🪷 अयोध्याकाण्ड · Sarga 65

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 65 · 29 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.65.1
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥
Vālmīki 2.65.2
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥
Vālmīki 2.65.3
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥
Vālmīki 2.65.4
ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥
Vālmīki 2.65.5
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥
Vālmīki 2.65.6
व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥
Vālmīki 2.65.7
ततः शुचि समाचाराः पर्युपस्थान कोविदः ।स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥
Vālmīki 2.65.8
हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥
Vālmīki 2.65.9
मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥
Vālmīki 2.65.10
सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥
Vālmīki 2.65.11
ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥
Vālmīki 2.65.12
अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥
Vālmīki 2.65.13
तथाप्युचितवृत्तास्ता विनयेन नयेन च ।न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥
Vālmīki 2.65.14
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥
Vālmīki 2.65.15
प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥
Vālmīki 2.65.16
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥
Vālmīki 2.65.17
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥
Vālmīki 2.65.18
न व्यराजत कौसल्या तारेव तिमिरावृता ।कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥
Vālmīki 2.65.19
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥
Vālmīki 2.65.20
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥
Vālmīki 2.65.21
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥
Vālmīki 2.65.22
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥
Vālmīki 2.65.23
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥
Vālmīki 2.65.24
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥
Vālmīki 2.65.25
आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥
Vālmīki 2.65.26
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥
Vālmīki 2.65.27
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥
Vālmīki 2.65.28
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥
Vālmīki 2.65.29
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।यशस्विनम् सम्परिवार्य पत्नयः ।भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷