🪷 अयोध्याकाण्ड · Sarga 66

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 66 · 29 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.66.1
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
Vālmīki 2.66.2
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥
Vālmīki 2.66.3
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥
Vālmīki 2.66.4
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥
Vālmīki 2.66.5
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥
Vālmīki 2.66.6
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥
Vālmīki 2.66.7
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥
Vālmīki 2.66.8
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥
Vālmīki 2.66.9
विदेह राजस्य सुता तहा सीता तपस्विनी ।दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥
Vālmīki 2.66.10
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥
Vālmīki 2.66.11
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥
Vālmīki 2.66.12
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥
Vālmīki 2.66.13
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥
Vālmīki 2.66.14
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥
Vālmīki 2.66.15
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥
Vālmīki 2.66.16
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥
Vālmīki 2.66.17
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥
Vālmīki 2.66.18
हा महाराज रामेण सततम् प्रियवादिना ।विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥
Vālmīki 2.66.19
कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥
Vālmīki 2.66.20
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥
Vālmīki 2.66.21
त्वया तेन च वीरेण विना व्यसनमोहिताः ।कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥
Vālmīki 2.66.22
यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥
Vālmīki 2.66.23
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥
Vālmīki 2.66.24
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥
Vālmīki 2.66.25
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥
Vālmīki 2.66.26
गत प्रभा द्यौर् इव भास्करम् विना ।व्यपेत नक्षत्र गणा इव शर्वरी ।निवृत्तचारः सहसा गतो रविः ।प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥
Vālmīki 2.66.27
ऋते तु पुत्राद्दहनम् महीपते ।र्नरोचयन्ते सुहृदः समागताः ।इतीव तस्मिन् शयने न्यवेशय ।न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥
Vālmīki 2.66.28
गतप्रभा द्यौरिव भास्करम् विना ।व्यपेतनक्षत्रगणेव शर्वरी ।पुरी बभासे रहिता मह आत्मना ।न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥
Vālmīki 2.66.29
नराः च नार्यः च समेत्य सम्घशो ।विगर्हमाणा भरतस्य मातरम् ।तदा नगर्याम् नर देव सम्क्षये ।बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷