🪷 बालकाण्ड · Sarga 63
Bāla-Kāṇḍa · The Book of Childhood · Sarga 63 · 26 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 1.63local sarga route with all Sanskrit ślokasBāla-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
पूर्णे वर्ष सहस्रे तु व्रत स्नातम् महामुनिम् ।अभ्यागच्चन् सुराः सर्वे तपः फल चिकीर्षवः ॥१-६३-१॥
अब्रवीत् सु महातेजा ब्रह्मा सु रुचिरम् वचः ।ऋषिः त्वम् असि भद्रम् ते स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२॥
तम् एवम् उक्त्वा देवेशः त्रिदिवम् पुनः अभ्यगात् ।विश्वामित्रो महातेजा भूयः तेपे महत् तपः ॥१-६३-३॥
ततः कालेन महता मेनका परम अप्सराः ।पुष्करेषु नर श्रेष्ठ स्नातुम् समुपचक्रमे ॥१-६३-४॥
ताम् ददर्श महातेजा मेनकाम् कुशिक आत्मजः ।रूपेण अप्रतिमाम् तत्र विद्युतम् जलदे यथा ॥१-६३-५॥
दृष्ट्वा कन्दर्प वशगो मुनिः ताम् इदम् अब्रवीत् ।अप्सरः स्वागतम् ते अस्तु वस च इह मम आश्रमे ॥१-६३-६॥
अनुगृह्णीष्व भद्रम् ते मदनेन सु मोहितम् ।इति उक्ता सा वरारोहा तत्र वासम् अथ अकरोत् ॥१-६३-७॥
तपसो हि महाविघ्नो विश्वामित्रम् उपागतम् ।तस्याम् वसन्त्याम् वर्षाणि पंच पंच च राघव ॥१-६३-८॥
विश्वामित्र आश्रमे सौम्य सुखेन व्यतिचक्रमुः ।अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥१-६३-९॥
स व्रीड इव संवृत्तः चिन्ता शोक परायणः ।बुद्धिर् मुनेः समुत्पन्ना स अमर्षा रघुनंदन ॥१-६३-१०॥
सर्वम् सुराणाम् कर्म एतत् तपो अपहरणम् महत् ।अहो रात्रा अपदेशेन गताः संवत्सरा दश ॥१-६३-११॥
काम मोह अभिभूतस्य विघ्नो अयम् प्रत्युपस्थितः ।स विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१-६३-१२॥
भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्रांजलिम् स्थिताम् ।मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक आत्मजः ॥१-६३-१३॥
उत्तरम् पर्वतम् राम विश्वामित्रो जगाम ह ।स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु कामो महायशाः ॥१-६३-१४॥
कौशिकी तीरम् आसाद्य तपः तेपे दुरासदम् ।तस्य वर्ष सहस्राणि घोरम् तप उपासतः ॥१-६३-१५॥
उत्तरे पर्वते राम देवतानाम् अभूत् भयम् ।अमंत्रयन् समागम्य सर्वे स ऋषि गणाः सुराः ॥१-६३-१६॥
महर्षि शब्दम् लभताम् साधु अयम् कुशिक आत्मजः ।देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ॥१-६३-१७॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।महर्षे स्वागतम् वत्स तपसा उग्रेण तोषितः ॥१-६३-१८॥
महत्त्वम् ऋषि मुख्यत्वम् ददामि तव कौशिक ।ब्रह्मणः स वचः श्रुत्वा विश्वामित्रः तपो धनः ॥१-६३-१९॥
प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।ब्रह्मर्षि शब्दम् अतुलम् स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२०॥
यदि मे भगवान् आह ततो अहम् विजित इन्द्रियः ।तम् उवाच ततो ब्रह्मा न तावत् त्वम् जित इन्द्रियः ॥१-६३-२१॥
यतस्व मुनि शार्दूल इति उक्त्वा त्रिदिवम् गतः ।विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥१-६३-२२॥
ऊर्ध्व बाहुः निरालंबो वायु भक्षः तपः चरन् ।धर्मे पंच तपा भूत्वा वर्षासु आकाश संश्रयः ॥१-६३-२३॥
शिशिरे सलिले शायी रात्रि अहानि तपो धनः ।एवम् वर्ष सहस्रम् हि तपो घोरम् उपागमत् ॥१-६३-२४॥
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।संतापः सुमहान् आसीत् सुराणाम् वासवस्य च ॥१-६३-२५॥
रंभाम् अप्सरसम् शक्रः सह सर्वैः मरुत् गणैः ।उवाच आत्म हितम् वाक्यम् अहितम् कौशिकस्य च ॥१-६३-२६॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 62
- Next: Bāla-Kāṇḍa Sarga 64 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷