।स राज्ञो दर्शन आकांक्षी द्वार अध्यक्षान् उवाच ह ॥१-१८-३९॥
शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम् ।तत् श्रुत्वा वचनम् तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥
संभ्रान्त मनसः सर्वे तेन वाक्येन चोदिताः ।ते गत्वा राज भवनम् विश्वामित्रम् ऋषिम् तदा ॥१-१८-४१॥
प्राप्तम् आवेदयामासुः नृपायैः इक्ष्वाकवे तदा ।तेषाम् तत् वचनम् श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥
प्रति उज्जगाम संहृष्टो ब्रह्माणम् इव वासवः ।तम् दृष्ट्वा ज्वलितम् दीप्त्या तपसम् संशित व्रतम् ॥१-१८-४३॥
प्रहृष्ट वदनो राजा ततः अर्घ्यम् उपहारयत् ।स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र दृष्टेन कर्मणा ॥१-१८-४४॥
कुशलम् च अव्ययम् च एव पर्य पृच्छत् नराधिपम् ।पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥
कुशलम् कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।अपि ते संनताः सर्वे सामंत रिपवो जिताः ॥१-१८-४६॥
दैवम् च मानुषम् च एव कर्म ते साधु अनुष्टितम् ।वसिष्ठम् च समागम्य कुशलम् मुनिपुंगवः ॥१-१८-४७॥
ऋषीम् च तान् यथा न्यायम् महाभाग उवाच ह ।ते सर्वे हृष्ट मनसः तस्य राज्ञो निवेशनम् ॥१-१८-४८॥
विविशुः पूजिताः तेन निषेदुः च यथा अर्हतः ।अथ हृष्ट मना राजा विश्वामित्रम् महामुनिम् ॥१-१८-४९॥
उवाच परम उदारो हृष्टः तम् अभिपूजयन् ।यथा अमृतस्य संप्राप्तिः यथा वर्षम् अनूदके ॥१-१८-५०॥
यथा सदृश दारेषु पुत्र जन्म अप्रजस्य वै ।प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥१-१८-५१॥
तथा एव आगमनम् मन्ये स्वागतम् ते महामुने ।कम् च ते परमम् कामम् करोमि किमु हर्षितः ॥१-१८-५२॥
पात्र भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।अद्य मे सफलम् जन्म जीवितम् च सु जीवितम् ॥१-१८-५३॥
यस्माद् विप्रेन्द्रम् अद्राक्षम् सुप्रभाता निशा मम ।पूर्वम् राजर्षि शब्देन तपसा द्योतित प्रभः ॥१-१८-५४॥
ब्रह्मर्षित्वम् अनुप्राप्तः पूज्योअसि बहुधा मया ।तत् अद्भुतम् अभूत् विप्र पवित्रम् परमम् मम ॥१-१८-५५॥
शुभ क्षेत्र गतः च अहम् तव संदर्शनात् प्रभो ।ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति ॥१-१८-५६॥
इच्छाम् अनुगृहीतो अहम् त्वदर्थम् परिवृद्धये ।कार्यस्य न विमर्शम् च गंतुम् अर्हसि सुव्रत ॥१-१८-५७॥
कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम ।मम च अयम् अनुप्राप्तो महान् अभ्युदयो द्विज ।तव आगमन जः कृत्स्नो धर्मः च अनुत्तमो द्विज ॥१-१८-५८॥
इति हृदय सुखम् निशम्य वाक्यम्श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।प्रथित गुण यशा गुणैः विशिष्टःपरम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 17
- Next: Bāla-Kāṇḍa Sarga 19 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷