🪷 बालकाण्ड · Sarga 14

Bāla-Kāṇḍa · The Book of Childhood · Sarga 14 · 60 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 1.14local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 1.14.1
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे ।सरय्वाः च उत्तरे तीरे राज्ञो यज्ञो अभ्यवर्तत ॥१-१४-१॥
Vālmīki 1.14.2
ऋष्यशृंगम् पुरस्कृत्य कर्म चक्रुः द्विजर्षभाः ।अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥
Vālmīki 1.14.3
कर्म कुर्वंति विधिवत् याजका वेदपारगाः ।यथा विधि यथा न्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥
Vālmīki 1.14.4
प्रवर्ग्यम् शास्त्रतः कृत्वा तथा एव उपसदम् द्विजाः ।चक्रुः च विधिवत् सर्वम् अधिकम् कर्म शास्त्रतः ॥१-१४-४॥
Vālmīki 1.14.5
अभिपूज्य तदा हृष्टाः सर्वे चक्रुः यथा विधि ।प्रातः सवन पूर्वाणि कर्माणि मुनिपुंगवाः ॥१-१४-५॥
Vālmīki 1.14.6
ऐन्द्रश्च विधिवत् दत्तो राजा च अभिषुतोऽनघः ।मध्यंदिनम् च सवनम् प्रावर्तत यथा क्रमम् ॥१-१४-६॥
Vālmīki 1.14.7
तृतीय सवनम् चैव राज्ञोऽस्य सुमहात्मनः ।चक्रुः ते शाश्त्रतो दृष्ट्वा तथा ब्राह्मण पुंगवाः ॥१-१४-७॥
Vālmīki 1.14.8
आह्वान् चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।ऋष्यशृङ्गाअदौ मन्त्रैः शिक्षाक्षर समन्वितौ ॥१-१४-८॥
Vālmīki 1.14.9
गीतिभिः मधुरैः स्निग्धैः मन्त्र आह्वानैः यथार्हतः ।होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥
Vālmīki 1.14.10
न च अहुतं आभूत् तत्र स्खलितम् वा न किंचन ।दृश्यते ब्रह्मवत् सर्वम् क्षेमयुक्तम् हि चक्रिरे ॥१-१४-१०॥
Vālmīki 1.14.11
न तेषु अहस्सु श्रान्तो वा क्षुधितो वा न दृश्यते ।न अविद्वान् ब्राह्मणः कश्चिन् न अशत अनुचरः तथा ॥१-१४-११॥
Vālmīki 1.14.12
ब्राह्मणा भुंजते नित्यम् नाथवन्तः च भुंजते ।तापसा भुंजते च अपि श्रमणाः चैव भुंजते ॥१-१४-१२॥
Vālmīki 1.14.13
वृद्धाः च व्याधिताः च एव स्त्री बालाः तथा एव च ।अनिशं भुंजमानानां न तृप्तिः उपलभ्यते ॥१-१४-१३॥
Vālmīki 1.14.14
दीयताम् दीयताम् अन्नम् वासांसि विविधानि च ।इति संचोदिताः तत्र तथा चक्रुः अनेकशः ॥१-१४-१४॥
Vālmīki 1.14.15
अन्न कूटाः च दृश्यन्ते बहवः पर्वत उपमाः ।दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥
Vālmīki 1.14.16
नाना देशात् अनुप्राप्ताः पुरुषाः स्त्री गणाः तथा ।अन्न पानैः सुविहिताः तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥
Vālmīki 1.14.17
अन्नम् हि विधिवत् स्वादु प्रशन्सन्ति द्विजर्षभाः ।अहो तृप्ताः स्म भद्रम् ते इति शुश्राव राघवः ॥१-१४-१७॥
Vālmīki 1.14.18
स्वलंकृताः च पुरुषा ब्राह्मणान् पर्यवेषयन् ।उपासन्ते च तान् अन्ये सुमृष्ट मणि कुण्डलाः ॥१-१४-१८॥
Vālmīki 1.14.19
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।प्राहुः सुवाग्मिनो धीराः परस्पर जिगीषया ॥१-१४-१९॥
Vālmīki 1.14.20
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।सर्व कर्माणि चक्रुः ते यथा शास्त्रं प्रचोदिताः ॥१-१४-२०॥
Vālmīki 1.14.21
न अषडङ्ग वित् अत्र आसीत् न अव्रतो न अबहुश्रुतः ।सदस्यः तस्य वै राज्ञो न अवाद कुशला द्विजाः ॥१-१४-२१॥
Vālmīki 1.14.22
प्राप्ते यूपः उच्छ्रये तस्मिन् षड् बैल्वाः खादिराः तथा ।तावन्तो बिल्व सहिताः पर्णिनः च तथा अपरे ॥१-१४-२२॥
Vālmīki 1.14.23
श्लेष्मातकमयः दिष्टो देवदारुमयः तथा ।द्वावेव तत्र विहितौ बाहु व्यस्त परिग्रहौ ॥१-१४-२३॥
Vālmīki 1.14.24
कारिताः सर्व एवैते शास्त्रज्ञैः यज्ञकोविदैः ।शोभाअर्थम् तस्य यज्ञस्य कांचन अलंकृत अभवन् ॥१-१४-२४॥
Vālmīki 1.14.25
एक विंशति यूपाः ते एक विंशत् अरत्नयः ।वासोभिः एक विंशद्भिः एकैकम् समलंकृताः ॥१-१४-२५॥
Vālmīki 1.14.26
विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।अष्ट आस्रयः सर्व एव श्लक्ष्ण रूप समन्विताः ॥१-१४-२६॥
Vālmīki 1.14.27
आच्छादिताः ते वासोभिः पुष्पैः गन्धैः च पूजिताः ।सप्त ऋषयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥
Vālmīki 1.14.28
इष्टकाः च यथा न्यायम् कारिताः च प्रमाणतः ।चितोऽग्निः ब्राह्मणैः तत्र कुशलैः शिप्लकर्मणि ॥१-१४-२८॥
Vālmīki 1.14.29
सचित्यो राज सिंहस्य संचितः कुशलैः द्विजैः ।गरुडो रुक्मपक्षो वै त्रिगुणो अष्टा दशात्मकः ॥१-१४-२९॥
Vālmīki 1.14.30
नियुक्ताः तत्र पशवः तत् तत् उद्दिश्य दैवतम् ।उरगाः पक्षिणः च एव यथा शास्त्रम् प्रचोदिताः ॥१-१४-३०॥
Vālmīki 1.14.31
शामित्रे तु हयः तत्र तथा जलचराः च ये ।ऋषिभिः सर्वम् एवै तन् नियुक्तम् शास्त्रतः तदा ॥१-१४-३१॥
Vālmīki 1.14.32
पशूनाम् त्रिशतम् तत्र यूपेषु नियतम् तदा ।अश्व रत्नः उत्तमम् तस्य राज्ञो दशरथस्य ह ॥१-१४-३२॥
Vālmīki 1.14.33
कौसल्या तम् हयम् तत्र परिचर्य समंततः ।कृपाणैः विशशासः एनम् त्रिभिः परमया मुदा ॥१-१४-३३॥
Vālmīki 1.14.34
पतत्रिणा तदा सार्धम् सुस्थितेन च चेतसा ।अवसत् रजनीम् एकाम् कौसल्या धर्म काम्यया ॥१-१४-३४॥
Vālmīki 1.14.35
होता अध्वर्युः तथ उद्गाता हस्तेन समयोजयन् ।महिष्या परिवृत्त्या अथ वावाताम् अपराम् तथा ॥१-१४-३५॥
Vālmīki 1.14.36
पतत्रिणः तस्य वपाम् उद्धृत्य नियतेइन्द्रियः ।ऋत्विक् परम संपन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥
Vālmīki 1.14.37
धूम गन्धम् वपायाः तु जिघ्रति स्म नराधिपः ।यथा कालम् यथा न्यायम् निर्णुदन् पापम् आत्मनः ॥१-१४-३७॥
Vālmīki 1.14.38
हयस्य यानि च अंगानि तानि सर्वाणि ब्राह्मणाः ।अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडश ऋत्विजः ॥१-१४-३८॥
Vālmīki 1.14.39
प्लक्ष शाखासु यज्ञानाम् अन्येषाम् क्रियते हविः ।अश्व मेधस्य यज्ञस्य वैतसो भागः इष्यते ॥१-१४-३९॥
Vālmīki 1.14.40
त्र्यहोऽश्व मेधः संख्यातः कल्प सूत्रेण ब्राह्मणैः ।चतुष्टोमम् अहः तस्य प्रथमम् परिकल्पितम् ॥१-१४-४०॥
Vālmīki 1.14.41
उक्थ्यम् द्वितीयम् संख्यातम् अतिरात्रम् तथोत्तरम् ।कारिताः तत्र बहवो विहिताः शास्त्र दर्शनात् ॥१-१४-४१॥
Vālmīki 1.14.42
ज्योतिष्टोम आयुषी च एवम् अतिरात्रौ विनिर्मितौ ।अभिजित् विश्वजित् च एवम् अप्तोर्यामो महाक्रतुः ॥१-१४-४२॥
Vālmīki 1.14.43
प्राचीम् होत्रे ददौ राजा दिशम् स्वकुल वर्धनःअध्वर्यवे प्रतीचीम् तु ब्रह्मणे दक्षिणाम् दिशम् ॥१-१४-४३॥
Vālmīki 1.14.44
उद्गात्रे च तथा उदीचीम् दक्षिणैएषा विनिर्मिता ।अश्वमेधे महायज्ञे स्वयंभु विहिते पुरा ॥१-१४-४४॥
Vālmīki 1.14.45
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।ऋत्विग्भ्यो हि ददौ राजा धराम् ताम् कुलवर्धनः ॥१-१४-४५॥
Vālmīki 1.14.46
एवम् दत्त्वा प्रहृष्टो अभूत् श्रीमान् इक्ष्वाकु नन्दन ।ऋत्विजः तु अब्रुवन् सर्वे राजानम् गत किल्बिषम् ॥१-१४-४६॥
Vālmīki 1.14.47
भवान् एव महीम् कृत्स्नाम् एको रक्षितुम् अर्हति ।न भूम्या कार्यम् अस्माकम् न हि शक्ताः स्म पालने ॥१-१४-४७॥
Vālmīki 1.14.48
रताः स्वाध्याय करणे वयम् नित्यम् हि भूमिप ।निष्क्रयम् किंचित् एव इह प्रयच्छतु भवान् इति ॥१-१४-४८॥
Vālmīki 1.14.49
मणि रत्नम् सुवर्णम् वा गावो यद् वा समुद्यतम् ।तत् प्रयच्छ नरश्रेष्ट धरण्या न प्रयोजनम् ॥१-१४-४९॥
Vālmīki 1.14.50
एवम् उक्तो नरपतिः ब्राह्मणैः वेद पारगैः ।गवाम् शत सहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥
Vālmīki 1.14.51
दश कोटि सुवर्णस्य रजतस्य चतुर् गुणम् ।ऋत्विजः च ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥
Vālmīki 1.14.52
ऋष्यशृन्गाय मुनये वसिष्ठाय च धीमते ।ततः ते न्यायतः कृत्वा प्रविभागम् द्विजोत्तमाः ॥१-१४-५२॥
Vālmīki 1.14.53
सुप्रीत मनसः सर्वे प्रत्यूचुः मुदिता भृशम् ।ततः प्रसर्पकेभ्यस्तु हिरण्यम् सुसमाहितः ॥१-१४-५३॥
Vālmīki 1.14.54
जांबूनदम् कोओटि संख्यम् ब्राह्मणेभ्यो ददौ तदा ।दरिद्राय द्विजाय अथ हस्त आभरणम् उत्तमम् ॥१-१४-५४॥
Vālmīki 1.14.55
कस्मै चित् याचमानाय ददौ राघव नंदनः ।ततः प्रीतेषु विधिवत् द्विजेषु द्विज वत्सलः ॥१-१४-५५॥
Vālmīki 1.14.56
प्रणामम् अकरोत् तेषाम् हर्ष व्याकुलित इन्द्रियः ।तस्य आशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥
Vālmīki 1.14.57
उदारस्य नृवीरस्य धरण्याम् पतितस्य च ।ततः प्रीत मना रजाअ प्राप्य यज्ञम् अनुत्तमम् ॥१-१४-५७॥
Vālmīki 1.14.58
पाप अपहम् स्वर् नयनम् दुस्तरम् पार्थिवर्षभैः ।ततोऽब्रवीत् ऋश्य्शृंगम् राजा दशरथः तदा ॥१-१४-५८॥
Vālmīki 1.14.59
कुलस्य वर्धनम् त्वम् तु कर्तुम् अर्हसि सुव्रत ।तथेति च स राजानम् उवाच द्विजसत्तमः ।भविष्यन्ति सुता राजन् चत्वारः ते कुलोद्वहाः ॥१-१४-५९॥
Vālmīki 1.14.60
स तस्य वाक्यम् मधुरम् निशम्यप्रणम्य तस्मै प्रयतो नृपेन्द्र ।जगाम हर्षम् परमम् महात्मातम् ऋष्यश्R^ङ्गम् पुनरपि उवाच ॥१-१४-६०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷