🪷 अयोध्याकाण्ड · Sarga 68

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 68 · 22 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.68.1
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥
Vālmīki 2.68.2
यद् असौ मातुल कुले पुरे राज गृहे सुखी ।भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥
Vālmīki 2.68.3
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥
Vālmīki 2.68.4
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥
Vālmīki 2.68.5
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥
Vālmīki 2.68.6
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥
Vālmīki 2.68.7
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥
Vālmīki 2.68.8
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥
Vālmīki 2.68.9
कौशेयानि च वस्त्राणि भूषणानि वराणि च ।क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥
Vālmīki 2.68.10
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥
Vālmīki 2.68.11
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥
Vālmīki 2.68.12
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥
Vālmīki 2.68.13
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
Vālmīki 2.68.14
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥
Vālmīki 2.68.15
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥
Vālmīki 2.68.16
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥
Vālmīki 2.68.17
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥
Vālmīki 2.68.18
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥
Vālmīki 2.68.19
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥
Vālmīki 2.68.20
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥
Vālmīki 2.68.21
ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥
Vālmīki 2.68.22
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।भर्तुः च वम्शस्य परिग्रह अर्थम् ।अहेडमानाः त्वरया स्म दूता ।रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷