🪷 बालकाण्ड · Sarga 15

Bāla-Kāṇḍa · The Book of Childhood · Sarga 15 · 34 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.15local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.15.1
मेधावी तु ततो ध्यात्वा स किङ्चित् इदम् उत्तरम् ।लब्ध सङ्ज्ञः ततः तम् तु वेदज्ञो नृपम् अब्रवीत् ॥१-१५-१॥
Vālmīki 1.15.2
इष्टिम् तेऽहम् करिष्यामि पुत्रीयाम् पुत्र कारणात् ।अथर्व सिरसि प्रोक्तैः मन्त्रैः सिद्धाम् विधानतः ॥१-१५-२॥
Vālmīki 1.15.3
ततः प्राक्रमत् इदम् इष्टिम् ताम् पुत्रीयाम् पुत्र कारणात् ।जुहाव अग्नौ च तेजस्वी मन्त्र दृष्टेन कर्मणा ॥१-१५-३॥
Vālmīki 1.15.4
ततो देवाः स गन्धर्वाः सिद्धाः च परम ऋषयः ।भाग प्रतिग्रहार्थम् वै समवेता यथाविधि ॥१-१५-४॥
Vālmīki 1.15.5
ताः समेत्य यथा न्यायम् तस्मिन् सदसि देवताः ।अब्रुवन् लोक कर्तारम् ब्रह्माणम् वचनम् ततः ॥१-१५-५॥
Vālmīki 1.15.6
भगवन् त्वत् प्रसादेन रावणो नाम राक्षसः ।सर्वान् नो बाधते वीर्यात् शासितुम् तम् न शक्नुमः ॥१-१५-६॥
Vālmīki 1.15.7
त्वया तस्मै वरो दत्तः प्रीतेन भगवन् तदा ।मानयन्तः च तम् नित्यम् सर्वम् तस्य क्षमामहे ॥१-१५-७॥
Vālmīki 1.15.8
उद्वेजयति लोकान् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः ।शक्रम् त्रिदश राजानम् प्रधर्षयितुम् इच्छति ॥१-१५-८॥
Vālmīki 1.15.9
ऋषीन् यक्षान् स गन्धर्वान् असुरान् ब्राह्मणान् तथा ।अतिक्रामति दुर्धर्षो वर दानेन मोहितः ॥१-१५-९॥
Vālmīki 1.15.10
नैनम् सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।चलोर्मिमाली तम् दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥
Vālmīki 1.15.11
तन् महन्नो भयम् तस्मात् राक्षसात् घोर दर्शनात् ।वधार्थम् तस्य भगवन् उपायम् कर्तुम् अर्हसि ॥१-१५-११॥
Vālmīki 1.15.12
एवम् उक्तः सुरैः सर्वैः चिन्तयित्वा ततोऽब्रवीत् ।हन्ता अयम् विदितः तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥
Vālmīki 1.15.13
तेन गन्धर्व यक्षाणाम् देवतानाम् च रक्षसाम् ।अवध्योऽस्मि इति वागुक्ता तथेति उक्तम् च तन् मया ॥१-१५-१३॥
Vālmīki 1.15.14
न अकीर्तयत् अवज्ञानात् तत् रक्षो मानुषाम् तदा ।तस्मात् स मानुषात् वध्यो मृत्युः न अन्योऽस्य विद्यते ॥१-१५-१४॥
Vālmīki 1.15.15
एतत् श्रुत्वा प्रियम् वाक्यम् ब्रह्मणा समुदाहृतम् ।देवा महर्षयः सर्वे प्रहृष्टाः ते अभवन् तदा ॥१-१५-१५॥
Vālmīki 1.15.16
एतस्मिन् अनन्तरे विष्णुः उपयातो महाद्युतिः ।श्ङ्ख चक्र गदा पाणिः पीत वासा जगत्पतिः ॥१-१५-१६॥
Vālmīki 1.15.17
वैनतेयम् समारूह्य भास्कर तोयदम् यथा ।तप्त हाटक केयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥
Vālmīki 1.15.18
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ।तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥
Vālmīki 1.15.19
त्वाम् नियोक्ष्यामहे विष्णो लोकानाम् हित काम्यया ।राज्ञो दशरथस्य त्वम् अयोध्य अधिपतेः विभोः ॥१-१५-१९॥
Vālmīki 1.15.20
धर्मज्ञस्य वदान्यस्य महर्षि सम तेजसः ।अस्य भार्यासु तिसृषु ह्री श्री कीर्ति उपमासु च ॥१-१५-२०॥
Vālmīki 1.15.21
विष्णो पुत्रत्वम् आगच्छ कृत्वा आत्मानम् चतुर्विधम् ।तत्र त्वम् मानुषो भूत्वा प्रवृद्धम् लोक कण्टकम् ॥१-१५-२१॥
Vālmīki 1.15.22
अवध्यम् दैवतैः विष्णो समरे जहि रावणम् ।स हि देवान् स गन्धर्वान् सिद्धान् च ऋषि सत्तमान् ॥१-१५-२२॥
Vālmīki 1.15.23
राक्षसो रावणो मूर्खो वीर्य उद्रेकेण बाधते ।ऋषयः च ततः तेन गन्धर्वा अप्सरसः तथा ॥१-१५-२३॥
Vālmīki 1.15.24
क्रीडयन्तो नन्दन वने रैउद्रेण विनिपातिताः ।वधार्थम् वयम् आयाताः तस्य वै मुनिभिः सह ॥१-१५-२४॥
Vālmīki 1.15.25
सिद्ध गन्धर्व यक्षाः च ततः त्वाम् श्ररणम् गताः ।त्वम् गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥
Vālmīki 1.15.26
वधाय देव शतॄणाम् नृणाम् लोके मनः कुरु ।एवम् स्तुतस्तु देवेशो विष्णुः त्रिदशः पुंगवः ॥१-१५-२६॥
Vālmīki 1.15.27
पितामह पुरोगान् तान् सर्व लोक नमस्कृतःअब्रवीत् त्रिदशान् सर्वान् समेतान् धर्म संहितान् ॥१-१५-२७॥
Vālmīki 1.15.28
भयम् त्यजत भद्रम् वो हितार्थम् युधि रावणम् ।स पुत्र पौत्रम् स अमात्यम् स मित्र ज्ञाति बान्धवम् ॥१-१५-२८॥
Vālmīki 1.15.29
हत्वा क्रूरम् दुराधर्षम् देव ऋषीणाम् भयावहम् ।दश वर्ष सहस्राणि दश वर्ष शतानि च ॥१-१५-२९॥
Vālmīki 1.15.30
वत्स्यामि मानुषे लोके पालयन् पृध्वीम् इमाम् ।एवम् दत्वा वरम् देवो देवानाम् विष्णुः आत्मवान् ॥१-१५-३०॥
Vālmīki 1.15.31
मानुषे चिन्तयामास जन्मभूमिम् अथ आत्मनः ।ततः पद्म पलाशाक्षः कृत्वा आत्मानम् चतुर्विधम् ॥१-१५-३१॥
Vālmīki 1.15.32
पितरम् रोचयामास तदा दशरथम् नृपम् ।तदा देव ऋषि गन्धर्वाः स रुद्राः स अप्सरो गणाः ।स्तुतिभिः दिव्य रूपाभिः तुष्टुवुः मधुसूदनम् ॥१-१५-३२॥
Vālmīki 1.15.33
तम् उद्धतम् रावणम् उग्र तेजसम्प्रवृद्ध दर्पम् त्रिदशेश्वर वर द्विषम् ।विरावणम् साधु तपस्वि कण्टकम्तपस्विनाम् उद्धर तम् भयाअवहम् ॥१-१५-३३॥
Vālmīki 1.15.34
तमेव हत्वा स बलम् स बान्धवम्विरावणम् रावणम् उग्र पौरुषम् ।स्वर् लोकम् आगच्छ गत ज्वरः चिरम्सुरेन्द्र गुप्तम् गत दोष कल्मषम् ॥१-१५-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷