🪷 बालकाण्ड · Sarga 17
Bāla-Kāṇḍa · The Book of Childhood · Sarga 17 · 37 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.17local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
पुत्रत्वम् तु गते विष्णौ राज्ञः तस्य महात्मनः ।उवाच देवताः सर्वाः स्वयंभूः भगवान् इदम् ॥१-१७-१॥
सत्य संधस्य वीरस्य सर्वेषाम् नो हितैषिणः ।विष्णोः सहायान् बलिनः सृजध्वम् काम रूपिणः ॥१-१७-२॥
माया विदः च शूराम् च वायु वेग समान् जवे ।नयज्ञान् बुद्धि संपन्नान् विष्णु तुल्य पराक्रमान् ॥१-१७-३॥
असंहार्यान् उपायज्ञान् दिव्य संहनन अन्वितान् ।सर्व अस्त्र गुण संपन्नानन् अमृत प्राशनान् इव ॥१-१७-४॥
अप्सरस्सु च मुख्यासु गन्धर्वाणाम् तनूषु च ।यक्ष पन्नग कन्यासु ऋक्ष विद्याधरीषु च ॥१-१७-५॥
किंनरीणाम् च गात्रेषु वानरीनाम् तनूसु च ।सृजध्वम् हरि रूपेण पुत्रान् तुल्य पराक्रमान् ॥१-१७-६॥
पूर्वम् एव मया सृष्टो जांबवान् ऋक्ष पुङ्गवः ।जृंभमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥
ते तथा उक्ताः भगवता तत् प्रति श्रुत्य शासनम् ।जनयामासुः एवम् ते पुत्रान् वानर रूपिणः ॥१-१७-८॥
ऋषयः च महात्मानः सिद्ध विद्याधर उरगाः ।चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ॥१-१७-९॥
वानरेन्द्रम् महेन्द्र आभम् इन्द्रः वालिनम् आत्मजम् ।सुग्रीवम् जनयामास तपनः तपताम् वरः ॥१-१७-१०॥
बृहस्पतिः तु अजनयत् तारम् नाम महा कपिम् ।सर्व वानर मुख्यानाम् बुद्धिमन्तम् अनुत्तमम् ॥१-१७-११॥
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।विश्वकर्मा तु अजनयन् नलम् नाम महा कपिम् ॥१-१७-१२॥
पावकस्य सुतः श्रीमान् नीलः अग्नि सदृश प्रभः ।तेजसा यशसा वीर्यात् अत्यरिच्यत वीर्यवान् ॥१-१७-१३॥
रूप द्रविण संपन्नौ अश्विनौ रूपसंमतौ ।मैन्दम् च द्विविदम् च एव जनयामासतुः स्वयम् ॥१-१७-१४॥
वरुणो जनयामास सुषेणम् नाम वानरम् ।शरभम् जनयामास पर्जन्यः तु महाबलः ॥१-१७-१५॥
मारुतस्य औरसः श्रीमान् हनुमान् नाम वानरः ।वज्र संहननोपेतो वैनतेय समः जवे ॥१-१७-१६॥
सर्व वानर मुख्येषु बुद्धिमान् बलवान् अपि ।ते सृष्टा बहु साहस्रा दशग्रीव वधे उद्यताः ॥१-१७-१७॥
अप्रमेय बला वीरा विक्रान्ताः काम रूपिणः ।ते गज अचल संकाशा वपुष्मंतो महाबलाः ॥१-१७-१८॥
ऋक्ष वानर गोपुच्छाः क्षिप्रम् एव अभिजज्ञिरे ।यस्य देवस्य यद् रूपम् वेषो यः च पराक्रमः ॥१-१७-१९॥
अजायत समम् तेन तस्य तस्य पृथक् पृथक् ।गोलान्गूलेषु च उत्पन्नाः किंचिद् उन्नत विक्रमाः ॥१-१७-२०॥
ऋक्षीषु च तथा जाता वानराः किंनरीषु च ।देवा महर्षि गन्धर्वाः तार्क्ष्य यक्षा यशस्विनः ॥१-१७-२१॥
नागाः किम्पुरुषाः च एव सिद्ध विद्याधर उरगाः ।बहवो जनयामासुः हृष्टाः तत्र सहस्रशः ॥१-१७-२२॥
चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ।वानरान् सु महाकायान् सर्वान् वै वन चारिणः ॥१-१७-२३॥
अप्सरस्सु च मुख्यासु तदा विद्यधरीषु च ।नाग कन्यासु च तदा गन्धर्वीणाम् तनूषु च ।काम रूप बलोपेता यथा काम विचारिणः ॥१-१७-२४॥
सिंह शार्दूल सदृशा दर्पेण च बलेन च ।शिला प्रहरणाः सर्वे सर्वे पर्वत योधिनः ॥१-१७-२५॥
नख दन्ष्ट्र आयुधाः सर्वे सर्वे सर्व अस्त्र कोविदाः ।विचाल येयुः शैलेन्द्रान् भेद येयुः स्थिरान् द्रुमान् ॥१-१७-२६॥
क्षोभ येयुः च वेगेन समुद्रम् सरिताम् पतिम् ।दार येयुः क्षितिम् पद्भ्याम् आप्लवेयुः महा अर्णवन् ॥१-१७-२७॥
नभस्थलम् विशेयुर् च गृह्णीयुर् अपि तोयदान् ।गृह्णीयुर् अपि मातंगान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥
नर्दमानाः च नादेन पात येयुः विहंगमान् ।ईदृशानाम् प्रसूतानि हरीणाम् काम रूपिणाम् ॥१-१७-२९॥
शतम् शत सहस्राणि यूथपानाम् महात्मनाम् ।ते प्रधानेषु यूथेषु हरीणाम् हरियूथपाः ॥१-१७-३०॥
बभूवुर् यूथप श्रेष्ठान् वीराम् च अजनयन् हरीन् ।अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ॥१-१७-३१॥
अन्ये नाना विधान् शैलान् काननानि च भेजिरे ।सूर्य पुत्रम् च सुग्रीवम् शक्र पुत्रम् च वालिनम् ॥१-१७-३२॥
भ्रातरौ उपतस्थुः ते सर्वे च हरि यूथपाअः ।नलम् नीलम् हनूमन्तम् अन्यांश्च हरि यूथपान् ॥१-१७-३३॥
ते तार्क्ष्य बल संपन्नाः सर्वे युद्ध विशारदाः ।विचरन्तोऽर्दयन् सर्वान् सिंह व्याघ्र महोरगान् ॥१-१७-३४॥
महाबलो महाबाहुः वाली विपुल विक्रमः ।जुगोप भुज वीर्येण ऋक्ष गोपुच्छ वानरान् ॥१-१७-३५॥
तैः इयम् पृध्वी शूरैः सपर्वत वन अर्णवा ।कीर्णा विविध संस्थानैः नाना व्यंजन लक्षणैः ॥१-१७-३६॥
तैः मेघ बृन्दाचल कूट संनिभैःमहाबलैः वानर यूथप अधिपैः ।बभूव भूः भीम शरीर रूपैःसमावृता राम सहाय हेतोः ॥१-१७-३७॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 16
- Next: Bāla-Kāṇḍa Sarga 18 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷