🪷 अयोध्याकाण्ड · Sarga 69

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 69 · 21 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.69.1
याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥
Vālmīki 2.69.2
व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥
Vālmīki 2.69.3
तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥
Vālmīki 2.69.4
वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥
Vālmīki 2.69.5
स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥
Vālmīki 2.69.6
तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥
Vālmīki 2.69.7
एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥
Vālmīki 2.69.8
स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥
Vālmīki 2.69.9
प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥
Vālmīki 2.69.10
ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥
Vālmīki 2.69.11
स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥
Vālmīki 2.69.12
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥
Vālmīki 2.69.13
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥
Vālmīki 2.69.14
पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥
Vālmīki 2.69.15
त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥
Vālmīki 2.69.16
प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥
Vālmīki 2.69.17
एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥
Vālmīki 2.69.18
नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥
Vālmīki 2.69.19
एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥
Vālmīki 2.69.20
न पश्यामि भयस्थानम् भयम् चैवोपधारये ।भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥
Vālmīki 2.69.21
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।अनेक रूपाम् अवितर्किताम् पुरा ।भयम् महत् तद्द् हृदयान् न याति मे ।विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷