🪷 बालकाण्ड · Sarga 16

Bāla-Kāṇḍa · The Book of Childhood · Sarga 16 · 32 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.16local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.16.1
ततो नारायणो देवो विषुणुः नियुक्तः सुर सत्तमैः ।जानन् अपि सुरान् एवम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-१६-१॥
Vālmīki 1.16.2
उपायः को वधे तस्य राक्ष्साधिपतेः सुराः ।यम् अहम् तम् समास्थाय निहन्याम् ऋषि कण्टकम् ॥१-१६-२॥
Vālmīki 1.16.3
एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् ।मानुषम् रूपम् आस्थाय रावणम् जहि संयुगे ॥१-१६-३॥
Vālmīki 1.16.4
स हि तेपे तपः तीव्रम् दीर्घ कालम् अरिंदम ।येन तुष्टोऽभवत् ब्रह्मा लोक कृत् लोक पूर्वजः ॥१-१६-४॥
Vālmīki 1.16.5
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः ।नानाविधेभ्यो भूतेभ्यो भयम् न अन्यत्र मानुषात् ॥१-१६-५॥
Vālmīki 1.16.6
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।एवम् पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥
Vālmīki 1.16.7
उत्सादयति लोकान् त्रीईन् स्त्रियः च अपि अपकर्षति ।तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परन्तप ॥१-१६-७॥
Vālmīki 1.16.8
इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् ।पितरम् रोचयामास तदा दशरथम् नृपम् ॥१-१६-८॥
Vālmīki 1.16.9
स च अपि अपुत्रो नृपतिः तस्मिन् काले महाद्युतिः ।अयजत् पुत्रियाम् इष्टिम् पुत्रेप्सुः अरिसूदनः ॥१-१६-९॥
Vālmīki 1.16.10
स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् ।अन्तर्धानम् गतो देवैः पूज्य मानो महर्षिभिः ॥१-१६-१०॥
Vālmīki 1.16.11
ततो वै यजमानस्य पावकात् अतुल प्रभम् ।प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम् ॥१-१६-११॥
Vālmīki 1.16.12
कृष्णम् रक्ताम्बर धरम् रक्ताअस्यम् दुन्दुभि स्वनम् ।स्निग्ध हर्यक्ष तनुज श्मश्रु प्रवरम् ऊर्धजम् ॥१-१६-१२॥
Vālmīki 1.16.13
शुभ लक्षण संपन्नम् दिव्य आभरण भूषितम् ।शैल शृङ्ग समुत्सेधम् दृप्त शार्दूल विक्रमम् ॥१-१६-१३॥
Vālmīki 1.16.14
दिवाकर समाअकारम् दीप्त अनल शिखोपमम् ।तप्त जाम्बूनदमयीम् राजतान्त परिच्छदाम् ॥१-१६-१४॥
Vālmīki 1.16.15
दिव्य पायस संपूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् ।प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीम् इव ॥१-१६-१५॥
Vālmīki 1.16.16
समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् ।प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप ॥१-१६-१६॥
Vālmīki 1.16.17
ततः परम् तदा राजा प्रति उवाच कृत अंजलिः ।भगवन् स्वागतम् तेऽस्तु किमहम् करवाणि ते ॥१-१६-१७॥
Vālmīki 1.16.18
अथो पुनः इदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् ।राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया ॥१-१६-१८॥
Vālmīki 1.16.19
इदम् तु नृप शार्दूल पायसम् देव निर्मितम् ।प्रजा करम् गृहाण त्वम् धन्यम् आरोग्य वर्धनम् ॥१-१६-१९॥
Vālmīki 1.16.20
भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै ।तासु त्वम् लप्स्यसे पुत्रान् यदर्थम् यजसे नृप ॥१-१६-२०॥
Vālmīki 1.16.21
तथा इति नृपतिः प्रीतः शिरसा प्रति गृह्य ताम् ।पात्रीम् देव अन्न संपूर्णाम् देव दत्ताम् हिरण्मयीम् ॥१-१६-२१॥
Vālmīki 1.16.22
अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय दर्शनम् ।मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ॥१-१६-२२॥
Vālmīki 1.16.23
ततो दशरथः प्राप्य पायसम् देव निर्मितम् ।बभूव परम प्रीतः प्राप्य वित्तम् इव अधनः ॥१-१६-२३॥
Vālmīki 1.16.24
ततः तत् अद्भुत प्रख्यम् भूतम् परम भास्वरम् ।संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत ॥१-१६-२४॥
Vālmīki 1.16.25
हर्ष रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ ।शारदस्य अभिरामस्य चंद्रस्य इव नभः अंशुभिः ॥१-१६-२५॥
Vālmīki 1.16.26
सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् ।पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः ॥१-१६-२६॥
Vālmīki 1.16.27
कौसल्यायै नरपतिः पायस अर्धम् ददौ तदा ।अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः ॥१-१६-२७॥
Vālmīki 1.16.28
कैकेय्यै च अवशिष्ट अर्धम् ददौ पुत्रार्थ कारणात् ।प्रददौ च अवशिष्ट अर्धम् पायसस्य अमृत उपमम् ॥१-१६-२८॥
Vālmīki 1.16.29
अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः ।एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक् ॥१-१६-२९॥
Vālmīki 1.16.30
ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः ।सम्मानम् मेनिरे सर्वाः प्रहर्ष उदित चेतसः ॥१-१६-३०॥
Vālmīki 1.16.31
ततस्तु ताः प्राश्य तद् उत्तम स्त्रियोमहीपतेः उत्तम पायसम् पृथक् ।हुताशन आदित्य समान तेजसःअचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥
Vālmīki 1.16.32
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियःप्ररूढ गर्भाः प्रति लब्ध मानसः ।बभूव हृष्टः त्रिदिवे यथा हरिःसुरेन्द्र सिद्ध ऋषि गणाभिपूजितः ॥१-१६-३२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷