🪷 अयोध्याकाण्ड · Sarga 67

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 67 · 38 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.67.1
आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥
Vālmīki 2.67.2
व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥
Vālmīki 2.67.3
मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥
Vālmīki 2.67.4
एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥
Vālmīki 2.67.5
अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥
Vālmīki 2.67.6
स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥
Vālmīki 2.67.7
उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥
Vālmīki 2.67.8
इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥
Vālmīki 2.67.9
न अराजले जन पदे विद्युन् माली महा स्वनः ।अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥
Vālmīki 2.67.10
न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥
Vālmīki 2.67.11
अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥
Vālmīki 2.67.12
न अराजके जन पदे कारयन्ति सभाम् नराः ।उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥
Vālmīki 2.67.13
न अराजके जन पदे यज्ञ शीला द्विजातयः ।सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥
Vālmīki 2.67.14
न अराजके जनपदे महायज्ञेषु यज्वनः ।ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥
Vālmīki 2.67.15
न अराजके जन पदे प्रभूत नट नर्तकाः ।उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥
Vālmīki 2.67.16
न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥
Vālmīki 2.67.17
न अराजके जनपदे उद्यानानि समागताः ।सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥
Vālmīki 2.67.18
न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥
Vālmīki 2.67.19
न अराकजे जन पदे धनवन्तः सुरक्षिताः ।शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥
Vālmīki 2.67.20
न अराजके जनपदे बद्दघण्टा विषाणीनः ।आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥
Vālmīki 2.67.21
न अराजके जनपदे शरान् सम्ततमस्यताम् ।श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥
Vālmīki 2.67.22
न अराजके जन पदे वणिजो दूर गामिनः ।गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥
Vālmīki 2.67.23
न अराजके जन पदे चरति एक चरः वशी ।भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥
Vālmīki 2.67.24
न अराजके जन पदे योग क्षेमम् प्रवर्तते ।न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥
Vālmīki 2.67.25
न अराजके जनपदे हृष्टैः परमवाजिभिः ।नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥
Vālmīki 2.67.26
न अराजके जनपदे नराः शास्त्रविशारदाः ।सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥
Vālmīki 2.67.27
न अराजके जनपदे माल्यमोदकदक्षिणाः ।देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥
Vālmīki 2.67.28
न अराजके जनपदे चन्दनागुरुरूषिताः ।राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥
Vālmīki 2.67.29
यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥
Vālmīki 2.67.30
ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥
Vālmīki 2.67.31
न अराजके जन पदे स्वकम् भवति कस्यचित् ।मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥
Vālmīki 2.67.32
येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥
Vālmīki 2.67.33
यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥
Vālmīki 2.67.34
राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥
Vālmīki 2.67.35
यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥
Vālmīki 2.67.36
अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥
Vālmīki 2.67.37
जीवति अपि महा राजे तव एव वचनम् वयम् ।न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥
Vālmīki 2.67.38
स नः समीक्ष्य द्विज वर्य वृत्तम् ।नृपम् विना राज्यम् अरण्य भूतम् ।कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷